शार्ङ्गधरसंहिता/उत्तरखण्डम्
- अथ स्नेहपानविधिर्नाम प्रथमोऽध्यायः
- अथ स्नेहस्य भेदास्तत्पानकालश्च
- स्नेहश्चतुर्विंधः प्रोक्तो घृतं तैलं वसा तथा
- मज्जा च तं पिबेन्मत्तर्याः किचिदभ्युदिते रवौ १
- योनिभेदेन स्नेहस्य द्वैविध्यम्
- स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते २
- स्थावरजङ्गमयोः श्रेष्ठस्नेहनामनिर्देशः
- तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ३
- मिलितस्नेहनामानि
- द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ४
- स्नेहसात्म्ये कालावधिः
- पिबेत् त्र्! यहं चतुरहं पञ्चाहं षडहं तथा
- सप्तरात्रात्परं स्नेहं आत्मीभवति सेवितः ५
- स्नेहपानमात्राविषयाः
- दोषकालाग्निवयसां बलं दृष्ट्वा प्रयोजयेत्
- हीनां च मध्यमां ज्येष्ठां मात्रां स्नेहस्य बुद्धिमान् ६
- अमात्रादिसेवितस्नेहस्य दोषास्तदुपायाश्च
- अमात्रया तथाऽकाले मिथ्याहारविहारतः
- स्नेहः करोति शोफार्शस्तन्द्रा निद्रा विसंज्ञताः
- प्रकुर्याल्लङ्घनं तत्र स्वेदं ज्ञात्वा विरेचनम् ७
- स्नेहपानमात्राः
- देया दीप्ताग्नये मात्रा स्नेहस्य पलसंमिता
- मध्यमाय त्रिकर्षा स्याज्जघन्याय द्विकार्षिकी ८
- स्नेहपानमात्राया अन्ये भेदाः
- अथवा स्नेहमात्राः स्युस्तिस्रोऽन्या सर्वसम्मताः
- अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा
- जीर्यत्यल्पा दिनार्धेन सा विज्ञेया सुखावहा ९
- मात्राभेदेन स्नेहपानगुणाः
- अल्पा स्याद्दीपनी वृष्या स्वल्पदोषेषु पूजिता
- मध्यमा स्नेहनी ज्ञेया बृंहणी भ्रमहारिणी १०
- ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी ११
- दोषानुसारेण घृतपानेऽनुपानव्यवस्था
- केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
- पेयं बहुकफे चापि व्योषक्षारसमन्वितम् १२
- घृतपानयोग्या जनाः
- रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्
- हीनमेधास्मृतीनां च सर्पिष्पानं प्रशस्यते १३
- तैलपानयोग्या जनाः
- कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
- पिबेयुस्तैलसात्म्या ये तैलं दार्ढ्यार्थिनस्तु ये १४
- वसापानयोग्या जनाः
- व्यायामकर्षिताः शुष्करेतोरक्ता महारुजः
- महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः १५
- मञ्जापानयोग्या जनाः
- क्रूराशयाः क्लेशसहा वातार्त्ता दीप्तवह्नयः
- मज्जानं च पिबेयुस्ते सपिर्वा सर्वतो हितम् १६
- स्नेहपानसमयः
- शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
- वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा १७
- तैलघृतयोर्विशिष्टकर्मनिर्देशः
- नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणे
- तैलं घृतं वा युञ्जीत दृष्ट्वा दोषबलाबलम् १८
- स्नेहभेदेनानुपानभेदाः
- घृते कोष्णजलं पेयं तैले यूषः प्रशस्यते
- वसामज्ज्ञोः पिबेन्मण्डमनुपानं सुखावहम् १९
- सान्नस्नेहपानस्य विषयाः
- स्नेहद्विषः शिशून्वृद्धान्सुकुमारान्कृशानपि
- उष्णकामानुष्णकाले सह भक्तेन पाययेत् २०
- सद्यः स्नेहनयोगः
- सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला
- सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी २१
- सद्यः स्नेहनयोगान्तरम्
- शर्कराचूर्णसम्भृष्टे दोहनस्थे घृते तु गाम्
- दुग्ध्वा क्षीरं पिबेदुष्णं सद्यःस्नेहनमुच्यते २२
- स्नेहाजीर्णोपायः
- मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति
- विष्टभ्य वाऽपि जीर्येत वारिणोष्णेन वामयेत् २३
- स्नेहाजीर्णप्रतीकारः
- स्नेहस्याजीर्णशङ्कायां पिबेदुष्णोदकं नरः
- तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा २४
- स्नेहपानजतृष्णा चिकित्सा
- स्नेहेन पैक्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः
- तदाऽस्योदीरयेत्तृष्णां स्नेहमुष्णाम्बुना वमेत्
- शीतं जलं पाययेच्च पिपासा तेन शाम्यति २५
- स्नेहपानानर्हा नराः
- अजीर्णी वर्जयेत्स्नेहमुदरी तरुणज्वरी
- दुर्बलोऽरोचकी स्थूलो मूर्च्छार्त्तो मदपीडितः
- दत्तवस्तिर्विरिक्तश्च वान्तस्तृष्णाश्रमान्वितः
- अकालप्रसवा नारी दुर्दिने च विवर्जयेत् २६
- स्नेहपानार्हा नराः
- स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः
- वृद्धा बालाः कृशा रूक्षाः क्षीणास्राः क्षीणरेतसः
- वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनमुत्तमम् २७
- सुस्निग्धरूक्षयोर्लक्षणनिर्देशः
- वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् २८
- मृदुस्निग्धाङ्गताऽग्लानिः स्नेहावेगोऽथ लाघवम्
- विमलेन्द्रि यता सम्यक् स्निग्धे रूक्षे विपर्ययः २९
- अतिस्निग्धस्य लक्षणम्
- भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका
- तन्द्रा ऽतिसारः पाण्डुत्वं भृशं स्निग्धस्य लक्षणम् ३०
- रूक्षातिस्निग्धयोरुपायः
- रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
- श्यामाकचणकाद्यैश्च तक्रपिण्याकसक्तुभिः ३१
- स्नेहसेवनगुणाः
- दीप्ताग्निःशुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रि यः
- निर्जरो बलवर्णाढ्यः स्नेहसेवी भवेन्नरः ३२
- स्नेहसेवने वर्ज्याः
- स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्
- दिवास्वप्नमभिष्यन्दि रूक्षान्नं च विवर्जयेत् ३३
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्नेहपानविधिर्नाम प्रथमोऽध्यायः
- अथ स्वेदविधिर्नाम द्वितीयोऽध्यायः
- तत्रादौ स्वेदभेदाः
- स्वेदश्चतुर्विधः प्रोक्तस्तापोष्मौ स्वेदसंज्ञितौ
- उपनाहो द्र वः स्वेदः सर्वे वातार्त्तिहारिणः १
- दोषभेदेन स्वेदप्रयोगः
- स्वेदौ तापोष्मजौ प्रायःश्लेष्मघ्नौ समुदीरितौ
- उपनाहस्तु वातघ्नः पित्तसङ्गे द्र वो हितः २
- रोगिबलाद्यनुसारेण स्वेदस्य त्रैविध्यनिर्देशः
- महाबले महाव्याधौ शीते स्वेदो महान्स्मृतः
- दुर्बले दुर्बलः स्वेदो मध्ये मध्यतमो मतः ३
- दोषविशेषेण स्वेदविशेषनिर्देशः
- बलासे रूक्षणः स्वेदो रूक्षस्निग्धः कफानिले
- कफमेदावृते वाते कोष्णं गेहं रवेः करान् ४
- नियुद्धं मार्गगमनं गुरुप्रावरणं ध्रुवम्
- चिन्ताव्यायामभाराश्च सेवेतामयमुक्तये ५
- प्रथमस्वेद्या जनाः
- येषां नस्यं विधातव्यं वस्तिश्चापि हि देहिनाम्
- शोधनीयाश्च ये केचित्पूर्वं स्वेद्याश्च ते मताः ६
- उभयतः स्वेद्या जनाः
- स्वेद्याः पूर्वं त्रयः प्लीहभगन्दर्यर्शसस्तथा
- अश्मर्यश्चातुरो जन्तुः समये शस्त्रकर्मणः ७
- पश्चात्स्वेद्या जनाः
- पश्चात्स्वेद्या गते शल्ये मूढगर्भगदे तथा
- काले प्रजाताऽकाले वा पश्चात्स्वेद्या नितम्बिनी ८
- स्वेदकालः
- सर्वान्स्वेद्यान्निवाते च जीर्णाहारे च कारयेत् ९
- स्वेदफलम्
- स्वेदाद्धातुस्थिता दोषाः स्नेहक्लिन्नस्य देहिनः
- द्र वत्वं प्राप्य कोष्ठान्तर्गता यान्ति विरेचताम् १०
- स्वेदितस्य रक्षाविधिः
- स्विद्यमानशरीरस्य हृदयं शीतलैः स्पृशेत्
- स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ११
- स्वेदानर्हा जनाः
- अजीर्णी दुर्बलो मेही क्षतक्षीणः पिपासितः
- अतिसारी रक्तपित्ती पाण्डुरोगी तथोदरी १२
- मदार्त्तो गर्भिणी चैव न हि स्वेद्या विजानता
- एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत् १३
- मृदुस्वेद्यान्यङ्गानि
- मृदुस्वेदं प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु १४
- अतिस्वेदजा रोगाः
- अतिस्वेदात् सन्धिपीडा दाहस्तृष्णा क्लमो भ्रमः
- पित्तासृक्पिटिकाकोपस्तत्र शीतैरुपाचरेत् १५
- तापस्वेदलक्षणम्
- तेषु तापामिधः स्वेदो वालुकावस्त्रपाणिभिः
- कपालकन्दुकाङ्गारैर्यथायोग्यं प्रयुज्यते १६
- ऊष्मस्वेदविधिः
- ऊष्मस्वेदः प्रयोक्तव्यो लोहपिण्डेष्टकाश्मभिः
- प्रतप्तैरम्लसिक्तैश्च कार्ये रल्लकवेष्टिते १७
- अथवा वातनिर्णाशिद्र व्यक्वाथरसादिभिः
- उष्णैर्घंटं पूरयित्वा पार्श्वे छिद्रं निधाय च
- विमुद्र य्स्यां त्रिखण्डां च धातुजां काष्ठवंशजाम्
- षडङ्गुलास्यां गोपुच्छां नलद्यं युञ्ज्याद् द्विहस्तिकाम् १८
- सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
- हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् १९
- पुरुषायाममात्रां वा भूमिमुत्कीर्य खादिरैः
- काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः २०
- वातघ्नपत्रैराच्छाद्य शयानं स्वेदयेन्नरम्
- एवं माषादिभिः स्विन्नैः शयानं स्वेदमाचरेत् २१
- उपनाहस्वेदविधिः
- अथोपनाहस्वेदं च कुर्याद्वातहरौषधैः
- प्रदिह्य देहं वातार्त्तं क्षीरमांसरसान्वितैः
- अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः २२
- महाशाल्वणस्वेदविधिः
- उपग्राम्यानूपमांसैर्जीवनीयगणेन च २३
- दधिसौवीरकक्षारैर्वीरतर्वादिना तथा
- कुलत्थमाषगोधूमैरतसीतिलसर्षपैः २४
- शतपुष्पादेवदारुशेफालीस्थूलजीरकैः
- एरण्डमूलबीजैश्च रास्नामूलकशिग्रुभिः २५
- मिशिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः
- प्रसारिण्यश्वगन्धाभ्यां बलाभिर्दशमूलकैः २६
- गुडूचीवानरीबीजैर्यथालाभं समाहृतैः
- क्षुण्णैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् २७
- द्र वस्वेदलक्षणम्
- द्र वस्वेदस्तु वातघ्नद्र व्यक्वाथेन पूरिते
- कटाहे कोष्ठके वाऽपि सूपविष्टोऽवगाहयेत् २८
- द्र वस्वेदविधिः
- नाभेः षडङ्गुलं यावन्मग्नः क्वाथस्य धारया २९
- कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत्स्निग्धतनुर्नरः
- एवं तैलेन दुग्धेन सर्पिषा स्वेदयेन्नरम् ३०
- अवगाहनकालनियमः
- एकान्तरे द्व्यन्तरे वा स्नेहो युक्तोऽवगाहने ३१
- स्नेहावगाहनफलम्
- शिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयेत्
- शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ३२
- स्नेहसिक्तस्य धातुवृद्धौ हेतुः
- जलसिक्तस्य वर्धन्ते यथा मूलेऽङकुरास्तरोः
- तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते
- नातः परतरः कश्चिदुपायो वातनाशनः ३३
- स्वेदनविरत्यवस्थानिर्देशः
- शीतशूलाद्युपरमे स्तम्भगौरवनिग्रहे
- दीप्ताग्नौ मार्दवे जाते स्वेदनाद्विरतिर्मता ३४
- स्वेदनोत्तरं कर्त्तव्यकर्माणि
- सम्यक् स्विन्नं विमृदितं स्नानमुष्णाम्बुभिः शनैः
- भोजयेच्चानभिष्यन्दि व्यायामं च न कारयेत् ३५
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्वेदविधिर्नाम द्वितीयोऽध्यायः
- अथ वमनविधिर्नाम तृतीयोऽध्यायः
- तत्र वमनविरेचनयोः कालः
- शरत्काले वसन्ते च प्रावृट्काले च देहिनाम्
- वमनं रेचनं चैव कारयेत्कुशलो भिषक् १
- वमनार्हा जनाः
- बलवन्तं कफव्याप्तं हृल्लासार्त्तिनिपीडितम्
- तथा वमनसात्म्यं च धीरचित्तं च वामयेत् २
- वमनसाध्या रोगाः
- विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
- हृद्रो गकुष्ठवीसर्पमेहाजीर्णभ्रमेषु च ३
- विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
- अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ४
- नासाताल्वोष्ठपाकेषु कर्णस्रावे द्विजिह्वके
- गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
- मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक् ५
- वमनानर्हा जनाः
- न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः ६
- नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः
- मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः ७
- उदावत्तर्यूर्ध्वरक्ती च दुश्छर्दिः केवलानिली
- पाण्डुरोगी कृमिव्याप्तः पठनात्स्वरघातकः ८
- वमनानर्हाणामपि वमनव्यवस्था
- एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
- कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः ९
- सुकुमारं कृशं बालं वृद्धं भीरुं न वामयेत्
- पीत्वा यवागूमाकण्ठं क्षीरतक्रदधीनि वा १०
- असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लिश्य देहिनः
- स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते ११
- क्रमेण वमनविरेचनयोर्हितकरपदार्थाः
- वमनेषु च सर्वेषु सैन्धवं मधु वा हितम्
- बीभत्सं वमनं दद्याद्विपरीतं विरेचनम् १२
- वमनार्थकक्वाथनिर्माणविधिः
- क्वाथ्यद्र व्यस्य कुडवं श्रपयित्वा जलाढके
- अर्धभागावशिष्टं च वमनेष्ववचारयेत् १३
- भेडमतेन वामकक्वाथपानमात्रा
- क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
- मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी १४
- वामककल्कादिमात्रा
- कल्कचूर्णावलेहानां त्रिपलं श्रेष्ठमात्रया
- मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत् १५
- उत्तमादिभेदेन वमनवेगसंख्याभेदाः
- वमने चापि वेगाः स्युरष्टौ पित्तान्तमुत्तमाः
- षड्वेगा मध्यमा वेगाश्चत्वारस्त्ववरे मताः १६
- वमनादौ प्रस्थमानम्
- वमने च विरेके च तथा शोणितमोक्षणे
- सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः १७
- दोषविशेषेण वामकद्र व्यविशेषनिर्देशः
- कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादु हिमैर्जयेत्
- सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम् १८
- कृष्णा राठफलं सिन्धु कफे कोष्णजलैः पिबेत्
- पटोलवासानिम्बैश्च पित्ते शीतजलं पिबेत् १९
- सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत्
- अजीर्णे कोष्णपानीयैः सिन्धु पीत्वा वमेत्सुधीः २०
- वमनस्य प्रशस्तविधिः
- वमनं पाययित्वा च जानुमात्रासने स्थितम्
- कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक्
- ललाटं वमतः पुंसः पार्श्वे द्वे च प्रदापयेत् २१
- दुर्वान्तस्य लक्षणम्
- प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिताद्भवेत् २२
- अतिवान्तस्य लक्षणम्
- अतिवान्ते भवेत्तृष्णा हिक्कोद्गारौ विसंज्ञता
- जिह्वानिःसर्पणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
- रक्तच्छर्दिः ष्ठीवनं च कण्ठे पीडा च जायते २३
- अतिवमनोत्पन्नरोगचिकित्सा
- वमनस्यातियोगी तु मृदु कुर्याद्विरेचनम् २४
- वमनान्तः प्रविष्टायां जिह्वायां कवलग्रहः
- स्निग्धाम्ललवणैर्हृद्यैर्घृतक्षीररसैर्हितः २५
- फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
- निःसृतां तु तिलद्रा क्षाकल्कं लिप्त्वा प्रवेशयेत् २६
- व्यावृत्तेऽक्ष्णि घृताभ्यक्ते पीडयेच्च शनैः शनैः
- हनुमोक्षे स्मृतः स्वेदो नस्यं च श्लेष्मवातहृत् २७
- रक्तपित्तविधानेन रक्तच्छर्दिमुपाचरेत्
- धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः २८
- मन्थं कृत्वा पाययेच्च सघृतक्षौद्र शर्करम्
- शाम्यन्त्यनेन तृष्णाद्याः पीडाश्छर्दिसमुद्भवाः २९
- सम्यग्वान्तस्य लक्षणम्
- हृकत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वं च लाघवम्
- कफपित्तविनाशश्च सम्यग्वान्तस्य चेष्टितम् ३०
- वान्तस्य पथ्यानि
- ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
- हृद्यैश्च जाङ्गलरसैः कृत्वा यूषं च भोजयेत् ३१
- सुवान्ते फलम्
- तन्द्रा निद्रा स्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम्
- सुवान्तस्य न पीडायै भवन्त्येते कदाचन ३२
- वमने कुपथ्यम्
- अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
- स्नेहाभ्यङ्गं प्रकोपं च दिनैकं वर्जयेत्सुधीः ३३
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे वमनविधिर्नाम तृतीयोऽध्यायः
- अथ विरेचनविधिर्नाम चतुर्थोऽध्यायः
- तत्र विरेचनविषयः
- स्निग्ध स्विन्नस्य वान्तस्य दद्यात्सम्यग्विरेचनम् १
- वमनरहिते विरेचनदोषाः
- अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः
- मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम् २
- अथवा पाचनैरामं बलासं च विपाचयेत्
- स्निग्धस्य स्नेहनैः कार्यं स्वेदैः स्विन्नस्य रेचनम् ३
- विरेचनकालः
- शरदृतौ वसन्ते च देहशुद्ध्यै विरेचयेत्
- अन्यदात्ययिके काले शोधनं शीलयेद् बुधः ४
- दोषनाशे विरेचनस्य श्रेष्ठता
- दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः
- ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः ५
- विरेचनार्हा रोगाः
- पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
- उदरे च तथाऽध्माने कोष्ठशुद्ध्यै विशेषतः ६
- विरेचनानर्हा जनाः
- बालवृद्धावतिस्निग्धः क्षतक्षीणो भयान्वितः
- श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरी ७
- नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
- शल्यार्दितश्चरूक्षश्च न विरेच्या विजानता ८
- विरेचनार्हा जनाः
- जीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरी
- अर्शःपाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः
- योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः ९
- विद्र धिच्छर्दिविस्फोटविषूचीकुष्ठसंयुताः
- कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः १०
- प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षीणानिलार्दिताः
- शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ११
- विरेचनार्थे कोष्ठभेदाः
- बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
- बहुवातः क्रूरकोष्ठो दुर्वि रेच्यः स कथ्यते १२
- कोष्ठानुरूपविरेचनमात्रानिर्देशः
- मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
- क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः १३
- मृद्वादिविरेचनद्र व्यनिर्देशः
- मृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यते
- मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
- क्रूरः स्नुक्पयसा हेमक्षीरदन्तीफलादिभिः १४
- विरेचनसंख्याऽनुसारेण मात्राया उत्तमत्वादिनिर्देशः
- मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
- वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका १५
- विरेके कषायादीनां मात्रानिर्देशः
- द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्
- पलार्धे च कषायाणां कनीयस्तु विरेचनम् १६
- कल्कमोदकचूर्णानां कर्षं मध्वाज्यलेहतः
- कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया १७
- कोष्ठानुसारेण विरेकौषधव्यवस्था
- पित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्
- त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः १८
- त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरः
- वातार्दितो विरेकाय जाङ्गलानां रसेन वा १९
- एरण्डतैलप्रयोगः
- एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन च
- युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते २०
- वर्षादिषडृतुषु क्रमेण षड् विरेचनयोगाः
- त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् २१
- समृद्वीकारसक्षौद्रं वर्षाकाले विरेचनम्
- त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम् २२
- द्रा क्षाऽम्बुना सयष्टीकं शीतलं च घनात्यये
- त्रिवृतां चित्रकं पाठामजाजीं सरलां वचाम् २३
- हेमक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्
- पिप्पली नागरं सिन्धु श्यामा त्रिवृतया सह २४
- लिहेत्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम्
- त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् २५
- सर्वर्त्तुयोग्यो विरेचनयोगः
- त्रिवृतां हपुषां दन्तीं सप्तलां कटुरोहिणीम्
- स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत् त्र्! यहम्
- एष सर्वर्त्तुको योगः स्निग्धानां मलदोषहा २६
- अभयादिमोदकः
- अभया मरिचं शुण्ठीविडङ्गामलकानि च २७
- पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च
- एतानि समभागानि दन्ती च द्विगुणा भवेत् २८
- त्रिवृदष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा
- मधुना मोदकान्कृत्वा कर्षमात्रप्रमाणतः २९
- एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम्
- तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ३०
- पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा
- विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् ३१
- दुर्नामकुष्ठगुल्मार्शोगलगण्डभ्रमोदरान्
- विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् ३२
- वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणि चाश्मरीम्
- पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् ३३
- सततं शीलनादेषां पलितानि प्रणाशयेत्
- अभयामोदका ह्येते रसायनवराः स्मृताः ३४
- विरेचनान्ते कर्त्तव्यकर्मोपदेशः
- पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
- सुगन्धिं किंचिदाघ्राय ताम्बूलं शीलयेन्नरः ३५
- निर्वातस्थो न वेगांश्च धारयेन्न स्वपेत्तथा
- शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ३६
- सम्यग्विरिक्तस्य लक्षणम्
- बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्
- रेकात्तथा मलं पित्तं भेषजं च कफो व्रजेत् ३७
- दुर्विरिक्तस्य लक्षणम्
- दुर्विरिक्तस्य नाभेस्तु स्तब्धत्वं कुक्षिशूलता
- पुरीषवातसङ्गश्च कण्डूमण्डलगौरवाः
- विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते ३८
- दुर्विरिक्तस्य चिकित्सा
- तं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत्
- तेनास्योपद्र वा यान्ति दीप्तोऽग्निर्लघुता भवेत् ३९
- अतिविरिक्तस्य लक्षणम्
- विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च ४०
- शूलं कफातियोगः स्यान्मांसधावनसन्निभम्
- मेदोनिभं जलाभासं रक्तं चापि विरिच्यते ४१
- अतिविरिक्तस्य चिकित्सा
- तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः
- मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु ४२
- तत्र नाभिप्रलेपः
- सहकारत्वचः कल्को दध्ना सौवीरकेण वा
- पिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्बणम् ४३
- तत्र पथ्यव्यवस्था
- अजाक्षीरं रसं वाऽपि वैष्किरं हारिणं तथा
- शालिभिः षष्टिकैः स्वल्पं मसूरैर्वाऽपि भोजयेत् ४४
- तत्रोपायान्तरम्
- शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक् ४५
- सुविरिक्तस्य लक्षणम्
- लाघवे मनसस्तुष्टावनुलोमे गतेऽनिले
- सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि ४६
- विरेचनस्य फलम्
- इन्द्रि याणां बलं बुद्धेः प्रसादो वह्निदीपनम्
- धातुस्थैर्यं वयः स्थैर्यं भवेद्रे चनसेवनात् ४७
- विरेचने निषिद्धकृत्यानि
- प्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम्
- व्यायामं मैथुनं चैव न सेवेत विरेचितः ४८
- विरिक्तस्य पथ्यार्थे पेयादिद्र व्याणि
- शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम्
- जाङ्गलैर्विष्किराणां वा रसैः शाल्योदनं हितम् ४९
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे विरेचनविधिर्नाम चतुर्थोऽध्यायः
- अथ बस्तिविधिर्नाम पञ्चमोऽध्यायः
- तत्र बस्तेर्भेदो निरुक्तिश्च
- बस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम्
- बस्तिभिर्दीयते यस्मात्तस्माद्बस्तिरिति स्मृतः १
- अनुवासननिरूहबस्त्योर्लक्षणम्
- यः स्नेहैर्दीयते स स्यादनुवासननामकः
- कषायक्षीरतैलैर्यो निरूहः स निगद्यते २
- अनुवासनादिबस्तीनामनुक्रमः
- तत्रानुवासनाख्यो हि बस्तिर्यः सोऽत्र कथ्यते
- पूर्वमेव ततो बस्तिर्निरूहाख्यो भविष्यति ३
- निरूहादुत्तरश्चैव बस्तिः स्यादुत्तराभिधः
- अनुवासनभेदश्च मात्राबस्तिरुदीरितः ४
- मात्राबस्तौ स्नेहमात्रा
- पलद्वयं तस्य मात्रा तस्मादर्धाऽपि वा भवेत् ५
- अनुवास्या जनाः
- अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली ६
- अनुवासनायोग्या जनाः
- नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
- नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्युताः
- शोकमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः ७
- बस्तिनेत्रकरणद्र व्याणि
- नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
- नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ८
- आयुर्विभेदेन नेत्रपरिमाणभेदाः
- एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम्
- ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम्
- ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता ९
- बस्तिनेत्रच्छिद्र परिमाणम्
- मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निभम्
- यथासङ्ख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् १०
- आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते
- कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ११
- तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात्
- योजयेत्तत्र बस्तिं च बन्धद्वयविधानतः १२
- बस्तिपुटकोपयोगिद्र व्यनिर्देशः
- मृगाजशूकरगवां महिषस्यापि वा भवेत्
- मूत्रकोशस्य बस्तिस्तु तदलाभेन चर्मजः
- कषायरक्तः सुमृदुर्बस्तिः स्निग्धो दृढो हितः १३
- व्रणबस्तिलक्षणम्
- व्रणबस्तेस्तु नेत्रं स्याछ्लक्ष्णमष्टाङ्गुलोन्मितम्
- मुद्गच्छिद्रं गृध्रपक्षनलिकापरिणाहि च १४
- उचितबस्तिसेवनगुणाः
- शरीरोपचयं वर्णं बलमारोग्यमायुषः
- कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः १५
- बस्तिकर्मोचितसमयनिर्देशः
- दिवा शीते वसन्ते च स्नेहबस्तिः प्रदीयते
- ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् १६
- बस्तिकाले भोजनविधानम्
- न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् १७
- भोजनवैपरीत्ये बस्तिफलम्
- मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः
- रूक्षं भुक्तवतोऽत्यन्नं बलं वर्णश्च हीयते १८
- बस्तेर्हीनातिमात्रयोर्निषेधः
- हीनमात्रावुभौ बस्ती नातिकार्यकरौ स्मृतौ
- अतिमात्रौ तथानाहक्लमातीसारकारकौ १९
- बस्तिमात्रा
- उत्तमस्य पलैः षड्भिर्मध्यमस्य पलैस्त्रिभिः
- पलाद्यर्धेन हीनस्य युक्ता मात्राऽनुवासने २०
- स्नेहबस्तौ सैन्धवशताह्वाचूर्णप्रक्षेपमानम्
- शताह्वासैन्धवाभ्यां च देयं स्नेहे च चूर्णकम्
- तन्मात्रोत्तममध्यान्त्याः षट्चतुर्द्वयमाषकैः २१
- विरेचनानन्तरमेवानुवासनदानस्य नियमः
- विरेचनात्सप्तरात्रे गते जातबलाय च
- भक्तान्नायानुवास्याय बस्तिर्देयोऽनुवासनः २२
- बस्तिप्रयोगविधिः
- अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
- भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः २३
- उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना
- सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः२४
- कुञ्चितापरजङ्घस्य नेत्रं स्निग्धगुदे न्यसेत्
- बद्ध्वा बस्तिमुखं स्रूत्रैर्वामहस्तेन धारयेत् २५
- पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः
- जृम्भाकासक्षवादींश्च बस्तिकाले न कारयेत् २६
- बस्तिपीडने कालनिर्देशः
- त्रिंशन्मात्रामितः कालः प्रोक्तो बस्तेस्तु पीडने
- ततः प्रणिहितः स्नेह उत्तानो वाक्शतं भवेत् २७
- मात्रालक्षणम्
- जानुमण्डलमावेष्ट्य कुर्याच्छोटिकया युतम्
- एका मात्रा भवेदेषा सर्वत्रैष विनिश्चयः २८
- बस्तिप्रणिधानोत्तराङ्गकृत्यम्
- प्रसारितैः सर्वगात्रैर्यथावीर्यं विसर्पति
- ताडयेत्तलयोरेनं त्रीन्वारांश्च शनैः शनैः २९
- स्फिजोश्चैवं ततः श्रोणीं शय्यां चैवोत्क्षिपेत्ततः
- जाते विधाने तु ततः कुर्यान्निद्रा ं! यथासुखम् ३०
- सम्यगनुवासितस्य लक्षणम्
- सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
- उपद्र वं विना शीघ्रं स सम्यगनुवासितः ३१
- प्रत्यागते स्नेहे व्यवस्था
- जीर्णान्नमथ सायाह्ने स्नेहेप्रत्यागते पुनः
- लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि ३२
- अनुवासनव्यापत्तौ प्रतीकारः
- अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्
- धान्यशुण्ठीकषायो वा स्नेहव्यापत्तिनाशनम् ३३
- दोषानुसारेण बस्तिमानसंख्यानिर्देशः
- अनेन विधिना षड् वा सप्तवाऽष्टौ नवापि वा
- विधेया बस्तयस्तेषामन्ते चैवनिरूहणम् ३४
- संख्यात्मकस्नेहबस्तीनां गुणाः
- दत्तस्तु प्रथमो वस्तिः स्नेहयेद्बस्तिवङ्क्षणैः
- सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् ३५
- बलं वर्णं च जनयेत्तृतीयस्तु प्रयोजितः
- चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ३६
- षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
- अष्टमो नवमश्चापि मज्जानं च यथाक्रमम् ३७
- एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत्
- अष्टादशाष्टादशकान्बस्तीनां यो निषेवयेत्
- स कुञ्जरबलोऽप्यश्वं जयेत्तुल्योऽमरप्रभः ३८
- रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने
- दद्याद् वैद्यस्तथाऽन्येषामन्यां बाधामपाहरेत् ३९
- स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः
- तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ४०
- बस्तिदत्तस्नेहस्य तात्कालिकप्रत्यागतौ कर्त्तव्यं कर्म
- अथवा यस्य तत्कालं स्नेहो निर्याति केवलः
- तस्यान्योऽन्यतरो देयो न हि स्निह्यत्यतिष्ठति ४१
- अनुवासनबस्तिस्नेहानिःसृतावुपद्र वास्तच्चिकित्सा च
- अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
- तदा शैथिल्यमाध्मानं शूलं श्वासश्च जायते ४२
- पक्वाशये गुरुत्वं च तत्र दद्यान्निरूहणम्
- तीक्ष्णं तीक्ष्णौषधैर्युक्ताफलवर्तिंर्हिता तथा ४३
- यथाऽनुलोमनं वायुर्मलं स्नेहश्च जायते
- तथा विरेचनं दद्यात्तीक्ष्णं नस्यं च शस्यते ४४
- स्नेहबस्तेरनिःसृतावप्युपद्र वानुत्पत्तौ कर्त्तव्यं कर्म
- यस्य नोपद्र वं कुर्यात्स्नेहबस्तिरनिःसृतः
- सर्वोऽल्पो वा वृते रौक्ष्यादुपेक्ष्यः स विजानता ४५
- अहोरात्रादनिःसृते स्नेहे प्रतीकारः
- अनायातं त्वहोरात्रे स्नेहं संशोधनैर्ह रेत्
- स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ४६
- अनुवासनार्थं गुडूच्यादितैलम्
- गुडूच्येरण्डपूतीकभार्ङ्गीविषकरोहिषम्
- शतावरीं सहचरं काकनासां पलोन्मिताम् ४७
- यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्
- चतुद्रो र्णे!ऽम्भसः पक्त्वा द्रो णशेषेण तेन च ४८
- पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः
- अनुवासनमेतद्धि सर्ववातविकारनुत् ४९
- बस्तिकर्मव्यापत्तिसंख्याचिकित्सयोर्निर्देशः
- षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
- दूषितात्समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात् ५०
- अनुवासनबस्तौ पथ्यव्यवस्था
- पानहारविहाराश्च परिहाराश्च कृत्स्नशः
- स्नेहपानसमाः कार्या नात्रकार्याविचारणा ५१
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्नेहबस्तिविधिर्नाम पञ्चमोऽध्यायः
- अथ निरूहबस्तिविधिर्नाम षष्ठोऽध्यायः
- तत्र तद्भेदानाह
- निरूहबस्तिर्बहुधा भिद्यते कारणान्तरैः
- तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः १
- निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
- स्वस्थानस्थापनाद्दोषधातूनां स्थापनं मतम् २
- दोषाद्यपेक्षया निरूहमात्राः
- निरूहस्य प्रमाणं च प्रस्थं पादोत्तरं परम्
- मध्यमं प्रस्थमुद्दिष्टं हीनस्य कुडवास्त्रयः ३
- आस्थापनबस्त्यनर्हा जनाः
- अतिस्निग्धोत्क्लिष्टदोषौ क्षतोरस्कः कृशस्तथा
- आध्मानच्छर्दिहिक्काऽश कासश्वासप्रपीडितः ४
- गुदशोफातिसारार्त्तो विषूचीकुष्ठसंयुतः
- गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी ५
- निरूहणबस्तियोग्या जनाः
- वातव्याधावुदावर्त्ते वातासृग्विषमज्वरे
- मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च ६
- वृद्धासृग्दरमन्दाग्निप्रमेहेषु निरूहणम्
- शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद् बुधः ७
- निरूहबस्तिदानविधिः
- उत्सृष्टानिलविण्मूत्रं स्निग्धस्विन्नमभोजितम्
- मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् ८
- स्नेहबस्तिविधानेन बुधः कुर्यान्निरूहणम्
- जाते निरूहे च ततो भवेदुत्कटकासनः ९
- तिष्ठेन्मुहूर्त्तमात्रं तु निरूहागमनेच्छया
- अनायातं मुहूर्तं तु निरूहं शौधनैर्ह रेत्
- निरूहैरेव मतिमान्क्षारमूत्राम्लसैन्धवैः १०
- सुनिरूढलक्षणम्
- यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
- लाघवं चोपजायेत सुनिरूहं तमादिशेत् ११
- दुर्निरूढलक्षणम्
- यस्य स्याद्बस्तिरल्पाल्पवेगो हीनमलानिलः
- मूर्च्छार्त्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत् १२
- निरूहस्य बस्तिदानविधेयतानिर्देशः
- अनेन विधिना युञ्ज्यान्निरूहं बस्तिदानवित् ॠ
- द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् १३
- भोजनक्रमः
- पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
- निरूहं भोजयित्वा च ततस्तदनुवासयेत् १४
- मृदुबस्तियोग्या जनाः
- सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
- बस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद् बलायुषी १५
- उत्क्लेशनादिबस्तीनां प्रयोगकालनिर्देशः
- दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
- पश्चात्संशमनीयं च दद्याद्बस्तिं विचक्षणः १६
- उत्क्लेशनबस्तिद्र व्याणि
- एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
- हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः १७
- दोषहरबस्तिद्र व्याणि
- शताह्वा मधुकं बिल्वं कौटजं फलमेव च
- सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः १८
- शमनबस्तिद्र व्याणि
- प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
- सक्षीरः शस्यते बस्तिर्दोषाणां शमनः स्मृतः १९
- शोधनबस्तिविधिः
- शोधनद्र व्यनिष्क्वाथैस्तत्कल्कैः स्नेहसैन्धवैः
- युक्त्या खजेन मथिता बस्तयः शोधनाः स्मृताः २०
- लेखनबस्तिद्र व्याणि
- त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुताः
- ऊषकादिप्रतीवापैर्बस्तयो लेखनाः स्मृताः २१
- बृंहणबस्तिद्र व्याणि
- बृंहणद्र व्यनिष्क्वाथकल्कैर्मधुरकैर्युताः
- सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः २२
- पिच्छिलबस्तिद्र व्याणि
- बदर्यैरावतीशेलुशाल्मलीधन्वनागराः
- क्षीरसिद्धाः क्षौद्र युक्ता नाम्ना पिच्छिलसंज्ञिताः २३
- अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
- मात्रा पिच्छिलबस्तीनां पलैर्द्वादशभिर्मता २४
- निरूहार्थं द्र व्याणां परिमाणपूर्वकं विधानम्
- दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
- विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम् २५
- एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
- संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम् २६
- क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक्
- वाते चतुष्पलं क्षौद्रं दद्यात्स्नेहस्य षट्पलम् २७
- पित्ते चतुष्पलं क्षौद्रं स्नेहं दद्यात्पलत्रयम्
- कफे च षट्पलं क्षौद्रं क्षिपेत्स्नेहं चतुष्पलम् २८
- मधुतैलिकबस्तिविधिः
- एरण्डक्वाथतुल्यांशं मधु तैलं पलाष्टकम् २९
- शतपुष्पापलार्धेन सैन्धवार्धेन संयुतम्
- मधुतैलिकसंज्ञोऽय बस्तिः खजविलोडितः ३०
- मेदोगुल्मकृमिप्लीहमलोदावर्त्तनाशनः
- बलवर्णकरश्चैव वृष्यो दीपनबृंहणः ३१
- दीपनबस्तिविधिः
- क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत्
- हपुषासैन्धवाक्षांशो बस्तिः स्याद्दीपनः परः ३२
- युक्तरथबस्तिविधिः
- एरण्डमूलनिष्क्वाथो मधु तैलं ससैन्धवम्
- एष युक्तरथो बस्तिः सवचापिप्पलीफलः ३३
- सिद्धबस्तिविधिः
- पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु
- ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः ३४
- पथ्यापथ्यम्
- स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम्
- वर्जयेदपरं सर्वमाचरेत्स्नेहबस्तिवत् ३५
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे निरूहबस्तिविधिर्नाम षष्ठोऽध्यायः
- अथोत्तरबस्तिविधिर्नाम सप्तमोऽध्यायः
- तत्रादावुत्तरबस्तिस्वरूपम्
- अतः परं प्रवक्ष्यामि बस्तिमुत्तरसञ्ज्ञितम्
- द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम्
- मालतीपुष्पवृन्ताभं छिद्रं सर्षपसन्निभम् १
- उत्तरबस्तौ स्नेहमात्रा
- पञ्चविंशतिवर्षाणामधो मात्रा द्विकार्षिकी
- तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः २
- उत्तरबस्तिविधिः
- अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
- स्थितस्य जानुमात्रे च पीठेऽन्विष्य शलाकया ३
- स्निग्धया मेढ्रमार्गे च ततो नेत्रं नियोजयेत्
- शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्रेऽङ्गुलानि षट् ४
- ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्ह रेत्
- ततः प्रत्यागते स्नेहे स्नेहबस्तिक्रमो हितः ५
- स्त्रीणां बस्तिदाने विधिः
- स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशांगुलम् ६
- मुद्गप्रवेशं योज्यं च योन्यन्तश्चतुरङ्गुलम्
- द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत् ७
- बालानां बस्तिदाने विधिः
- मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्
- शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणः ८
- स्त्रीणां बालानां च स्नेहमात्रा
- योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
- मूत्रमार्गे पलोन्मानां बालानां च द्विकार्षिकी ९
- स्त्रीणामुत्तरबस्तिदानप्रकारः
- उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
- अप्रत्यागच्छति भिषग्बस्तावुत्तरसंज्ञिते १०
- भूयो बस्तिं निदध्याच्च संयुक्तैः शोधनैर्गणैः
- फलवर्त्तिं निदध्याद्वा योनिमार्गे दृढां भिषक् ११
- सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम्
- दह्यमाने तथा बस्तौ दद्याद्बस्तिं विशारदः १२
- क्षीरिवृक्षकषायेण पयसा शीतलेन वा
- बस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजां रुजम्
- हन्यादुत्तरबस्तिस्तु नोचितो मेहिनां क्वचित् १३
- उत्तरबस्तेर्गुणदोषाः
- सम्यग्दत्तस्य लिङ्गानि व्यापदःक्रम एव च
- बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना १४
- फलवर्त्तिलक्षणम्
- घृताभ्यक्ते गुदे क्षेप्या श्लक्ष्णा स्वाङ्गुष्ठसंनिभा
- मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता १५
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे उत्तरबस्तिविधिर्नाम सप्तमोऽध्यायः
- अथ नस्यविधिर्नाम अष्टमोऽध्यायः
- तत्र नस्यस्य निरुक्तिर्नाम च
- नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम्
- नावनं नस्यकर्मेति तस्य नामद्वयं मतम् १
- नस्यभेदाः
- नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
- रेचनं कर्षणं प्रोक्तं स्नेहनं बृंहणं मतम् २
- नस्यकर्मकालः
- कफपित्तानिलध्वंसे पूर्वमध्यापराह्णके
- दिने तु गृह्यते नस्यं रात्रावप्युत्कटे गदे ३
- नस्यानर्हाः समया जनाश्च
- नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पणे
- तथा नवप्रतिश्यायी गर्भिणी गरदूषितः ४
- अजीर्णीदत्तबस्तिश्च पीतस्नेहोदकासवः
- क्रुद्धः शोकाभिभूतश्च तृषाऽत्तो वृद्धबालकौ
- वेगावरोधी स्नातश्च स्नातुकामश्च वर्जयेत् ५
- नस्यार्हानर्हा अवस्थाः
- अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत्
- अशीतिवर्षादूर्ध्वं च नावनं नैव दीयते ६
- वैरेचनं नस्यम्
- अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
- तीक्ष्णभेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा ७
- शिरोविरेचननस्यमात्रा
- नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
- प्रत्येकं रेचने योज्या मुख्यमध्यान्त्यमात्रया ८
- नस्यकर्मण्यौषधप्रमाणम्
- नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम्
- हिङ्गु स्याद्यावमात्रं तु माषैकं सैन्धवं मतम् ९
- क्षीरं चैवाष्टशाणं स्यात्पानीयं च त्रिकार्षिकम्
- कार्षिकं मधुरं द्र व्यं नस्यकर्मणि योजयेत् १०
- शिरोविरेचननस्यभेदाः
- अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
- शिरोविरेचनस्यात्र तौ तु देयौ यथायथम् ११
- अवपीडननस्यस्वरूपम्
- कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
- सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः १२
- प्रधमननस्यस्वरूपम्
- षडङ्गुला द्विवक्रा वा नाडी चूर्णं तया धमेत्
- तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हि तत् १३
- रेचननस्ययोर्योग्या जनाः
- ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
- अरोचके प्रतिश्याये शिरःशूले च पीनसे
- शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम् १४
- स्नेहननस्ययोग्या जनाः
- भीरुस्त्रीकृशबालानां नस्यं स्नेहेन दीयते १५
- अवपीडननस्ययोग्या जनाः
- गलरोगे सन्निपाते निद्रा यां विषमज्वरे
- मनोविकारे कृमिषु युज्यते चावपीडनम् १६
- प्रधमननस्ययोग्या जनाः
- अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
- चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः १७
- अथावपीडनप्रधमनयोः कतिपययोगाः
- नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पल्या सैन्धवेन च
- जलपिष्टेन तेनाक्षिकर्णनासाशिरोगदाः १८
- मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः १९
- मधूकसारादिनस्यम्
- मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः
- नस्यं कोष्णजले पिष्टं दद्यात्सञ्ज्ञाप्रबोधनम्
- अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके २०
- तन्द्रा यां सैन्धवादि नस्यम्
- सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
- बस्तमूत्रेण पिष्टानि नस्यं तन्द्रा निवारणम् २१
- तत्रैव मरिचादिप्रधमननस्यम्
- रोहितमत्स्यपित्तेन भावितं सैन्धवं वचा २२
- मरिचं पिप्पली शुण्ठी कङ्कोलं लशुनं परम्
- कट्फलं चेति तच्चूर्णं देयं प्रधमनं बुधैः २३
- बृंहणनस्यविधिः
- अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
- मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहनौ मतौ २४
- मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
- मध्यमा च चतुःशाणैर्हीना शाणमिता स्मृता २५
- एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः
- मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम् २६
- एकान्तरं द्व्यन्तरं वा नस्यं दद्याद्विचक्षणः
- त्र्! यहं पञ्चाहमथवा सप्ताहंवा सुयन्त्रितम् २७
- मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
- दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् २८
- दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम्
- अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् २९
- शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्धभेदके
- दन्तरोगे बले हीने मन्याबाह्वंसजे गदे ३०
- मुखशोषे कर्णनादे वातपित्तगदे तथा
- अकालपलिते चैव केशश्मश्रुप्रपातने
- युज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः ३१
- तत्र कुङ्कुमनस्यम्
- सशर्करं पयःपिष्ठं भृष्टमाज्येन कुङ्कुमम् ३२
- नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
- भ्रूशङ्खाक्षिशिरः कर्णसूर्यावर्त्तार्धभेदकान् ३३
- अन्यद् बृंहणनस्यम्
- नस्यं स्यादणुतैलेन तथा नारायणेन वा
- माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः ३४
- दोषानुसारेण नस्ये स्नेहव्यस्था
- तैलं कफे स्याद्वाते च केवले पवने वसा
- दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च ३५
- पक्षाघातादौ माषादिनस्यम्
- माषात्मगुप्तारास्नाभिर्बलारुबुकरोहिषैः
- कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः ३६
- कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम्
- जयेदर्दितवातं च मन्यास्तम्भापबाहुकौ ३७
- प्रतिमर्शनस्यमात्रा
- प्रतिमर्शस्य मात्रा तु द्विद्विबिन्दुमिता मता
- प्रत्येकशो नस्तकयोः स्नेहेनेति विनिश्चितम् ३८
- विन्द्वात्मकमात्रालक्षणम्
- स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
- तर्जनी यं स्रवेद्विन्दुं सा मात्रा बिन्दुसञ्ज्ञिता ३९
- एवं विधैर्बिन्दुसञ्ज्ञैरष्टभिः शाण उच्यते
- स देयो मर्शनस्ये तु प्रतिमर्शो द्विबिन्दुकः ४०
- प्रतिमर्शनस्यस्य चतुर्दशसमयः
- समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
- प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा ४१
- व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
- कवलान्ते भोजनान्ते दिवासुप्तोत्थिते तथा
- वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते ४२
- प्रतिमर्शनस्यस्य निषिक्तलक्षणम्
- ईषदुच्छिक्कनात्स्नेहो यदा वक्त्रं प्रपद्यते ४३
- नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः
- उच्छिन्दन्न पिबेच्चैतन्निष्ठीवेन्मुखमागतम् ४४
- प्रतिमर्शनस्ययोग्या जनाः
- क्षीणे तृष्णास्यशीर्षार्त्ते बाले वृद्धे च युज्यते
- प्रतिमर्शेनशाम्यन्ति रोगाश्चैवोर्ध्वजत्रुजाः
- वलीपलितनाशश्च बलमिन्द्रि यजं भवेत् ४५
- पलितरोगे नस्यम्
- बिभीतनिम्बगम्भारी शिवा शेलुश्च काकिनी
- एकैकतैलनस्येन पलितं नश्यति ध्रुवम् ४६
- नस्यग्रहणविधिः
- अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
- देशे वातरजोमुक्ते कृतदन्तनिघर्षणम् ४७
- विशुद्धं धूमपानेन स्विन्नभालगलं तथा
- उत्तानशायिनं किंचित्प्रलम्बशिरसं नरम् ४८
- आस्तीर्णहस्तपादं च वस्त्राच्छादितलोचनम्
- समुन्नमितनासाऽग्र वैद्यौ नस्येन योजयेत् ४९
- कोष्णमच्छिन्नधारं च हेमतारादिशुक्तिभिः
- शुक्त्या वा यत्र युक्त्या वा प्लोतैर्वा नस्यमाचरेत् ५०
- नस्यप्रयोगसमये वर्ज्या विषयाः
- नस्येष्वासिच्यमानेषु शिरो नैव प्रकम्पयेत्
- न कुप्येन्न प्रभाषेत नोच्छिन्देन्नहसेत्तथा ५१
- एतैर्हि विहितः स्नेहो नैवान्तः संप्रपद्यते ५२
- नस्यप्रमादजा रोगाः
- ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः
- शृङ्गाटकमभिप्लाव्य स्थापयेन्न गिलेद् द्र वम् ५३
- नस्यधारणमात्रा
- पञ्च सप्त दशैव स्युर्मात्रा नस्यस्य धारणे ५४
- नस्यधारणानन्तरं कर्त्तव्यकर्म
- उपविश्याथ निष्ठीवेन्नासावक्त्रगतं द्र वम्
- वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्सम्मुखे न हि ५५
- नस्यानन्तरं त्याज्यकर्माणि
- नस्ये नीते मनस्तापं रजः क्रोधं च सन्त्यजेत्
- शयीत निद्रा ं! त्यक्त्वा च प्रोत्तानो वाक्शतं नरः
- तथा वैरेचनस्यान्ते धूमो वा कवलो हितः ५६
- नस्यस्य लक्षणत्रयम्
- नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः
- शुद्धिहीनातियोगानि विशेषाच्छास्त्रचिन्तकैः ५७
- शिरःशुद्धिलक्षणम्
- लाघवं मनसः शुद्धिः स्रोतसां व्याधिसंक्षयः
- चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ५८
- हीनशुद्धिलक्षणम्
- कण्डूपदेहोगुरुता स्रोतसां कफसंस्रवः
- मूर्ध्नि हीनविशुद्धेस्तु लक्षणं परिकीर्त्तितम् ५९
- अतिशयशुद्धस्य लक्षणम्
- मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
- शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते ६०
- हीनातिसम्यक्शुद्धिक्रियाः
- हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
- सम्यग्विशुद्धे शिरसि सर्पिर्नस्ये निषेचयेत् ६१
- अतिस्निग्धस्य लक्षणं चिकित्सा च
- कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः
- लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
- भोजयेच्चानभिष्यन्दि नस्याचारिकमादिशेत् ६२
- पञ्चकर्मणां नामानि
- वमनं रेचनं नस्यं निरूहश्चानुवासनम्
- एतानि पञ्च कर्माणि कथितानि मुनीश्वरैः ६३
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे नस्यविधिर्नामाष्टमोऽध्यायः
- अथ धूमपानविधिर्नाम नवमोऽध्यायः
- तत्र धूमसंख्या
- धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा
- रेचनः कासहा चैव वामनो व्रणधूपनः १
- शमनबृंहणरेचनधूमानां पर्यायाः
- शमनस्य तु पर्यायौ मध्यः प्रायोगिकस्तथा
- बृंहणस्यापि पर्यायौ स्नेहनो मृदुरेव च
- रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च २
- धूमपानानर्हा जनाः
- अधूमार्हाश्च खल्वेते श्रान्तो भीतश्च दुःखितः ३
- दत्तबस्तिर्विरिक्तश्च रात्रौ जागरितस्तथा
- पिपासितश्च दाहार्तस्तालुशोषी तथोदरी ४
- शिरोऽभितापी तिमिरी छर्द्याध्मानप्रपीडितः
- क्षतोरस्कः प्रमेहार्तः पाण्डुरोगी च गर्भिणी ५
- रूक्षः क्षीणोऽभ्यवहृतक्षीरक्षौद्र घृतासवः
- भुक्तान्नदधिमत्स्यश्च बालो वृद्धः कृशस्तथा ६
- अकाले धूमपाने दोषस्तत्प्रतीकारश्च
- अकाले चातिपीतश्च धूमः कुर्यादुपद्र वान्
- तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ७
- सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराम्बु वा
- मधुराम्लौ रसौ वाऽपि शमनाय प्रदापयेत् ८
- धूमपानस्य समया गुणाश्च
- धूमस्तु द्वादशाद्वर्षाद् गृह्यतेऽशीतिकान्न च
- कासश्वासप्रतिश्यायान्मन्याहनुशिरोरुजः ९
- वातश्लेष्मविकारांश्च हन्याद् धूमः सुयोजितः
- धूमप्रयोगात्पुरुषः प्रसन्नेन्द्रि यवाङ्मनाः
- दृढकेशद्विजश्मश्रुः सुगन्धिवदनो भवेत् १०
- धूमनलिकाविधानम्
- धूमनाडी भवेत्तत्र त्रिखण्डा च त्रिपर्विका ११
- कनिष्ठिकापरीणाहा राजमाषागमान्तरा
- धूमनाडी भवेद्दीर्घा शमने रोगिणोऽङ्गुलैः १२
- चत्वारिंशन्मितैस्तद्वद् द्वात्रिंशद्भिर्मृदौ मता
- तीक्ष्णे चतुर्विंशतिभिः कासघ्नी षोडशोन्मितैः १३
- दशाङ्गुलैर्वामनीये तथा स्याद् व्रणनाडिका
- कलायमण्डलस्थूला कुलत्थागमरन्ध्रिका १४
- धूमपानार्थमीषिकाविधानम्
- अथेषिकां प्रलिम्पेच्च सुश्लक्ष्णां द्वादशाङ्गुलाम्
- धूमद्र व्यस्य कल्केन लेपश्चाष्टाङ्गुलः स्मृतः १५
- कल्कं कर्षमितं लिप्त्वा छायाशुष्कं च कारयेत्
- ईषिकामपनीयाथ स्नेहाक्तां वर्त्तिमादरात् १६
- अङ्गारैर्दीपितां कृत्वा धृत्वा नेत्रस्य रन्ध्रके
- वदनेन पिबेद् धूमं वदनेनैव सन्त्यजेत् १७
- नासिकाभ्यां ततः पीत्वा मुखेनैव वमेत्सुधीः
- शरावसम्पुटे क्षिप्त्वा कल्कमङ्गारदीपितम्
- छिद्रे नेत्रं निवेश्याथ व्रणं तेनैव धूपयेत् १८
- शमनादिधूमानां द्र व्याणि
- एलादिकल्कं शमने स्निग्धं सर्जरसं मृदौ
- रेचने तीक्ष्णकल्कं च कासघ्नं क्षुद्रि कोषणम् १९
- वामने स्नायुचर्माद्यं दद्याद् धूमस्य पानकम्
- व्रणे निम्बवचाद्यं च धूपनं सम्प्रशस्यते २०
- बालग्रहादिष्वपराजितो धूपः
- अन्येऽपि धूमा गेहेषु कर्तव्या रोगशान्तये २१
- मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम्
- मरिचं हिङ्गु मांसी च बीजं कार्पाससम्भवम् २२
- छागरोमाहिनिर्मोकं विष्ठा वैडालिकी तथा
- गजदन्तश्च तच्चूर्णं किच्चिद्घृतविमिश्रितम् २३
- गेहेषु धूपनं दत्तं सर्वान्बालग्रहाञ्जयेत्
- पिशाचान्राक्षसाञ्जित्वा सर्वज्वरहरं भवेत् २४
- धूमपाने पथ्यं नेत्रद्र व्याणि च
- परिहारस्तु धूमेषु कार्यो रेचननस्यवत्
- नेत्राणि धातुजान्याहुर्नलवंशादिजान्यपि २५
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे धूमपानविधिर्नाम नवमोऽध्यायः
- अथ गण्डूषकवलप्रतिसारणविधिर्नाम दशमोऽध्यायः
- तत्र गण्डूषकवलयोर्भेदा!
- चतुर्विधः स्याद्गण्डूषः स्नैहिकः शमनस्तथा
- शोधनो रोपणश्चैव कवलश्चापि तद्विधः १
- तद्भेदानां प्रकाराः
- स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
- पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे २
- कषायतिक्तमधुरैः कदुष्णो रोपणो व्रणे
- चतुष्प्रकारो गण्डूषः कवलश्चापि कीर्त्तितः ३
- गण्डूषकवलयोर्लक्षणम्
- असञ्चारी मुखे पूर्णे गण्डूषः कवलश्चरः
- तत्र द्र वेण गण्डूषः कल्केन कवलः स्मृतः ४
- गण्डूषकवलयोरौषधमात्रा
- दद्याद् द्र वेषु चूर्णं च गण्डूषे कोलमात्रकम्
- कर्षप्रमाणः कल्कश्च दीयते कवले बुधैः ५
- गण्डूषस्य योग्याऽवस्था तद्धारणप्रमाणं च
- धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषकवलादयः
- गण्डूषान्सुस्थितः कुर्यात्स्विन्नभालगलादिकः ६
- मनुष्यस्त्रींस्तथा पञ्च सप्त वा दोषनाशनात्
- कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्
- नेत्रघ्राणस्रुतिर्यावत्तावद् गण्डूषधारणम् ७
- वाते स्नैहिकगण्डूषः
- तिलकल्कोदकं क्षीरं स्नेहो वा स्नैहिके हितः ८
- दाहनाशनगण्डूषः
- तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
- सक्षौद्रो हनुवक्त्रस्थो गण्डूषो दाहनाशनः ९
- मुखव्रणादौ मधुगण्डूषः
- वैशद्यं जनयत्यास्ये सन्दधाति मुखव्रणान्
- दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् १०
- विषक्षाराग्निदग्धे गण्डूषः
- विषक्षाराग्निदग्धे च सर्पिधार्यं पयोऽथवा ११
- दन्तचाले गण्डूषः
- तैलसैन्धवगण्डूषो दन्तचाले प्रशस्यते १२
- मुखशोषे कफे च हितः काञ्जिकगण्डूषः
- शोषं मुखस्य वैरस्यं गण्डूषः काञ्जिको जयेत्
- सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः १३
- कफरक्तपित्तनाशनो गण्डूषः
- त्रिफलामधुगण्डूषः कफासृक्पित्तनाशनः १४
- मुखपाकर्न्घो गण्डूषः
- दार्वी गुडूची त्रिफला द्रा क्षा जात्याश्च पल्लवाः
- यवासश्चेति तत्क्वाथः षष्ठांशक्षौद्र संयुतः
- शीतो मुखे धृतो हन्यान्मुखपाकं त्रिदोषजम् १५
- गण्डूषादिषु परस्परं द्र व्यैक्यम्
- यस्यौषधस्य गण्डूषस्तस्यैव प्रतिसारणम्
- कवलश्चापि तस्यैव ज्ञेयोऽत्र कुशलैर्न रैः १६
- कफवातजारुचिनाशकः कवलः
- केसरं मातुलुङ्गस्य सैन्धवोषणसंयुतम्
- हन्यात्कवलतो जाड्यमरुचिं कफवातजाम् १७
- प्रतिसारणप्रयोगमाह
- प्रतिसारणप्रयोगभेदाः
- कल्कोऽवलेहश्चूर्णं च त्रिविधं प्रतिसारणम्
- अङ्गुल्यग्रगृहीतं च यथास्वं मुखरोगिणाम् १८
- दन्तमुखकण्ठरोगेषु प्रतिसारणचूर्णम्
- कुष्ठं दार्वी समङ्गा च पाठा तिक्ता च पीतिका
- तेजनी मुस्तलोध्रे च चूर्णं स्यात्प्रतिसारणम्
- रक्तस्रुतिं दन्तपीडां शोथं दाहं च नाशयेत् १९
- गण्डूषादीनां हीनातियोगजा दोषाः
- हीनयोगात्कफोत्क्लेशो रसाज्ञानारुची तथा
- अतियोगान्मुखे पाकः शोषस्तृष्णा क्लमो भवेत् २०
- गण्डूषे शुद्धिलक्षणम्
- व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
- इन्द्रि याणां प्रसादश्च गण्डूषे शुद्धिलक्षणम् २१
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे गण्डूषादिविधिर्नाम दशमोऽध्यायः
- अथ लेपविधिर्नाम एकादशोऽध्यायः
- लेपस्य नामानि तद्भेदाश्च
- आलेपस्य च नामानि लिप्तो लेपश्च लेपनम्
- दोषघ्नो विषहा वर्ण्यो मुखलेपस्त्रिधा मतः १
- लेपस्य मात्रा
- त्रिप्रमाणश्चतुर्भागस्त्रिभागोऽधाङ्गुलोन्नतः
- आद्रो र्! व्याधिहरः स स्याच्छुष्को दूषयतिच्छविम् २
- शोथघ्नो लेपः
- पुनर्नवा दारु शुण्ठीं सिद्धार्थं शिग्रुमेव च
- पिष्ट्वा चैवारनालेन प्रलेपः सर्वशोथजित् ३
- दाहनाशको लेपः
- बिभीतफलमज्जाया लेपो दाहार्त्तिनाशनः ४
- विसर्पशोथव्रणादौ दशाङ्गलेपः
- शिरीषं मधुयष्टी च तगरं रक्तचन्दनम्
- एला मांसी निशायुग्मं कुष्ठं बालकमेव च
- इति संचूर्ण्य लेपोऽय पञ्चमांशघृतप्लुतः ५
- जलेन क्रियते सुज्ञैर्दशाङ्ग इति संज्ञितः
- विसर्पान्विषविस्फोटशोथान्दुष्टव्रणाञ्जयेत् ६
- आरुष्करशोथघ्नो लेपः
- अजादुग्धतिलैर्लेपो नवनीतेन संयुतः
- शोथमारुष्करं हन्ति लेपो वा कृष्णमृत्तिकैः ७
- कीटघ्नो लेपः
- लाङ्गल्यतिविषाऽलाबुजालिनीमूलबीजकैः
- लेपो धान्याम्बुसम्पिष्टः कीटविस्फोटनाशनः ८
- मुखकान्तिकरो लेपः
- रक्तचन्दनमञ्जिष्ठलोध्रकुष्ठप्रियङ्गवः
- वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ९
- मुखकान्तिकरं लेपान्तरम्
- मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः
- मुखकान्तिकरो लेपः पिटिकाव्यङ्गकालजित् १०
- तारुण्यपिटिकाऽपहा लेपा
- लोध्रधान्यवचालेपस्तारुण्यपिटिकाऽपहः
- तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनम्
- सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ११
- व्यङ्गहरा लेपाः
- व्यङ्गेषु चार्जुनत्वग्वामञ्जिष्ठा वा समाक्षिका
- लेपः सनवनीतो वा श्वेताश्वखुरजामषी १२
- मुखकार्ष्ण्ये लेपः
- अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा विलेपनात्
- मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् १३
- तत्रैव लेपान्तरम्
- वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् १४
- कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत्
- तारुण्यपिटिकाव्यङ्गनीलिकादिविनाशनम् १५
- अरुंषिकायां लेपः
- पुराणमथ पिण्याकं पुरीषं कुक्कुटस्य च
- मूत्रपिष्टः प्रलेपोऽय शीघ्रं हन्यादरुंषिकाम् १६
- तत्रैव लेपान्तरम्
- खदिरारिष्टजम्बूनां त्वग्भिर्वा मूत्रसंयुतैः
- कुटजत्वक्सैन्धवं च लेपो हन्यादरुंषिकाम् १७
- दारुणके लेपः
- प्रियाल बीजमधुककुष्ठमाषैः ससैन्धवैः
- कार्यो दारुणके मूर्ध्नि प्रलेपो मधुसंयुतः १८
- तत्रैवान्यल्लेपद्वयम्
- दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं जयेत्
- आम्रबीजस्य चूर्णं तु शिवाचूर्णसमं द्वयम्
- दुग्धपिष्टः प्रलेपोऽय दारुणं हन्ति दारुणम् १९
- इन्द्र लुप्ते लेपः
- रसस्तिक्तपटोलस्य पत्राणां तद्विलेपनात्
- इन्द्र लुप्तं शमं याति त्रिभिरेव दिनैर्ध्रुवम् २०
- अत्रैवान्येऽपि लेपाः
- इन्द्र लुप्तापहो लेपो मधुना बृहतीरसः
- गुञ्जामूलं फलं वाऽपि भल्लातकरसोऽपि वा २१
- केशवर्द्धको लेपः
- गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
- शिरः प्रलेपनं तेन केशसंवर्धनं परम् २२
- रोमोत्पादको लेपः
- हस्तिदन्तमषीं कृत्वा छागीदुग्धं रसाञ्जनम्
- रोमाण्यनेन जायन्ते लेपात्पाणितलेष्वपि २३
- इन्द्र लुप्तघ्नोऽन्यो लेपः
- यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
- इन्द्र लुप्तं शमं याति केशाः स्युः सघना दृढाः २४
- केशवर्द्धकोऽन्यो लेपः
- चतुष्पदानां त्वग्रोमनखशृङ्गास्थिभस्मभिः
- तैलेन सह लेपोऽय रोमसंजननः परः २५
- केशकृष्णीकरणलेपः
- इन्द्र वारुणिकाबीजतैलेनाभ्यङ्गमाचरेत्
- प्रत्यहं तेन जायन्ते कुन्तला भृङ्गसन्निभाः २६
- पलितघ्नो लेपः
- अयोरजो भृङ्गराजस्त्रिफला कृष्णमृत्तिका
- स्थितमिक्षुरसे मासं लेपनात्पलितं जयेत् २७
- अन्यो लेपः
- धात्रीफलत्रयं पथ्ये द्वे तथैकं बिभीतकम्
- पञ्चाम्रमज्जा लोहस्य कर्षैकं च प्रदीयते २८
- पिष्ट्वा लोहमये भाण्डे स्थापयेदुषितं निशि
- लेपोऽय हन्ति न चिरादकालपलितं महत् २९
- अन्यः केशकृष्णीकरणलेपः
- त्रिफला नीलिकापत्रं लोहं भृङ्गरजः समम्
- अविमूत्रेण सम्पिष्टं लेपात्कृष्णीकरं स्मृतम् ३०
- पलितनाशककल्पविधिः
- त्रिफला लोहचूर्णं च दाडिमत्वग्बिसं तथा
- प्रत्येकं पञ्चपलिकं चूर्णं कुर्याद्विचक्षणः ३१
- भृङ्गराजरसस्यापि प्रस्थषट्कं प्रदापयेत्
- क्षिप्त्वा लोहमये पात्रे भूमिमध्ये निधापयेत् ३२
- मासमेकं ततः कुर्याच्छागीदुग्धेन लेपनम्
- कूर्चे शिरसि रात्रौ च संवेष्ट्यैरण्डपत्रकैः ३३
- स्वपेत्प्रातस्ततः कुर्यात्स्नानं तेन च जायते
- पलितस्य विनाशश्च त्रिभिर्लेपैर्न संशयः ३४
- केशनाशको लेपः
- शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् ३५
- मनः शिला चार्धभागा स्वर्जिका चैकभागिका
- लेपोऽय वारिपिष्टस्तु केशानुत्पाट्य दीयते ३६
- अनया लेपयुक्त्या च सप्तवेलं प्रयुक्तया
- निर्मूलं केशस्थानं स्यात्क्षपणस्य शिरो यथा ३७
- अन्यो लेपः
- तालकं शाणयुग्मं स्यात्षट् शाणं शङ्खचूर्णकम्
- द्विशाणिकं पलाशस्य क्षारं दत्त्वा प्रमर्दयेत् ३८
- कदलीदण्डतोयेन रविपत्ररसेन वा
- अस्यापि सप्तभिर्लेपै रोम्णां शातनमुत्तमम् ३९
- श्वित्रनाशको लेपः
- सुवर्णपुष्पी कासीसं विडङ्गानि मनः शिला
- रोचना सैन्धवं चैव लेपनाच्छिवत्रनाशनम् ४०
- अन्योः लेपः
- वायस्येडगजाकुष्ठकृष्णाभिर्गुटिका कृता
- बस्तमूत्रेण सम्पिष्टा प्रलेपाच्छिवत्रनाशिनी ४१
- लेपान्तरम्
- तालकं शाणमात्रं स्याच्चतुःशाणा च वाकुची
- गोमूत्रपिष्टं तच्चूर्णं लेपनाच्छिक्त्रनाशनम् ४२
- सर्वश्वित्रहरलेपः
- वाकुची वेतसो लाक्षा काकोदुम्बरिका कणा
- रसाञ्जनमयश्चूर्णं तिलाः कृष्णास्तदेकतः ४३
- चूर्णयित्वा गवां पित्तैः पिष्ट्वा च गुटिका कृता
- अस्याः प्रलेपाच्छिवत्राणि प्रणश्यन्त्यतिवेगतः ४४
- सिध्महरो लेपः
- धात्री सर्जरसश्चैव यवक्षारश्च चूर्णितः
- सौवीरेण प्रलेपोऽय प्रयोज्यः सिध्मनाशने ४५
- अन्यो लेपः
- दार्वी मूलकबीजानि तालकं सुरदारु च
- ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् ४६
- शङ्खचूर्णं शाणमात्रं सर्वाण्येकत्र कारयेत्
- लेपोऽय वारिणा पिष्टः सिध्मनां नाशनः परः ४७
- नेत्ररोगहरो लेपः
- हरीतकी सैन्धवं च गैरिकं च रसाञ्जनम्
- विडालको जले पिष्टः सर्वनेत्रामयापहः ४८
- अन्यो लेपः
- रसाञ्जनं व्योषयुतं सम्पिष्टं वटकीकृतम्
- कण्डूं पाकान्वितां हन्ति लेपादञ्जननामिकाम् ४९
- दद्रू कण्ड्वादौ लेपः
- प्रपुन्नाटस्य बीजानि वाकुची सर्षपास्तिलाः
- कुष्ठं निशाद्वयं मुस्तं पिष्ट्वा तक्रेण चैकतः
- प्रलेपादस्य नश्यन्ति दद्रू कण्डूविचर्चिकाः ५०
- पामादिषु लेपः
- हेमक्षीरी विडङ्गानि दरदं गन्धकस्तथा
- दद्रू घ्नः कुष्ठसिन्दूरे सर्वाण्येकत्र मर्दयेत् ५१
- धत्तूरनिम्बताम्बूलीपत्राणां स्वरसैः पृथक्
- अस्य प्रलेपमात्रेण पामादद्रू विर्चिकाः ५२
- कण्डूश्च रकसश्चैव प्रशमं यान्ति वेगतः ५३
- कण्डूपामादिष्वन्यो लेपः
- दूर्वाऽभया सैन्धवं च चक्रमर्दः कुठेरकः
- एभिस्तक्रयुतो लेपः कण्डूपामाविनाशनः ५४
- तत्रैवान्यो लेपः
- दूर्वानिशायुतो लेपः कण्डूपामाविनाशनः
- कृमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः ५५
- दद्रू घ्नो लेपः
- सिद्धार्थरजनीकुष्ठप्रपुन्नाटतिलैः सह
- कटुतैलेन संमिश्रं दद्रू घ्नं च प्रलेपनम् ५६
- वातविसर्पहा लेपः
- रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
- घृतक्षीरयुतो लेपो वातवीसर्पनाशनः ५७
- पित्तविसर्पहा लेपः
- मृणालं चन्दनं लोध्रमुशीरं कमलोत्पलम्
- सारिवामलकी पथ्या लेपः पित्तविसर्पनुत् ५८
- कफविसर्पघ्नो लेपः
- त्रिफला पद्मकोशीरं समङ्गा करवीरकम्
- नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ५९
- पित्तवातरक्तघ्नो लेपः
- मांसी सर्जरसो लोध्रं मधुकं सहरेणुकम्
- मूर्वा नीलोत्पलं पद्मं शिरीषकुसुमैः सह
- प्रलेपः पित्तवातास्रे शतधौतघृतप्लुतः ६०
- नासासृतरक्तहरो लेपः
- आमलं घृतभृष्टं तु पिष्टं काञ्जिकवारिभिः
- जयेन्मूर्ध्नि प्रलेपेन रक्तं नासिकया सृतम् ६१
- वातजशिरःपीडाहरो लेपः
- कुष्ठमेरण्डतैलेन लेपात्काञ्जिकपेषितम्
- शिरोऽत्ति वातजां हन्यात्पुष्पं वा मुचुकुन्दजम् ६२
- अन्यो लेपः
- देवदारुं नतं कुष्ठं नलदं विश्वभेषजम्
- सकाञ्जिकः स्नेहयुक्तो लेपो वातशिरोऽत्तिनुत् ६३
- रक्तपित्तजशिरःपीडाहरो लेपः
- चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः
- क्षीरपिष्टैः प्रलेपः स्याद्र क्तपित्तशिरोऽत्तिजित् ६४
- रक्तपित्तहरो लेपः
- धात्रीकसेरुह्रीबेरपद्मपद्मकचन्दनैः
- दूर्वोशीरनलानां च मूलैः कुर्यात्प्रलेपनम् ६५
- शिरोऽत्ति पित्तजां हन्याद्र क्तपित्तरुजं तथा ६६
- कफजशिरःपीडाहरो लेपः
- हरेणुनतशैलेयमुस्तैलागरुदारुभिः
- मांसीरास्नारुबूकश्च कोष्णो लेपः कफार्त्तिनुत् ६७
- अन्यो लेपः
- शुण्ठीकुष्ठप्रपुन्नाटदेवकाष्ठैः सरोहिषैः
- मूत्रपिष्टैः सुखोष्णैश्च लेपः श्लेष्मशिरोऽत्तिनुत् ६८
- सूर्यावर्त्तार्धावभेदकयोर्लेपः
- सारिवाकुष्ठमधुकवचाकृष्णोत्पलैस्तथा
- लेपः सकाञ्जिकस्नेहः सूर्यावर्त्तार्धभेदयोः ६९
- सर्वशिरःपीडाहरो लेपः
- वरी नीलोत्पलं दूर्वा तिलाः कृष्णा पुनर्नवा
- शङ्खकेऽनन्तवाते च लेपः सर्वशिरोऽत्तिजित् ७०
- लेपस्य भेदद्वयम्
- अथ लेपविधिश्चान्यः प्रोच्यते सुज्ञसम्मतः
- द्वौ तस्य कथितौ भेदौ प्रलेपाख्यप्रदेहकौ ७१
- तयोर्लक्षणम्
- चर्माद्र रं! माहिषं यद्वत्प्रोन्नतं सा मितिस्तयोः
- शीतस्तनुर्विशोषी च प्रलेपः परिकीर्त्तितः
- आद्रो र्! घनस्तथोष्णः स्यात्प्रदेहः श्लेष्मवातहा ७२
- लेपविधिः
- रोमाभिमुखमादेयौ प्रलेपाख्यप्रदेहकौ
- वीर्यं सम्यग्विशत्याशु रोमकूपैः शिरामुखैः ७३
- रात्रौ लेपनिषिद्धता
- न रात्रौ लेपनं कुर्याच्छुष्यमाणं न धारयेत्
- शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ७४
- रात्रिलेपनिषेधे हेतुः
- तमसा पिहतो ह्यूष्मा रोमकूपमुखे स्थितः
- विना लेपेन निर्याति रात्रौ नो लेपयेदतः ७५
- रोगविशेषे रात्रौ लेपाज्ञा
- रात्रावपि प्रलेपादिविधिः कार्यो विचक्षणैः
- अपक्वशोथे गम्भीरे रक्तश्लेष्मसमुद्भवे ७६
- व्रणविषये लेपक्रमनिर्देशः
- आदौ शोथहरो लेपो द्वितीयो रक्तसेचनः
- तृतीयश्चोपनाहः स्याच्चतुर्थः पाटनक्रमः ७७
- पञ्चमः शोधनो भूयात्षष्ठो रोपण इष्यते
- सप्तमो वर्णकरणो व्रणस्यैते क्रमा मताः ७८
- वातजव्रणशोथहरो लेपः
- बीजपूरजटा हिंस्रा देवदारु महौषधम्
- रास्नाऽग्निमन्थो लेपोऽय वातशोथविनाशनः ७९
- पित्तजव्रणशोथघ्नो लेपः
- मधुकं चन्दनं मूर्वा नलमूलं च पद्मकम्
- उशीरं बालकं पद्मं पित्तशोथे प्रलेपनम् ८०
- कफजव्रणशोथघ्नो लेपः
- कृष्णा पुराणपिण्याकं शिग्रुत्वक्सिकता शिवा
- मूत्रपिष्टः सुखोष्णोऽय प्रदेहः श्लेष्मशोथहा ८१
- आगन्तुकरक्तजव्रणशोथघ्नो लेपः
- द्वे निशे चन्दने द्वे च शिवा दूर्वा पुनर्नवा ८२
- उशीरं पद्मकं लोध्रं गैरिकं च रसाञ्जनम्
- आगन्तुके रक्तजे च शोथे कुर्यात्प्रलेपनम् ८३
- व्रणपाचको लेपः
- शणमूलकशिग्रूणां फलानि तिलसर्षपाः
- सवचः किण्वमतसी प्रदेहः पाचनः स्मृतः ८४
- व्रणदारणे लेपाः
- तत्र दन्त्यादिलेपः
- दन्ती चित्रकमूलत्वक्स्नुह्यर्कपयसी गुडः
- भल्लातकास्थिकासीसं सैन्धवं दारणः स्मृतः ८५
- चिरबिल्वादिलेपः
- चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
- कपोतकङ्कगृध्राणां मलं लेपेन दारणम् ८६
- स्वर्जिकादिहेमक्षीरीलेपौ
- स्वर्जिकायावशूकाद्याः क्षारा लेपेन दारणाः
- हेमक्षीर्यास्तथा लेपो व्रणे परमदारणः ८७
- व्रणशोधनरोपणो लेपः
- तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
- त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ८८
- व्रणशोधनरोपणो लेपः
- निम्बपत्रघृतक्षौद्र दार्वीमधुकसंयुतः
- तिलैश्च सह संयुक्तो लेपः शोधनरोपणः ८९
- व्रणकृमिघ्नो लेपः
- करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
- लशुनस्याथवा लेपो हिङ्गुनिम्बभवोऽथवा ९०
- दुष्टव्रणप्रशमनो लेपः
- निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
- द्रुष्टव्रणप्रशमनो लेपः शोधनरोपणः ९१
- अन्तर्विद्र धिजशूलघ्नो लेपः
- मदनस्य फलं तिक्तां पिष्ट्वा काञ्जिकवारिणा
- कोष्णं कुर्यान्नाभिलेपं शूलशान्तिर्भवेत्ततः ९२
- वातविद्र धिहरो लेपः
- शिग्रुशेफालिकैरण्डयवगोधूममुद्गकैः
- सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्र धौ ९३
- पित्तविद्र धिहरो लेपः
- पैत्तिके सर्पिषा लाजामधुकैः शर्कराऽन्वितैः
- प्रलिम्पेत्क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ९४
- कफविद्र धिहरो लेपः
- इष्टिका सिकता लोहकिट्टं गोशकृता सह
- सुखोष्णश्च प्रदेहोऽय मूत्रैः स्याच्छ्लेष्मविद्र धौ ९५
- आगन्तुकविद्र धिहरो लेपः
- रक्तचन्दनमञ्जिष्ठानिशामधुकगैरिकैः
- क्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तजे ९६
- वातजगलगण्डहरो लेपः
- निचुलः शिग्रुबीजानि दशमूलमथापि वा
- प्रदेहो वातगण्डेषु सुखोष्णः सम्प्रदीयते ९७
- कफजगलगण्डहरो लेपः
- देवदारु विशाला च कफगण्डे प्रदेहकः ९८
- अपचीनाशको लेपः
- सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह
- छागमूत्रेण संपिष्टमपचीघ्नं प्रलेपनम् ९९
- गण्डमालादिषु लेपः
- सर्षपाः शिग्रुबीजानि शणबीजातसीयवाः
- मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत्
- गण्डमालाऽबुदं गण्डं लेपेनानेन शाम्यति १००
- गृधस्यादिषु लेपः
- तक्षयित्वा क्षुरेणाङ्गं केवलानिलपीडितम्
- तत्र प्रदेहं दद्याच्च पिष्टं गुञ्जाफलैः कृतम् १०१
- तेनापबाहुजा पीडा विश्वाची गृध्रसी तथा
- अन्याऽपि वातजा पीडा प्रशमं याति वेगतः१०२
- श्लीपदरोगहरो लेपः
- धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः
- प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् १०३
- कुरण्डघ्नो लेपः
- आजाजीहपुषाकुष्ठमेरण्डबदरान्वितम्
- काञ्जिकेन तु संपिष्टं कुरण्डघ्नं प्रलेपनम् १०४
- उपदंशे लेपः
- करवीरस्य मूलेन परिपिष्टेन वारिणा
- असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् १०५
- तत्रान्यो लेपः
- दहेत्कटाहे त्रिफलां सा मषी मधुसंयुता
- उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् १०६
- अन्यो लेपः
- रसाञ्जनं शिरीषेण पथ्यया च समन्वितम्
- सक्षौद्रं लेपनं योज्यमुपदंशगदापहम् १०७
- अग्निदग्धे लेपाः
- अग्निदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
- सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् १०८
- तिन्दुकीत्वक्कषायैर्वा घृतमिश्रः प्रलेपयेत्
- यवान्दग्ध्वा मषी कार्या तैलेन युतया तथा
- दद्यात्सर्वाग्निदग्धेषु प्रलेपो व्रणरोपणः १०९
- योनिसङ्कोचको लेपः
- पलाशोदुम्बरफलैस्तिलतैलसमन्वितैः
- मधुना योनिमालिम्पेद् गाढीकरणमुत्तमम् ११०
- तत्रैवान्यो लेपः
- माकन्दफलसंयुक्तमधुकर्पूरलेपनात्
- गतेऽपि यौवने स्त्रीणां योनिर्गाढाऽतिजायते १११
- लिङ्गस्तनादिवृद्धौ लेपः
- मरिचं सैन्धवं कृष्णा तगरं बृहतीफलम् ११२
- अपामार्गस्तिलाः कुष्ठं यवा माषाश्च सर्षपाः
- अश्वगन्धा च तच्चूर्णं मधुना सह योजयेत् ११३
- अस्य सन्ततलेपेन मर्दनाच्च प्रजायते
- लिङ्गवृद्धिः स्तनोत्सेधः संहतिर्भुजकर्णयोः ११४
- लिङ्गवृद्धिकरो लेपः
- सिताऽश्वगन्धासिन्धूत्थछागक्षीरैर्घृतं पचेत्
- तल्लेपान्मर्दनाल्लिङ्गवृद्धिः सञ्जायते परा ११५
- योनिद्रा वकरो लेपः
- इन्द्र वारुणिकापत्ररसैः सूतं विमर्दयेत्
- रक्तस्य करवीरस्य काष्ठेन च मुहुर्मुहुः
- तल्लिप्तलिङ्गसंयोगाद्योनिद्रा वोऽभिजायते ११६
- गात्रदुर्गन्धहरो लेपः
- ताम्बूलपत्रचूर्णं तु चूर्णं कुष्ठशिवाभवम्
- वारिणा लेपनं कुर्याद् गात्रदौर्गन्ध्यनाशनम् ११७
- स्वेददौर्गन्ध्यहरो लेपः
- कुलित्थसक्तवः कुष्ठं मांसी चन्दनजं रजः ११८
- सक्तवश्चणकस्यैव त्वक्चैवैकत्र कारयेत्
- स्वेददौर्गन्ध्यनाशश्च जायतेऽस्यावधूलनात् ११९
- वशीकरणलेपः
- वचा सौवर्चलं कुष्ठं रजन्यौ मरिचानि च
- एतल्लेपप्रभावेण वशीकरणमुत्तमम् १२०
- अथ मूर्धतैलविधिः
- तत्र मूर्धतैलभेदाः
- अभ्यङ्गः परिषेकश्च पिचुर्बस्तिरिति क्रमात्
- मूर्धतैलं चतुर्धा स्याद्बलवच्च यथोत्तरम् १२१
- केवलशिरोबस्तिविधिकथने हेतुनिर्देशः
- त्रयोऽभ्यङ्गादयः पूर्वे प्रसिद्धाःसर्वतःस्मृताः
- शिरोबस्तिविधिश्चात्र प्रोच्यतेसुज्ञसंमतः १२२
- अथ शिरोबस्तिविधिः
- शिरोबस्तिश्चर्मणःस्याद् द्विमुखो द्वादशाङ्गुलः
- शिरः प्रमाणं तं बद्ध्वा मस्तके माषपिष्टकैः
- सन्धिरोधं विधायादौ स्नेहैः कोष्णैः प्रपूरयेत् १२३
- तत्र शिरोबस्तिधारणकालविधिनिर्देशः
- तावद्धार्यस्तु यावत्स्यान्नासानेत्रमुखस्रुतिः
- वेदनोपशमोवाऽपि मात्राणां वा सहस्रकम् १२४
- शिरोबस्तिप्रयोगकालविधिनिर्देशः
- विना भोजनमेवात्र शिरोबस्तिः प्रशस्यते
- प्रयोज्यस्तु शिरोबस्तिः पञ्चसप्ताहमेव वा १२५
- शिरोबस्त्युत्तराङ्गकृत्यम्
- विमोच्य शिरसोबस्तिं गृह्णीयाच्च समन्ततः
- उर्ध्वकायं ततः कोष्णनीरैः स्नानं च कारयेत् १२६
- शिरोबस्तिगुणाः
- अनेन दुर्जया रोगा वातजा यान्ति सङ्क्षयम्
- शिरः कम्पादयस्तेन सर्वकालेषु युज्यते १२७
- कर्णपूरणविधिः
- स्वेदयेत्कर्णदेशं तु किञ्चिन्नुः पार्श्वशायिनः
- मूत्रैः स्नेहै रसैः कोष्णैस्ततः श्रोत्रं प्रपूरयेत् १२८
- कर्णस्थौषधधारणकालावधिः
- कर्णं च पूरितं रक्षेच्छतं पञ्चशतानि वा
- सहस्रं वाऽपि मात्राणां श्रोत्रकण्ठशिरोगदे १२९
- मात्रालक्षणम्
- स्वजानुनः करावर्त्तं कुर्याच्छोटिकया युतम्
- एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः १३०
- रसाद्यनुसारेण कर्णपूरणसमयभेदः
- रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
- तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते १३१
- कर्णशूलहरो रसः
- पीतार्कपत्रमाज्येन लिप्तं वह्नौ प्रतापयेत्
- तद्र सः श्रवणे क्षिप्तः कर्णशूलहरः परः १३२
- कर्णशूले बस्तमूत्रप्रयोगः
- कर्णशूलातुरे कोष्णं बस्तमूत्रं ससैन्धवम्
- निःक्षिपेत्तेन शाम्यन्ति शूलपाकादिका रुजः १३३
- कर्णशूलेऽन्ये प्रयोगाः
- शृङ्गबेरं च मधुकं मधु सैन्धवमामलम् १३४
- तिलपर्णीरसस्तैलं टङ्कणं निम्बुकद्र वम्
- कदुष्णं कर्णयोर्देयमेतद्वा वेदनाऽपहम् १३५
- तत्रैव प्रयोगान्तरम्
- कपित्थमातुलुङ्गाम्लशृबेररसैः शुभैः
- सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये १३६
- तत्रैवार्काङ्कुरप्रयोगः
- अर्काङ्कुरानम्लपिष्टांस्तैलाक्तांल्लवणान्वितान्
- सन्निदध्यात्स्नुहीकाण्डे कोरितेतच्छदावृते १३७
- पुटपाकक्रमं कृत्वा रसैस्तच्च प्रपूरयेत्
- सुखोष्णैस्तेन शाम्यन्ति कर्णपीडाः सुदारुणाः १३८
- तत्रैव दीपिकातैलम्
- महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च
- क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः १३९
- यत्तैलं च्यवते तेभ्यः सुखोष्णं तेन पूरयेत्
- ज्ञेयं तद्दीपिकातैलंसद्यो गृह्णातिवेदनाम्
- एवं स्याद्दीपिकातैलं कुष्ठे देवतरौ तथा १४०
- तत्रैव स्योनाकतैलम्
- तैलं स्योनाकमूलेन मन्देऽग्नौ परिपाचितम्
- हरेदाशु त्रिदोषोत्थं कर्णशूलं प्रपूरणात् १४१
- कर्णनादे यष्टीवसा
- कल्कक्वाथेन यष्ट्याह्वकाकोलीमाषधान्यकैः
- सूकरस्य वसां पक्त्वा कर्णनादार्त्तिनाशिनी १४२
- कर्णरोगे स्वर्जिकादितैलम्
- स्वर्जिका मूलकं शुष्कं हिङ्गु कृष्णासमन्वितम् १४३
- शतपुष्पा च तैस्तैलं पक्वं शुक्तचतुर्गुणम्
- प्रणादं शूलबाधिर्यं स्रावं कर्णस्य नाशयेत् १४४
- बाधिर्येऽपामार्गक्षारतैलम्
- अपामार्गक्षारजले तत्क्षारं कल्कितं क्षिपेत्
- तेन पक्वं जयेत्तैलं बाधिर्यं कर्णनादकम् १४५
- कर्णनाड्यां शम्बूकतैलम्
- शम्बूकस्य तु मांसेन पचेत्तैलं तु सार्षपम्
- तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति १४६
- कर्णस्रावनाशको योगः
- चूर्णं पञ्चकषायाणां कपित्थरसमेव च
- कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह १४७
- पञ्च कषायाः
- तिन्दुकान्यभया लोध्रः समङ्गा चामलक्यपि
- ज्ञेयाः पञ्च कषायास्तु कर्मण्यस्मिन्भिषग्वरैः १४८
- कर्णस्रावादौ स्वर्जिकादियोगः
- स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
- कर्णस्रावरुजा दाहाः प्रणश्यन्ति न संशयः १४९
- पूतिकर्णे आम्रादितैलम्
- आम्रजम्बूप्रवालानि मधूकस्य वटस्य च
- एभिः संसाधितं तैलं पूतिकर्णोपशान्तिकृत् १५०
- कर्णकीटनाशकौ योगौ
- पूरणं हरितालेन गवां मूत्रयुतेन च
- अथवा सार्षपं तैलं कर्णकीटहरं परम् १५१
- कर्णकीटेऽन्यो योगः
- स्वरसं शिग्रुमूलस्य सूर्यावर्त्तरसं तथा
- त्र्! यूषणं चूर्णितं चैव कपिकच्छूजटारसम्
- कृत्वैकत्र क्षिपेत्कर्णे कर्णकीटहरं परम् १५२
- अन्यौ योगौ
- सद्यो मद्यं निहन्त्याशु कर्णकीटं सुदारुणम्
- सद्यो हिङ्गुनिहन्त्याशु कर्णकीटं सुदारुणम्
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे लेपमूर्धतैलकर्णपूरणविधिर्नामैकादशोऽध्यायः
- अथ शोणितस्रावविधिर्नाम द्वादशोऽध्यायः
- तत्र शोणितस्रावमानम्
- शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च
- प्रस्थं प्रस्थार्द्धकं वाऽपि प्रस्थार्धार्धमथापि वा १
- रक्तस्रावसमयः
- शरत्काले स्वभावेन कुर्याद्र क्तस्रुतिं नरः
- त्वग्दोषग्रन्थिशोथाद्या न स्यू रक्तस्रुतेर्यतः २
- रक्तस्य प्रकृतिनिर्देशः
- मधुरं वर्णतो रक्तमशीतोष्णं तथा गुरु
- शोणितं स्निग्धविस्रं स्याद्विदाहश्चास्य पित्तवत् ३
- रक्ते पञ्चमहाभूतगुणाः
- विस्रता द्र वता रागश्चलनं विलयस्तथा
- भूम्यादिपञ्चभूतानामेते रक्तगुणाः स्मृताः ४
- दुष्टरक्तलक्षणम्
- रक्ते दुष्टे वेदना स्यात्पाको दाहश्च जायते
- रक्तमण्डलता कण्डूः शोथश्च पिटिकोद्गमः ५
- रक्तवृद्धिलक्षणम्
- वृद्धे रक्ताङ्गनेत्रत्वं शिराणां पूरणं तथा
- गात्राणां गौरवं निद्रा मदो दाहश्च जायते ६
- क्षीणरक्तलक्षणम्
- क्षीणेऽम्लमधुराकाङ्क्षा मूर्च्छा च त्वचि रूक्षता
- शैथिल्यं च शिराणां स्याद्वातादुन्मार्गगामिता ७
- वातदूषितरक्तलक्षणम्
- अरुणं फेनिलं रूक्षं परुषं तनु शीघ्रगम्
- अस्कन्दि सूचिनिस्तोदि रक्तं स्याद्वातदूषितम् ८
- पित्तदूषितरक्तलक्षणम्
- पित्तेन पीतं हरितं नीलं श्यावं च विस्रकम्
- अस्कन्द्युष्णं मक्षिकाणां पिपीलानामनिष्टकम् ९
- कफदूषितरक्तलक्षणम्
- शीतलं बहलं स्निग्धं गैरिकोदकसन्निभम्
- मांसपेशीप्रभं स्कन्दि मन्दगं कफदूषितम् १०
- द्वित्रिदोषदुष्टरक्तयोर्लक्षणम्
- द्विदोषदुष्टं संसृष्टं त्रिदुष्टं पूतिगन्धकम्
- सर्वलक्षणसंयुक्तं काञ्जिकाभं च जायते ११
- विषदूषितरक्तलक्षणम्
- विषदुष्टं भवेच्छ्यावं नासिकोन्मार्गगं तथा
- विस्रं काञ्जिकसङ्काशं सर्वकुष्ठकरं बहु १२
- शुद्धरक्तलक्षणम्
- इन्द्र गोपप्रभं ज्ञेयं प्रकृतिस्थमसंहतम् १३
- रक्तस्रावसाध्या रोगाः
- शोथे दाहेऽङ्गपाके च रक्तवर्णेऽसृजः स्रुतौ
- वातरक्ते तथा कुष्ठे सपीडे दुर्जयेऽनिले
- पाणिरोगे श्लीपदे च विषदुष्टे च शोणिते १४
- ग्रन्थ्यर्बुदापचीक्षुद्र रोगरक्ताधिमन्थिषु
- विदारीस्तनरोगेषु गात्राणां सादगौरवे १५
- रक्ताभिष्यन्दतन्द्रा यां पूतिघ्राणास्यदेहके
- यकृत्प्लीहविसर्पेषु विद्र धौ पिटिकोद्गमे १६
- कर्णोष्ठघ्राणवक्त्राणां पाके दाहे शिरोरुजि
- उपदंशे रक्तपित्ते रक्तस्रावः प्रशस्यते १७
- रक्तस्रावविधिः
- एषु रोगेषु शृङ्गैर्वा जलौकाऽलाबुकैरपि
- अथवाऽपि शिरामोक्षैः कुर्याद्र क्तस्रुतिं नरः १८
- रक्तस्रावायोग्या जनाः
- न कुर्वीत शिरामोक्षं कृशस्यातिव्यवायिनः
- क्लीबस्य भीरोर्गर्भिण्याः सूतिकापाण्डुरोगिणाम् १९
- पञ्चकर्मविशुद्धस्य पीतस्नेहस्य चार्शसाम्
- सर्वाङ्गशोथयुक्तानामुदरश्वासकासिनाम् २०
- छर्द्यतीसारदुष्टानामतिस्विन्नतनोरपि
- ऊनषोडशवर्षस्य गतसप्ततिकस्य च २१
- आघातस्रुतरक्तस्य शिरामोक्षो न शस्यते
- एषां चात्ययिकेरोगे जलौकाभिस्तु निर्ह रेत् २२
- विषदुष्टरक्तस्य स्रावप्रकारः
- तथा च विषदुष्टानां शिरामोक्षोऽपि शस्यते २३
- वातादिदोषानुसारेण रक्तस्रावप्रकारः
- गोशृङ्गेण जलौकाभिरलाबुभिरपि त्रिधा
- वातपित्तकफैर्दुष्टं शोणितं स्रावयेद् बुधः २४
- द्विदोषाभ्यां तु सन्दुष्टं त्रिदोषैरपि दूषितम्
- शोणितं स्रावयेद्युक्त्या शिरामोक्षैः पदैस्तथा २५
- शृङ्गादीनां शोणितग्रहणे प्रमाणम्
- गृह्णाति शोणितं शृङ्गं दशाङ्गुलमितं बलात्
- जलौका हस्तमात्रं तु तुम्बी च द्वादशाङ्गुलम्
- पदमङ्गुलमात्रस्य शिरा सर्वाङ्गशोधिनी २६
- रुधिरस्रावप्रतिबन्धिकाऽवस्था
- शीते निरन्ने मूर्च्छाऽतिनिद्रा भीतिमदश्रमैः
- युतानां न स्रवेद्र क्तं तथा विण्मूत्रसङ्गिनाम् २७
- रक्ताप्रवृत्तावुपचारः
- अप्रवर्त्तितरक्ते च कुष्ठत्रिकटुसैन्धवैः
- मर्दयेद् व्रणवक्त्रं च तेन सम्यक्प्रवर्त्तते २८
- रक्तमोक्षणसमयः
- तस्मान्न शीते नात्युष्णे न स्विन्ने नातितापिते
- पीत्वा यवागूं तृप्तस्य स्रावयेच्छोणितं बुधः २९
- रक्तातिप्रवृत्तौ हेतुः
- अतिस्विन्नस्योष्णकाले तथ्वातिशिराव्यधात्
- अतिप्रवर्त्तते रक्तं तत्र कुर्यात्प्रतिक्रियाम् ३०
- रक्तातिप्रवृत्तौ चिकित्सा
- अतिप्रवृत्ते रक्ते च लोध्रसर्जरसाञ्जनैः
- यवगोधूमचूणैर्वा धवधन्वनगैरिकैः ३१
- सर्पनिर्मोकचूर्णैर्वा भस्मना क्षौमवस्त्रयोः
- मुखं व्रणस्य बध्वा च शीतैश्चोपचरेद्व्रणम् ३२
- तत्रैवोपचारान्तरम्
- विध्येदूर्ध्वशिरां तां च दहेत्क्षारेण वाऽग्निना
- व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्
- व्रणास्यं पाचयेत्क्षारो दाहः सङ्कोचयेच्छिराम् ३३
- अग्निदाहसाध्या रोगाः
- तत्र मुष्कशोथे कराङ्गुष्ठदाहनिर्देशः
- वामाण्डशोथे दक्षस्य करस्याङ्गुष्ठमूलजाम् ३४
- दहेच्छिरां व्यत्यये तु वामाङ्गुष्ठशिरां दहेत्
- शिरादाहप्रभावेण मुष्कशोथः प्रणश्यति ३५
- विषूच्यां पार्ष्णिदाहव्यवस्था
- विषूच्यां पार्ष्णिदाहेन जायतेऽग्ने प्रदीपनम्
- सङ्कुचन्ति यतस्तेन रसश्लेष्मवहाः शिराः ३६
- रक्तजबालयकृत्प्लीहवृद्धौ तत्स्थानदाहव्यवस्था
- यदावृद्धिर्यकृत्प्लीह्नोः शिशोः सञ्जायतेऽसृजः
- तदा तत्स्थानदाहेन सङ्कुचन्त्यसृजः शिराः ३७
- अत्यन्तरक्तस्रावणनिषेधः
- रक्ते दुष्टेऽवशिष्टेऽपि व्याधिर्नैव प्रकुप्यति
- अतः स्राव्यं सावशेषं रक्ते नातिक्रमो हितः ३८
- अतिरक्तस्रुतिजन्या हानयः
- आन्ध्यमाक्षेपकं तृष्णां तिमिरं शिरसो रुजम्
- पक्षाघातं श्वासकासौ हिक्कां दाहं च पांडुताम्
- कुरुतेऽतिस्रुतं रक्तं मरणं वा करोति च ३९
- रुधिरस्य महत्ता
- देहस्योत्पत्तिरसृजा देहस्तेनैव धार्यते
- विना तेन व्रजेज्जीवो रक्षेद्र क्तमतोबुधः ४०
- स्रुते रक्तेऽपि दोषकोपे प्रतीकारः
- शीतोपचारः कुपिते स्रुतरक्तस्य मारुते
- कोष्णेन सर्पिषा शोथं सव्यथं परिषेचयेत् ४१
- रक्तस्रुतिक्षीणस्य पथ्यव्यवस्था
- क्षीणस्यैणशशोरभ्रहरिणच्छागमांसजः
- रसः समुचितः पाने क्षीरं वा षष्टिका हिताः ४२
- सम्यक्स्रुतरक्तलक्षणम्
- पीडाशान्तिर्लघुत्वं च व्याधेरुद्रे कसंक्षयः
- मनः स्वास्थ्यं भवेच्चिह्नं सम्यग्विस्रावितेऽसृजि ४३
- रक्तस्रावोत्तरं वर्ज्याविषयाः
- व्यायाममैथुनक्रोधशीतस्नानप्रवातकान् ४४
- एकाशनं दिवास्वप्नं क्षाराम्लकटुभोजनम्
- शोकं वादमजीर्णं च त्यजेदाबलदर्शनात् ४५
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे शोणितस्रावविधिर्नाम द्वादशोऽध्यायः
- अथ नेत्रप्रसादनकर्मनाम त्रयोदशोऽध्यायः
- तत्रादौ तन्नामानि
- सेकं आश्च्योतनं पिण्डी बिडालस्तर्पणं तथा
- पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् १
- सेकविधिः
- सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
- मीलिताक्षस्य मत्तर्यस्य प्रदेयश्चतुरङ्गुलात् २
- दोषानुसारेण सेकप्रकारभेदाः
- स चापि स्नेहनो वाते रक्ते पित्ते च रोपणः
- लेखनश्च कफे कार्यस्तस्य मात्राऽधुनोच्यते ३
- सेकधारणमात्रा
- षड्वाक्शतैः स्नेहनेषु चतुर्भिश्चैव रोपणे
- वाक्शतैश्च त्रिभिः कार्यः सेकोलेखनकर्मणि ४
- सेकसमयः
- कार्यस्तु दिवसे सेको रात्रौ चात्ययिके गदे ५
- दोषानुसारेण सेकव्यवस्था
- एरण्डत्वक्पत्रमूलैः शृतमाजं पयोहितम्
- सुखोष्णं सेचनं नेत्रे वाताभिष्यन्दनाशनम् ६
- वाताभिष्यन्द मारुतपर्ययशुष्काक्षिपाकेषु सेकौ
- परिषेकोहितोनेत्रे पयः कोष्णं ससैन्धवम्
- रजनीदारुसिद्धं वा सैन्धवेनसमन्वितम् ७
- वाताभिष्यन्दशमनं हितं मारुतपर्यये
- शुष्काक्षिपाके च हितमिदं सेचनकं सदा ८
- पित्तरक्ताभिघातजनेत्रपीडाहृत्सेकः
- साबरं मधुकं तुल्यं घृतभृष्टं सुचूर्णितम्
- छागक्षीरे घृतं सेकात्पित्तरक्ताभिघातजित् ९
- रक्ताभिष्यन्दे सेकः
- त्रिफलालोध्रयष्टीभिः शर्कराभद्र मुस्तकैः
- पिष्टः शीताम्बुना सेको रक्ताभिष्यन्दनाशनः १०
- तत्रैवान्यः सेकः
- लाक्षामधुकमञ्जिष्ठालोध्रकालानुसारिवाः
- पुण्डरीकयुतः सेको रक्ताभिष्यन्दनाशनः ११
- नेत्रशूलघ्नः सेकः
- श्वेतलोध्रं घृते भृष्टं चूर्णितं पटविस्रुतम्
- उष्णाम्बुना विमृदितं सेकाच्छूलघ्नमम्बके १२
- अथाश्च्योतनविधिः
- तत्राश्च्योतनकर्मसमयः
- अथाश्च्योतनकं कार्यं निशायां न कथंचन १३
- आश्च्योतनविधिः
- उन्मीलितेऽक्ष्णि दृङ्मध्ये बिन्दुभिर्द्व्यङ्गुलाद्धितम् १४
- गुणानुसारेण बिन्दुप्रक्षेपसंख्यानिर्देशः
- बिन्दवोऽष्टौ लेखनेषु स्नेहने दश बिन्दवः
- रोपणे द्वादश प्रोक्तास्ते शीतेकोष्णरूपिणः
- उष्णे च शीतरूपाः स्युः सर्वत्रैवैष निश्चयः १५
- वातादिभेदेनाश्च्योतनपदार्थनिर्देशः
- वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम्
- तिक्तोष्णरूक्षं च कफे क्रमादाश्च्योतनं हितम् १६
- आश्च्योतनमात्रानिर्णयः
- आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्शतं हिता
- निमेषोन्मेषणं पुंसामङ्गुल्याच्छोटिकाऽथवा
- गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १७
- वाताभिष्यन्दहरमाश्च्योतनम्
- बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
- क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १८
- वातरक्तपित्तोत्थाभिष्यन्दोपायः
- अम्बुपिष्टैर्निम्बपत्रैस्त्वचं लोध्रस्य लेपयेत्
- प्रताप्य वह्निना पिष्ट्वा तद्र सो नेत्रपूरणात्
- वातोत्थं रक्तपित्तोत्थमभिष्यन्दं विनाशयेत् १९
- सर्वाभिष्यन्दघ्नमाश्च्योतनम्
- त्रिफलाश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् २०
- रक्तपित्तादिजनेत्रपीडास्वाश्च्योतनम्
- स्त्रीस्तन्याश्च्योतनं नेत्रे रक्तपित्तानिलार्त्तिजित्
- क्षीरसर्पिर्घृतं वाऽपि वातरक्तरुजं जयेत् २१
- पिण्डिकाविधिः
- पिण्डी कवलिका प्रोक्ता बद्ध्य्ते पट्टवस्त्रकैः
- नेत्राभिष्यन्दयोग्या सा व्रणेष्वपि निबद्ध्यते २२
- अभिष्यन्दाधिमन्थयोः शिरोविरेचनम्
- अभिष्यन्देऽधिमन्थे च सञ्जाते श्लेष्मसम्भवे
- स्निग्धस्विन्नोत्तमाङ्गस्य शिरस्तीक्ष्णैर्विरेचयेत् २३
- अधिमन्थे शिराव्यधाग्निदाहौ
- अधिमन्थेषु सर्वेषु ललाटे वेधयेच्छिराम्
- अशान्ते सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् २४
- सर्वाभिष्यन्दे पिण्डिकाप्रयोगः
- अभिष्यन्देषु सर्वेषु बध्नीयात्पिण्डिकां बुधः २५
- वाताभिष्यन्दे पिण्डिकाप्रयोगः
- वातामिष्यन्दशान्त्यर्थं स्निग्धोष्णा पिण्डिका भवेत्
- एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी २६
- पित्ताभिष्यन्दे पिण्डीद्वयम्
- पित्ताभिष्यन्दनाशाय धात्रीपिंडी सुखावहा
- महा निम्बफलोद्भूता पिंडी वा पित्तनाशिनी २७
- कफाभिष्यन्दे पिण्डी
- शिग्रुपत्रकृता पिण्डी श्लेष्माभिष्यन्दनाशिनी २८
- कफपित्ताभिष्यन्दे पिण्डीद्वयम्
- निम्बपत्रकृता पिण्डी श्लेष्मपित्तहरा भवेत्
- त्रिफलापिण्डिका प्रोक्ता नाशने श्लेष्मपित्तयोः २९
- रक्ताभिष्यन्दे पिण्डी
- पिष्ट्वा काञ्जिकतोयेन घृतभृष्टा च पिण्डिका
- लोध्रस्य हरति क्षिप्रमभिष्यन्दमसृग्भवम् ३०
- शोथकण्ड्वादौ पिण्डी
- शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा
- धार्या चक्षुषि संयोगाच्छोथकण्डूव्यथाऽपहा ३१
- बिडालकविधिः
- बिडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जितः
- तस्य मात्रा परिज्ञेया मुखलेपविधानवत् ३२
- सर्व नेत्रामयेषु लेपः
- यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यः समांशकैः
- जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः ३३
- तत्रैवान्ये षड् लेपाः
- रसाञ्जनेन वा लेपः पथ्याविश्वदलैरपि
- कुमारिकाऽग्निपत्रैर्वा दाडिमीपल्लवैरपि
- वचाहरिद्रा निम्बैर्वा तथा नागरगैरिकैः ३४
- सद्योनेत्रपीडाहरो लेपः
- दग्ध्वा ससैन्धवं लोध्रं मधूच्छिष्टयुते घृते
- पिष्टमञ्जनलेपाभ्यां सद्यो नेत्ररुजाऽपहम् ३५
- नेत्रपीडाहरो लेपः
- लोहस्य पात्रे संघृष्टो रसो निम्बफलोद्भवः
- किञ्चिद्घनो बहिर्लेपान्नेत्रबाधां व्यपोहति ३६
- अर्मनाशको लेपः
- संचूर्ण्य मरिचं केशराजस्वरसमर्दनात्
- लेपनादर्मणां नाशं करोत्येष प्रयोगराट् ३७
- अञ्जननामिकोपरि प्रतिसारणम्
- स्विन्नां भित्वा विनिष्पीड्य भिन्नामञ्जननामिकाम्
- शिलैलानतसिन्धूत्थैः सक्षौद्रै ः! प्रतिसारयेत् ३८
- अथ तर्पणविधिः
- तत्रादौ तर्पणयोग्यनेत्रलक्षणम्
- अथ तर्पणकं वच्मि नेत्रतृप्तिकरं परम्
- यद्रू क्षं परिशुष्कं च नेत्रं कुटिलमाविलम् ३९
- शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलन संयुतम्
- तिमिरार्जुनशुक्राद्यैरभिष्यन्दाधिमन्थकैः ४०
- शुष्काक्षिपाकशोथाभ्यां युक्तं वातविपर्ययैः
- तन्नेत्रं तर्पणे योज्यं नेत्ररोगविशारदैः
- तर्पणे वर्ज्यविषयाः
- दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च
- अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते ४१
- तर्पणप्रक्रिया
- वातातपरजोहीने देशे चोत्तानशायिनः
- आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ४२
- समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः
- पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः
- अथवा शतधौतेन सर्पिषा क्षीरजेन वा ४३
- पूरणमात्रा
- निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि
- पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः ४४
- तर्पणे स्नेहधारणमात्राः
- धारयेद्वर्त्मरोगेषु वाङ्मात्राणां शतं बुधः ४५
- स्वच्छे कफे सन्धिरोगे मात्रापञ्चशतं हितम्
- शुक्ले च षट्शतं कृष्णरोगे सप्तशतं मतम् ४६
- दृष्टिरोगेष्वष्टशतमधिमन्थे सहस्रकम्
- सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् ४७
- तर्पणोत्तरं कर्त्तव्यं कर्म
- स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
- यथास्वं धूमपानेन कफमस्य विशोधयेत् ४८
- तर्पणकर्मावधिः
- एकाहं वा त्र्! यहं वाऽपि पञ्चाहं चेष्यते परम् ४९
- तर्पणे सम्यक् तृप्तिलक्षणम्
- तर्पणे तृप्तिलिङ्गानि नेत्रेष्वेतानि भावयेत्
- सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
- निवृत्तिर्व्याधिशान्तिश्च क्रियालाघवमेव च ५०
- अतितर्पितलक्षणम्
- अथ साश्रु गुरु स्निग्धं नेत्रं स्यादतितर्पितम् ५१
- हीनतर्पितलक्षणम्
- रूक्षमस्राविलं रुग्णं नेत्रं स्याद्धीनतर्पितम् ५२
- हीनातितर्पितयोश्चिकित्सा
- रूक्षस्निग्धोपचाराभ्यामेतयोः स्यात्प्रतिक्रिया ५३
- पुटपाकविधानम्
- अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकस्य साधनम्
- द्वौ बिल्वमात्रौ मांसस्य पिण्डौ स्निग्धौ सुपेषितौ ५४
- द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
- तदेकस्थं समालोड्य पत्रैः सुपरिवेष्टितम्
- पुटपाकेन तत्पक्त्वा गृह्णीयात्तद्र सं बुधः
- दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः ५५
- पुटपाकभेदाः
- स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा ५६
- त्रिविधपुटपाकविषयाः
- हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि हि लेखनः
- दृष्टेर्बलार्थमितरः पित्तासृग्व्रणवातनुत् ५७
- स्नेहनपुटपाकः
- सर्पिर्मांसवसामज्जामेदःस्वाद्वौषधैः कृतः
- स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते दृशोः ५८
- लेखनपुटपाकः
- जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंयुतैः
- कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः
- समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
- लेखनो वाक्शतं धार्यस्तस्यैतावद्विधारणम् ५९
- रोपणपुटपाकः
- स्तन्यजाङ्गलमध्वाज्यतिक्तकद्र व्यपाचितः
- लेखनात्त्रिगुणो धार्यः पुटपाकस्तु रोपणः ६०
- व्यापत्तिदर्शनकर्त्तव्योपदेशः
- वितरेत्तर्पणोक्तां तु क्रियां व्यापत्तिदर्शने ६१
- अथाञ्जनविधानम्
- तत्रादावञ्जनयोग्य समयाः
- अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
- हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ६२
- पूर्वाह्णे चापराह्णेच ग्रीष्मे शरदि चेष्यते
- वर्षासु नाभ्रे नात्युष्णे वसन्ते च सदैव हि ६३
- अञ्जनभेदाः
- लेखनं रोपणं चैव तथा स्यात्स्नेहनाञ्जनम् ६४
- लेखनरोपणप्रसादनाञ्जनानि
- लेखनं क्षारतीक्ष्णाम्लरसैरञ्जनमिष्यते
- कषायतिक्तरसयुक्सस्नेहं रोपणं मतम्
- मधुरं स्नेहसम्पन्नमञ्जनं च प्रसादनम् ६५
- त्रिविधाञ्जनस्य स्वरूपाणि
- गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि च
- कुर्याच्छलाकयाऽङ्गुल्या हीनानि च यथोत्तरम् ६६
- अञ्जनानर्हा जनाः
- श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
- अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते ६७
- वर्त्तिप्रमाणानि
- हरेणुमात्रां कुर्वीत वर्त्तिं तीक्ष्णाञ्जने भिषक्
- प्रमाणं मध्यमेऽध्यर्द्धं द्विगुणं तु मृदौ भवेत् ६८
- रसक्रियाप्रमाणानि
- रसक्रिया तूत्तमा स्यात्त्रिविडङ्गमिता हिता
- मध्यमा द्विविडङ्गा स्याद्धीना त्वेकविडङ्गिका ६९
- चूर्णाञ्जनमात्रा
- वैरेचनिकचूर्णं तु द्विशलाकं विधीयते
- मृदौ तु त्रिशलाकं स्याच्चतस्रः स्नैहिकेऽञ्जने ७०
- अञ्जनशलाकास्वरूपम्
- मुखयोः कुण्ठिता श्लक्ष्णा शलाकाऽष्टाङ्गुलोन्मिता
- अश्मजा धातुजा वा स्यात्कलायपरिमण्डला ७१
- कर्मानुसारेण शलाकास्वरूपम्
- ताम्रलोहाश्मसञ्जाता शलाका लेखने मता
- सुवर्णरजतोद्भूता शलाका स्नेहने मता
- अङ्गुली च मृदुत्वेन कथिता रोपणे बुधैः ७२
- अञ्जनसमयनिर्देशः
- सायं प्रातर्वाञ्जनं स्यात्तत्सदा नैव कारयेत् ७३
- नातिशीतोष्णवाताभ्रवेलायां सम्प्रशस्यते
- कृष्णभागादधः कुर्यादपाङ्गं यावदञ्जनम् ७४
- चन्द्रो दया वर्त्तिः
- शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
- पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ७५
- छागीक्षीरेण संपिष्य वर्त्तिं कृत्वा यवोन्मिताम्
- हरेणुमात्रां संघृष्य जलैः कुर्यादथाञ्जनम् ७६
- तिमिरं मांसवृद्धिं च काचं पटलमर्बुदम्
- रात्र्! यान्ध्यं वार्षिकं पुष्पं वर्त्तिश्चन्द्रो दया जयेत् ७७
- करञ्जवर्त्तिः
- पलाशपुष्पस्वरसैर्बहुशः परिभाविता
- करञ्जीबीजवर्त्तिस्तु दृष्टेः पुष्पं विनाशयेत् ७८
- समुद्र फेनादिवर्त्तिः
- समुद्र फेनसिन्धूत्थशङ्खदक्षाण्डवल्कलैः
- शिग्रुबीजयुतैर्वर्त्तिः शुक्रादींश्छस्त्रवल्लिखेत् ७९
- दन्तवर्त्तिः
- दन्तैर्हस्तिवराहोष्ट्रगोहयाजखरोद्भवैः
- शङ्खमुक्ताऽम्भोधिफेनयुतैः सर्वैर्विचूर्णितैः
- दन्तवर्त्तिः कृता श्लक्ष्णा शुक्राणां नाशिनी परा ८०
- तन्द्रा नाशिनी वर्त्तिः
- नीलोत्पलं शिग्रुबीजं नागकेशरकं तथा
- एतत्कल्कैः कृता वर्त्तिरतिनिद्रा ं! निवारयेत् ८१
- पुष्पवर्त्तिः
- तिलपुष्पाण्यशीतिः स्युः षष्टिसंख्याः कणाकणाः ८२
- जातीकुसुमपञ्चाशन्मरिचानि च षोडश
- सूक्ष्मं पिष्ट्वा जले वर्त्तिः कृता कुसुमिकाऽभिधा ८३
- तिमिरार्जुनशुक्राणां नाशिनी मांसवृद्धिहृत्
- एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्धहरेणुका ८४
- रसाञ्जनवर्त्तिः
- रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
- गोशकृद्र ससंयुक्ता वर्त्तिर्नक्तान्ध्यनाशिनी ८५
- धात्र्! यादिवर्त्तिः
- धात्र्! यक्षपथ्याबीजानि एकद्वित्रिगुणानि च
- पिष्ट्वा वर्त्तिं जलैः कुर्यादञ्जनं द्विहरेणुकम्
- नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा ८६
- रसक्रिया
- तुत्थमाक्षिकसिन्धूत्थं सिताशङ्खमनः शिलाः
- गैरिकोदधिफेनं च मरिचं चेति चूर्णयेत् ८७
- संयोज्य मधुना कुर्यादञ्जनार्थं रसक्रियाम्
- वर्त्मरोगार्मतिमिरकाचशुक्रहरां पराम् ८८
- पुष्पहरी रसक्रिया
- वटक्षीरेण संयुक्तो मुख्यःकर्पूरजःकणः
- क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् ८९
- अतिनिद्रा हरमञ्जनम्
- क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
- अतिनिद्रा शमं याति तमः सूर्योदयादिव ९०
- प्रबोधाञ्जनम्
- जातीपुष्पं प्रवालं च मरिचं कटुकी वचा
- सैन्धवं बस्तमूत्रेण पिष्टं तन्द्रा घ्नमञ्जनम् ९१
- अन्यत् प्रबोधाञ्जनम्
- शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
- अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ९२
- दार्व्यादिरसक्रिया
- दार्वी पटोलं मधुकं सनिम्बं पद्मकोत्पलम् ९३
- प्रपौण्डरीकं चैतानि पचेत्तोये चतुर्गुणे
- विपाच्य पादशेषं तु शृतं नीत्वा पुनः पचेत् ९४
- शीते तस्मिन्मधुसितां दद्यात्पादांशिकां नरः
- रसक्रियैषा दाहाश्रुरक्तरागरुजोहरेत् ९५
- रसाञ्जनादिरसक्रिया
- रसाञ्जनं सर्जरसो जातीपुष्पं मनः शिला
- समुद्र फेनो लवणं गैरिकं मरिचानि च ९६
- एतत्समांशंमधुना पिष्ट्वा प्रक्लिन्नवर्त्मनि
- अञ्जनं क्लेदकण्डूघ्नंपक्ष्मणां च प्ररोहणम् ९७
- गुडूच्यादिरसाञ्जनम्
- गुडूचीस्वरसः कर्षः क्षौद्रं स्यान्माषकोन्मितम्
- सैन्धवं क्षौद्र तुल्यं स्यात्सर्वमेकत्र मर्दयेत् ९८
- अञ्जयेन्नयनं तेन पिल्लार्मतिमिरं जयेत्
- काचं कण्डूं लिङ्गनाशंशुक्लकृष्णगतान्गदान् ९९
- पुनर्नवादिरसाञ्जनम्
- दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावं च सर्पिषा
- पुष्पं तैलेन तिमिरं काञ्जिकेन निशान्ध्यताम्
- पुनर्नवा जयेदाशु भास्करस्तिमिरं यथा १००
- बब्बूलरसाञ्जनम्
- बब्बूलदलनिःक्वाथो लेहीभूतस्तदञ्जनात्
- नेत्रस्रावं जयत्येष मधुयुक्तो न संशयः १०१
- हिज्जलरसाञ्जनम्
- हिज्जलस्य फलं घृष्ट्वा पानीये नित्यमञ्जनम्
- चक्षुःस्रावोपशान्त्यर्थं कार्यमेतन्महौषधम् १०२
- नेत्रप्रसादनं कतकादिरसाञ्जनम्
- कतकस्यफलं घृष्ट्वा मधुना नेत्रमञ्जयेत्
- ईषत्कर्पूरसहितं स्मृतं नेत्रप्रसादनम् १०३
- शिरोत्पाते रसक्रिया
- सर्पिः क्षौद्रं चाञ्जनं स्याच्छिरोत्पातस्य शान्तये १०४
- कृष्णसर्पवसारसक्रिया
- कृष्णसर्पवसा शङ्खः कतकात्फलमञ्जनम्
- रसक्रियेयमचिरादन्धानां दर्शनप्रदा १०५
- लेखनाञ्जनम्
- दक्षाण्डत्वक्शिलाकाचशंखचन्दनसैन्धवैः
- द्र व्यैरञ्जनयोगोऽय पुष्पार्मादिविलेखनः १०६
- रात्र्! यान्ध्यनाशकमञ्जनम्
- कणा छागयकृन्मध्ये पक्त्वा नेत्रयुगेऽञ्जिता
- अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् १०७
- नक्तान्ध्यहरचूर्णाञ्जनम्
- शाणार्धं मरिचं द्वौ च पिप्पल्यर्णवफेनयोः
- शाणार्धं सैन्धवं शाणा नव सौवीरकाञ्जनात् १०८
- पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्
- कण्डूकाचकफार्त्तानां मलानां च विशोधनम् १०९
- रोपणाञ्जनमृदुचूर्णाञ्जनम्
- शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
- गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् ११०
- शुष्कं च तज्जलं सर्वं पर्पटीसंनिभं भवेत्
- विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः १११
- कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
- अञ्जयेन्नयने तेन सर्वदोषहरं हि तत्
- सर्वरोगहरं चूर्णं चक्षुषोः सुखकारि च ११२
- प्रसादनाञ्जने सौवीराञ्जनम्
- अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
- सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् ११३
- अञ्जयेत्तेन नयने प्रत्यहं चक्षुषोर्हितम्
- सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः ११४
- दृष्टिप्रसादनी नाम शलाका
- त्रिफलाभृङ्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा ११५
- गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
- तच्छलाका हरत्येव सर्वान्नेत्रभवान्गदान् ११६
- प्रत्यञ्जनम्
- गतदोषमपेताश्रु संपश्यन्सम्यगम्भसि
- प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः ११७
- अञ्जने नेत्रधावननिषेधः
- न वाऽनिर्गतदोषेऽक्ष्णि धावनं संप्रयोजयेत्
- प्रत्यञ्जनं तीक्ष्णतप्ते नेत्रे चूर्णं प्रसादनम् ११८
- नयनामृताञ्जनम्
- शुद्धे नागे द्रुते तुल्यं शुद्धं सूतं विनिक्षिपेत्
- कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ११९
- दशमांशेन कर्पूरं तस्मिंश्चूर्णे प्रदापयेत्
- एतत्प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् १२०
- सर्पविषहरमञ्जनम्
- जयपालभवां मज्जां भावयेन्निम्बुकद्र वैः
- एकविंशतिवेलं तत्ततो वर्त्तिं प्रकल्पयेत् १२१
- मनुष्यलालया घृष्ट्वा ततो नेत्रे तयाऽञ्जयेत्
- सर्पदष्टविषं जित्वा संजीवयति मानवम् १२२
- नेत्रज्योतिर्वर्द्धकोपदेशः
- भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्दीयते यदि
- जाता रोगा विनश्यन्ति तिमिराणि तथैव च १२३
- दृष्टिवर्द्धकोपायः
- शीताम्बुपूरितमुखः प्रतिवासरं यः कालत्रयेण नयनद्वितयं जलेन
- आसिञ्चति ध्रुवमसौ न कदाचिदक्षिरोगव्यथाविधुरतां भजते मनुष्यः १२४
- ग्रन्थकर्तृकृतं नम्रनिवेदनम्
- आयुर्वेदसमुद्र स्य गूढार्थमणिसंचयम्
- ज्ञात्वा कैश्चिद् बुधैस्तैस्तु कृता विविधसंहिताः १२५
- किञ्चिदर्थं ततो नीत्वा कृतेयं संहिता मया
- कृपाकटाक्षनिक्षेपमस्यां कुर्वन्तु साधवः १२६
- ग्रन्थाध्ययनफलम्
- विविधगदार्तिदरिद्र नाशनं या हरिरमणीव करोति योगरत्नैः
- विलसतु शार्ङ्गधरस्य संहिता सा जन हृदयेषु सरोजनिर्मलेषु १२७
- उपसंहारः
- अल्पायुषामल्पधियामिदानीं कृतं समस्तश्रुतिपाठशक्त्या
- तदत्र युक्तं प्रतिबीजमात्रमभ्यस्यतामात्महितं प्रयत्नात् १२८
- इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे नेत्रप्रसादनविधिर्नाम त्रयोदशोऽध्यायः समाप्तः १३
- समाप्तेयं शार्ङ्गधर संहिता