शार्ङ्गधरसंहिता/पूर्वखण्डम्
- पूर्वखण्डे प्रथमोऽध्यायः
- मङ्गलाचरणम्
- श्रियं स दद्याद्भवतां पुरारिर्यदङ्गतेजःप्रसरे भवानी
- विराजते निर्मलचन्द्रि कायां महौषधीव ज्वलिता हिमाद्रौ १
- समूलं ग्रन्थप्रयोजनम्
- प्रसिद्धयोगा मुनिभिः प्रयुक्ताश्चिकित्सकैर्ये बहुशोऽनुभूताः
- विधीयते शार्ङ्गधरेण तेषां सुसंग्रहः सज्जनरञ्जनाय २
- रोगनिश्चयपूर्वकं चिकित्सा
- हेत्वादिरूपाकृतिसात्म्यजातिभेदैः समीक्ष्यातुरसर्वरोगान्
- चिकित्सितं कर्षणबृंहणाख्यं कुर्वीत वैद्यो विधिवत्सुयोगः ३
- ओषधिप्रभावाः
- दिव्यौषधीनां बहवः प्रभेदा वृन्दारकाणामिव विस्फुरन्ति
- ज्ञात्वेति संदेहमपास्य धीरैः संभावनीया विविधप्रभावाः ४
- ग्रन्थप्रयोजनम्
- स्वाभाविकागन्तुककायिकान्तरा रोगा भवेयुः किल कर्मदोषजाः
- तच्छेदनार्थं दुरितापहारिणः श्रेयोमयान्योगवरान्नियोजयेत् ५
- ग्रन्थमाहात्म्यम्
- प्रयोगानागमात्सिद्धान्प्रत्यक्षादनुमानतः
- सर्वलोकहितार्थाय वक्ष्याम्यनतिविस्तरात् ६
- पूर्वखण्डाध्यायानुक्रमः
- प्रथमं परिभाषा स्याद्भैषज्याख्यानकं तथा
- नाडीपरीक्षाऽदिविधिस्ततोदीपनपाचनम् ७
- ततः कलाऽदिकाख्यानमाहारादिगतिस्तथा
- रोगाणां गणना चैव पूर्वखण्डोऽयमीरितः ८
- मध्यमखण्डाध्यायानुक्रमः
- स्वरसः क्वाथफाण्टौ च हिमः कल्कश्च चूर्णकम्
- तथैव गुटिकालेहौ स्नेहाः संधानमेव च
- धातुशुद्धी रसाश्चैव खण्डोऽय मध्यमः स्मृतः ९
- उत्तरखण्डाध्यायानुक्रमः
- स्नेहपानं स्वेदविधिर्वमनं च विरेचनम्
- ततस्तु स्नेहबस्तिः स्यात्ततश्चापि निरूहणम् १०
- ततश्चाप्युत्तरो बस्तिस्ततो नस्यविधिर्मतः
- धूमपानविधिश्चैव गण्डूषादिविधिस्तथा ११
- लेपादीनां विधिः ख्यातस्तथा शोणितविस्रुतिः
- नेत्रकर्मप्रकारश्च खण्डः स्यादुत्तरस्त्वयम् १२
- ग्रन्थसंख्या
- द्वात्रिंशत्संमिताध्याययुक्तेयं संहिता स्मृता
- षड्विंशतिशतान्यत्र श्लोकानां गणितानि च १३
- मानस्यावश्यकता
- न मानेन विना युक्तिर्द्र व्याणां जायते क्वचित्
- अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया १४
- मागधमानपरिभाषा
- त्रसरेणुर्बुधैः प्रोक्तस्त्रिंशता परमाणुभिः
- त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते १५
- परमाणोर्वंश्याश्च लक्षणम्
- जिआ!लान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः
- तस्य त्रिंशत्तमो भागः परमाणुः स कथ्यते १६
- जालान्तरगतैः सूर्यकरेर्वंशी विलोक्यते १७
- मरीचिप्रभृतिसंज्ञाः
- षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिस्तु राजिका
- तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः १८
- यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्
- षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यकौ १९
- शाणकोलसंज्ञे
- माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते
- टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते
- क्षुद्र को वटकश्चैव द्र ङ्क्षणः स निगद्यते २०
- कर्षस्तत्पर्यायाश्च
- कोलद्वयं च कर्षः स्यात्स प्रोक्तः पाणिमानिका २१
- अक्षं पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्
- विडालपदकं चैव तथा षोडशिका मता २२
- करमध्यो हंसपदं सुवर्णं कवलग्रहः
- उदुम्बरं च पर्यायैः कर्ष एव निगद्यते २३
- अर्द्धपलपल संज्ञे
- स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा
- शुक्तिभ्यां च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका
- प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीत्तर्यते २४
- प्रसृतिकुडवादिशरावसंज्ञा
- पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतश्च निगद्यते
- प्रसृतिभ्यामञ्जलि स्यात्कुडवोऽद्धशरावकः २५
- अष्टमानं च स ज्ञेयः कुडवाभ्यां च मानिका
- शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः २६
- प्रस्थाढकसंज्ञे
- शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थैस्तथाऽढकम्
- भाजनं कंसपात्रं च चतुःषष्टिपलं च तत् २७
- द्रो णद्रो णीसंज्ञे
- चतुर्भिराढकैद्रो र्णः! कलशो नल्वणार्मणौ
- उन्मानश्च घटो राशिद्रो र्ण!पर्यायसंज्ञकाः २८
- द्रो णाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः
- शूर्पाभ्यां च भवेद् द्रो णी वाही गोणी च सा स्मृता २९
- खारीसंज्ञा
- द्रो णीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः
- चतुःसहस्रपलिका षण्णवत्यधिका च सा ३०
- भारतुलासंज्ञे
- पलानां द्विसहस्त्रं च भार एकः प्रकीर्त्तितः
- तुला पलशतं ज्ञेया सर्वत्रैवैष निश्चयः ३१
- यथोत्तरचतुर्गुणमाषादयः
- माषटङ्काक्षबिल्वानि कुडवः प्रस्थमाढकम्
- राशिर्गोणीः खारिकेति यथोत्तरचतुर्गुणाः ३२
- द्र वार्द्र शुष्कद्र व्याणामनुक्तमानपरिभाषा
- गुज्जाऽदिमानमारभ्य यावत्स्यात्कुडवस्थितिः
- द्र वार्द्र शुष्कद्र व्याणां तावन्मानं समं मतम् ३३
- द्र वार्द्र योर्द्विगुणग्रहणार्थं परिभाषा
- प्रस्थादिमानमारभ्य द्विगुणं तत् द्र वार्द्र योः
- मानं तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम् ३४
- द्र वमानार्थकुडवपात्रनिर्माणप्रकारः
- मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्
- विस्तीर्णं च तथोच्चं च तन्मानं कुडवं वदेत् ३५
- योगपरिभाषा
- यदौषधं तु प्रथमं यस्य योगस्य कथ्यते
- तन्नाम्नैव स योगो हि कथ्यतेऽत्र विनिश्चयः ३६
- मात्रापरिभाषा
- स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम्
- प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ३७
- कालिङ्गमानकल्पनायां हेतवः
- यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ
- अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता ३८
- कालिङ्गमानम्
- यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः ३९
- यवद्वयेन गुञ्जा स्यात् त्रिगुञ्जो वल्ल उच्यते
- माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित् ४०
- स्याच्चतुर्माषकः शाणः स निष्कष्टङ्क एव च
- गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकः ४१
- चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः
- चतुष्पलैश्च कुडवं प्रस्थाद्याः पूर्ववन्मताः ४२
- मानस्य द्वैविध्यम्
- कालिङ्गं मागधं चैव द्विविधं मानमुच्यते
- कालिङ्गान्मागधं श्रेष्ठं मानं मानविदो विदुः ४३
- औषधपरिभाषौ तत्र द्र व्याणां युक्तायुक्तविचारः
- नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु
- विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः ४४
- सदाद्रा र्ण्य!द्विगुणानि द्र व्याणि
- गुडूची कुटजो वासा कूष्माण्डश्च शतावरी
- अश्वगन्धा सहचरी शतपुष्पा प्रसारिणी ४५
- प्रयोक्तव्या सदैवाद्रा र्! द्विगुणा नैव कारयेत् ४६
- नूतनद्र व्यस्य प्राधान्यम्
- शुष्कं नवीनं यद् द्र व्यं योज्यं सकलकर्मसु
- आद्र रं! च द्विगुणं युंज्यादेष सर्वत्र निश्चयः ४७
- अनुक्तावस्थायां परिभाषाविधिः
- कालेऽनुक्ते प्रभातं स्यादङ्गेऽनुक्ते जटा भवेत्
- भागेऽनुक्ते तु साम्यं स्यात्पात्रेऽनुक्ते च मृण्मयम्
- द्र वेऽनुक्ते जलं ग्राह्यं तैलेऽनुक्ते तिलोद्भवम् ४८
- पुनरुक्तद्र व्यमानव्यवस्था
- एकमप्यौषधं योगे यस्मिन्यत्पुनरुच्यते
- मानतो द्विगुणं प्रोक्तं तद् द्र व्यं तत्त्वदर्शिभिः ४९
- रक्तश्वेतचन्दनादिव्यवस्था
- चूर्णस्नेहासवा लेहाः प्रायशश्चन्दनान्विताः
- कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् ५०
- प्रसिद्धद्र व्याणां कालातिक्रमेण हीनगुणत्वम्
- गुणहीनं भवेद्वर्षादूर्ध्वं तद्रू पमौषधम्
- मासद्वयात्तथा चूर्णं हीनवीर्यत्वमाप्नुयात् ५१
- हीनत्वं गुटिकालेहौ लभेते वत्सरात्परम्
- हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकात्तथा ५२
- ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम्
- पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः ५३
- रोगानुसारियुक्तायुक्तद्र व्यविचारः
- व्याधेरयुक्तं यद् द्र व्यं गणोक्तमपि तत्त्यजेत्
- अनुक्तमपि यद्युक्तं योजयेत्तत्र तद् बुधः ५४
- द्र व्येषु स्थानभेदेन गुणभेदः
- आग्नेया विन्ध्यशैलाद्याः सौम्यो हिमगिरिर्मतः
- अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः
- अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च ५५
- द्र व्याणां ग्रहणविधिः
- गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे ५६
- आदित्यसंमुखो मौनी नमस्कृत्य शिवं हृदि
- साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम् ५७
- कुत्सितस्थानोद्भवद्र व्याणां परित्यागः
- वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
- जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसिद्धिदाः ५८
- कार्यभेदेन द्र व्यग्रहणे ऋतुविशेषः
- शरद्यखिलकार्यार्थं ग्राह्यं सरसमौषधम्
- विरेकवमनार्थं च वसन्तान्ते समाहरेत् ५९
- अनुक्तावयवद्र व्याणां ग्रहणेऽङ्गविचारः
- अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो बुधैः
- गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान् ६०
- न्यग्रोधादेस्त्वचो ग्राह्याः सारः स्याद्वीजकादितः
- तालीसादेश्च पत्राणि फलं स्यात्त्रिफलादितः
- धातक्यादेश्च पुष्पाणि स्नुह्यादेः क्षीरमाहरेत् ६१
- इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे परिभाषाकथनं नाम प्रथमोऽध्यायः
- अथ द्वितीयोऽध्यायः
- औषधभक्षणार्हकालस्य सामान्यनिर्देशः
- भैषज्यमभ्यवहरेत्प्रभाते प्रायशो बुधः
- कषायांश्च विशेषेण तत्र भेदस्तु दर्शितः १
- औषधभक्षणे पञ्चविधकालनिर्देशः
- ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम्
- किंचित्सूर्योदये जाते तथा दिवसभोजने २
- सायन्तने भोजने च मुहुश्चापि तथा निशि ३
- तत्र प्रथमः कालः
- प्रायः पित्तकफोद्रे के विरेकवमनार्थयोः
- लेखनार्थं च भैषज्यं प्रभाते तत्समाहरेत्
- एवं स्यात् प्रथमः कालो भैषज्यग्रहणे नृणाम् ४
- द्वितीयः कालः
- भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते
- अरुचौ चित्रभोज्यैश्च मिश्रं रुचिरमाहरेत् ५
- समानवाते विगुणे मन्देऽग्नावग्निदीपनम्
- दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् ६
- व्यानकोपे च भैषज्यं भोजनान्ते समाहरेत्
- हिक्काऽक्षेपककम्पेषु पूर्वमन्ते च भोजनात् ७
- एवं द्वितीयकालश्च प्रोक्तो भैषज्यकर्मणि ८
- तृतीयः कालः
- उदाने कुपिते वाते स्वरभङ्गादिकारिणि
- ग्रासे ग्रासान्तरे देयं भैषज्यं सान्ध्यभोजने
- प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते च दीयते
- औषधं प्रायशो धीरैः कालोऽय स्यात्तृतीयकः १०
- चतुर्थः कालः
- मुहुर्मुहुश्च तृट्च्छर्दिहिक्काश्वासगरेषु च
- सान्नं च भेषजं दद्यादितिकालश्चतुर्थकः ११
- पञ्चमः कालः
- ऊर्ध्वजत्रुविकारेषु लेखने बृंहणे तथा
- पाचनं शमनं देयमनन्नं भेषजं निशि
- इति पञ्चमकालः स्यात् प्रोक्तो भैषज्यकर्मणि १२
- द्र व्ये रसादयः पञ्चावस्थाः
- द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च
- संबन्धेन क्रमादेताः पञ्चावस्थाः प्रकीर्त्तिताः १३
- तत्र रसः
- मधुरोऽम्ल पटुश्चैव कटुतिक्तकषायकाः
- इत्येते षड्रसाः ख्याता नानाद्र व्यसमाश्रिताः १४
- मधुरादिरसोत्पत्तिः
- धराऽम्बुक्ष्माऽनलजलज्वलनाकाशमारुतैः
- वाय्वग्निक्ष्माऽनिलैभूर्तद्वयै रसभवः क्रमात् १५
- गुणाः
- गुरुः स्निग्धश्च तीक्ष्णश्च रूक्षो लघुरिति क्रमात्
- धराऽम्बुवह्निपवनव्योम्नां प्रायो गुणाः स्मृताः १६
- एष्वेवान्तर्भवन्त्यन्ये गुणेषु गुणसंचयाः १७
- वीर्यम्
- वीर्यमुष्णं तथा शीतं प्रायशो द्र व्यसंश्रयम्
- तत्सर्वमग्नीषोमीयं दृश्यते भुवनत्रये
- अत्रैवान्तर्भविष्यन्ति वीर्याण्न्यानि यान्यपि १८
- विपाकः
- त्रिधा विपाको द्र व्यस्य स्वाद्वम्लकटुकात्मकः
- मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः १९
- कषायकटुतिक्तानां पाकः स्यात्प्रायशः कटुः
- मधुराज्जायते श्लेष्मा पित्तमम्लाच्च जायते २०
- कटुकाज्जायते वायुः कर्माणीति विपाकतः २१
- प्रभावः
- प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः
- समाऽपि कुरुते दोषत्रितयस्य विनाशनम् २२
- क्वचित्तु केवलं द्र व्यं कर्म कुर्यात्प्रभावतः
- ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा २३
- रसवीर्यादीनां पृथक् पृथक् प्रभावः
- क्वचिद्र सो गुणो वीर्यं विपाकः शक्तिरेव च
- कर्म स्वं स्वं प्रकुर्वन्ति द्र व्यमाश्रित्य ये स्थिताः २४
- ऋतुभेदेन वातादीनां संचयकोपोपशमाः
- चयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
- ऋतुषट्कं तदाख्यातं रवे राशिषु संक्रमात् २५
- राशिक्रमेण ऋतुषट्कनिर्देशः
- ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृण्मिथुनकर्कयोः
- सिंहकन्ये स्मृता वर्षास्तुलावृश्चिकयोः शरत्
- धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः २६
- वातादिदोषत्रयस्य चयकोपशमाः
- ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति
- वर्षासु चीयते पित्तं शरत्काले प्रकुप्यति २७
- हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति
- प्रायेण प्रशमं याति स्वयमेव समीरणः २८
- शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः २९
- यमदंष्ट्रासमयनिर्देशः
- कार्त्तिकस्य दिनान्यष्टावष्टावाग्रयणस्य च
- यमदंष्ट्रा समाख्याता स्वल्पभुक्तो हि जीवति ३०
- दोषाणामकालेऽपि भोजनादिना चयकोपापचयाः
- चयकोपशमा दोषा विहाराहारसेवनैः
- समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम् ३१
- वायोः प्रकोपशमहेतवः
- लघुरूक्षमिताहारादतिशीताच्छ्रमात्तथा
- प्रदोषे कामशोकाभ्यां भीचिन्तारात्रिजागरैः ३२
- अभिघातादपां गाहाज्जीर्णेऽन्ने धातुसंक्षयात्
- वायुः प्रकोपं यात्येभिः प्रत्यनीकैश्च शाम्यति ३३
- पित्तस्य प्रकोपशमहेतवः
- विदाहिकटुकाम्लोष्णभोज्यैरत्युष्णसेवनात्
- मध्याह्ने क्षुत्तृषारोधाज्जीर्यत्यन्नेऽद्धरात्रके
- पित्तं प्रकोपं यात्येभिः प्रत्यनीकैश्च शाम्यति ३४
- कफस्य प्रकोपशमहेतवः
- मधुरस्निग्धशीतादिभोज्यैर्दिवसनिद्र या
- मन्देऽग्नौ च प्रभाते च भुक्तमात्रे तथाऽश्रमात्
- श्लेष्मा प्रकोपं यात्येभिः प्रत्यनीकैश्च शाम्यति ३६
- इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे भैषज्याख्यानकं नाम द्वितीयोऽध्यायः
- अथ तृतीयोऽध्यायः
- नाडीपरीक्षाविधिः
- करस्याङ्गुष्ठमूले या धमनी जीवसाक्षिणी
- तच्चेष्टया सुखं दुःखं ज्ञेयं कायस्य पण्डितैः १
- प्रकुपितवातजनाडीलक्षणम्
- नाडी धत्ते मरुत्कोपे जलौकासर्पयोर्गतिम् २
- प्रकुपितपित्तजनाडीलक्षणम्
- कुलिङ्गकाकमण्डूकगतिं पित्तस्य कोपतः ३
- प्रकुपितकफजनाडीलक्षणम्
- हंसपारावतगतिं धत्ते श्लेष्मप्रकोपतः ४
- सन्निपातजनाडीलक्षणम्
- लावतित्तिरवर्त्तीनां गमनं सन्निपाततः ५
- द्विदोषजनाडीलक्षणम्
- कदाचिन्मन्दगमना कदाचिद्वेगवाहिनी द्विदोषकोपतो ज्ञेया ६
- असाध्यनाडीलक्षणम्
- हन्ति च स्थानविच्युता
- स्थित्वा स्थित्वा चलति या सा स्मृता प्राणनाशिनी
- अतिक्षीणा च शीता च जीवितं हन्त्यसंशयम् ७
- ज्वरे नाडीलक्षणम्
- ज्वरकोपे तु धमनी सोष्णा वेगवती भवेत् ८
- कामक्रोधचिन्ताभययुक्तानां नाडीलक्षणानि
- कामक्रोधोद्वेगवहा क्षीणा चिन्ताभयप्लुता ९
- मन्दाग्नि धातुक्षयरक्तप्रकोपसामावस्थासु नाडीलक्षणानि
- मन्दाग्नेः क्षीणधातोश्च नाडी मन्दतरा भवेत्
- असृक्पूर्णा भवेत्कोष्णा गुर्वी सामा गरीयसी १०
- दीप्ताग्नि सुखितक्षुधित तृप्तपुरुषाणां नाडीलक्षणानि
- लघ्वी वहति दीप्ताग्नेस्तथा वेगवती मता
- सुखितस्य स्थिरा ज्ञेया तथा बलवती स्मृता
- चपला क्षुधितस्य स्यात्तृप्तस्य वहति स्थिरा ११
- दूतपरीक्षा
- दूताः स्वजातयोऽव्यङ्गाः पटवो निर्मलाम्बराः
- सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः
- सुजातयः सुचेष्टाश्च सजीवदिशि संश्रिताः
- भिषजं समये प्राप्ता रोगिणः सुखहेतवे १२
- यिस्यां प्राणमरुद्वाति सा नाडी जीवसंयुता
- दूतस्य शकुनानि
- वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते
- न शुभं सौम्यशकुनं प्रदीप्तं च सुखावहम् १३
- वैद्यस्य शकुनानि
- चिकित्सां रोगिणः कर्तुं गच्छतो भिषजः शुभम्
- यात्रेयं सौम्यशकुनं प्रोक्तं दीप्तं न शोभनम् १४
- चिकित्स्यलक्षणम्
- निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन संयुतः
- चिकित्स्यो भिषजा रोगी वैद्यभक्तो जितेन्द्रि यः १५
- अथ शुभाशुभस्वप्नपरीक्षा
- तत्र दुःस्वप्नलक्षणानि
- स्वप्नेषु नग्नान्मुण्डांश्च रक्तकृष्णाम्बरावृतान्
- व्यङ्गांश्च विकृतान्कृष्णान्सपाशान्सायुधानपि
- बध्नतो निघ्नतश्चापि दक्षिणां दिशमाश्रितान्
- महिषोष्ट्रखरारूढान्स्त्रीपुंसो यस्तु पश्यति
- स स्वस्थो लभते व्याधिं रोगी यात्येव पञ्चताम् १६
- अन्यान्यपि दुःस्वप्नलक्षणानि
- अधो यो निपतत्युच्चाज्जलेऽग्नौ वा विलीयते
- श्वापदैर्हन्यते योऽपि मत्स्याद्यैर्गिलितो भवेत् १७
- यस्य नेत्रे विलीयेते दीपो निर्वाणतां व्रजेत्
- तैलं सुरां पिबेद्वाऽपि लोहं वा लभते तिलान् १८
- पक्वान्नं लभतेऽश्नाति विशेत्कूपं रसातलम्
- स स्वस्थो लभते रोगं रोगी यात्येव पञ्चताम् १९
- दुःस्वप्नदर्शने करणीयविधिः
- दुःस्वप्नानेवमादींश्च दृष्ट्वा ब्रूयान्न कस्यचित्
- स्नानं कुर्यादुषस्येव दद्याद्धेमतिलानयः २०
- पठेत्स्तोत्राणि देवानां रात्रौ देवालये वसेत्
- कृत्वैवंत्रिदिनं मर्त्यो दुःस्वप्नात्परिमुच्यते २१
- शुभस्वप्नलक्षणानि
- स्वप्नेषु यः सुरान्भूपाञ्जीवतः सुहृदो द्विजान्
- गोसमिद्धाग्नितीर्थानि पश्येत्सुखमवाप्नुयात् २२
- अन्यच्च
- तीर्त्वा कलुषनीराणि जित्वा शत्रुगणानपि
- आरुह्य सौधगोशैलकरिवाहान्सुखी भवेत् २३
- अन्यच्च
- शुभ्रपुष्पाणि वासांसि मांसमत्स्यफलानि च
- प्राप्यातुरः सुखी भूयात्स्वस्थो धनमवाप्नुयात् २४
- अन्यच्च
- अगम्यागमनं लेपो विष्ठया रुदितं मृतिः
- आममांसाशनं स्वप्ने धनारोग्याप्तये विदुः २५
- अन्यच्च
- जलौका भ्रमरी सर्पो मक्षिका वाऽपि यं दशेत्
- रोगी स भूयादुल्लाघः स्वस्थो धनमवाप्नुयात् २६
- इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे नाडीपरीक्षादिविधिर्नामतृतीयोऽध्यायः
- अथ चतुर्थोऽध्यायः
- तत्र दीपनपाचनादिकथनम्
- तत्र दीपनद्र व्यलक्षणम्
- पचेन्नामं वह्निकृच्च दीपनं तद्यथा मिशिः १
- पाचनदीपनपाचनद्र व्ययोर्लक्षणे
- पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम्
- नागकेशरवद्विद्याच्चित्रो दीपनपाचनः २
- संशमनद्र व्यलक्षणम्
- न शोधयति न द्वेष्टि समान्दोषांस्तथोद्धतान्
- समीकरोति विषमाञ्शमनं तद्यथामृता ३
- अनुलोमनद्र व्यलक्षणम्
- कृत्वा पाकं मलानां यद्भित्त्वा बन्धमधो नयेत्
- तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी ४
- स्रंसनद्र व्यलक्षणम्
- पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम्
- नयत्यधः स्रंसनं तद्यथा स्यात् कृतमालकः ५
- भेदनद्र व्यलक्षणम्
- मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः
- भित्त्वाऽध पातयति यद् भेदनं कटुकी यथा ६
- रेचनद्र व्यलक्षणम्
- विपक्वं यदपक्वं वा मलादि द्र वतां नयेत्
- रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा ७
- वमनद्र व्यलक्षणम्
- अपक्वपित्तश्लेष्माणौ बलादूर्ध्वं नयेत्तु यत्
- वमनं तद्धि विज्ञेयं मदनस्य फलं यथा ८
- शोधनद्र व्यलक्षणम्
- स्थानाद् बहिर्नयेदूर्ध्वमधो वा मलसंचयम्
- देहसंशोधनं तत्स्याद् देवदालीफलं यथा ९
- छेदनद्र व्यलक्षणम्
- श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्बलात्
- छेदनं तद्यथा क्षारा मरिचानि शिलाजतु १०
- लेखनद्र व्यलक्षणम्
- धातून्मलान्वा देहस्य विशोष्योल्लेखयेच्च यत्
- लेखनं तद्यथा क्षौद्रं नीरमुष्णं वचा यवाः ११
- ग्राहिद्र व्यलक्षणम्
- दीपनं पाचनं यत्स्यादुष्णत्वाद् द्र वशोषकम्
- ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली १२
- स्तम्भनद्र व्यलक्षणम्
- रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत्
- वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ १३
- रसायनद्र व्यलक्षणम्
- रसायनं च तज्ज्ञेयं यज्जराव्याधिनाशनम्
- यथाऽमृता रुदन्ती च गुग्गुलुश्च हरीतकी १४
- वाजीकरद्र व्यलक्षणम्
- यस्माद् द्र व्याद्भवेत्स्त्रीषु हर्षो वाजीकरं च तत्
- यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम् १५
- वीर्यवर्द्धकद्र व्यलक्षणम्
- यस्माच्छुक्रस्य वृद्धिः स्याच्छ्रुकलं हि तदुच्यते
- यथाऽश्वगन्धा मुसली शर्करा च शतावरी १६
- श्रुकस्य जनकानि रेचकानि च द्र व्याणि
- दुग्धं माषाश्च भल्लातफलमज्जाऽमलानि च
- प्रवर्त्तकानि कथ्यन्ते जनकानि च रेतसः १७
- वाजीकरद्र व्याणां विशेषः
- प्रवर्त्तनी स्त्री शुक्रस्य रेचनं बृहतीफलम्
- जातीफलं स्तम्भकं च शोषणी च हरीतकी १८
- सूक्ष्मद्र व्यलक्षणम्
- देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते
- तद्यथा सैन्धवं क्षौद्रं निम्बतैलं रुबूद्भवम् १९
- व्यवायिद्र व्यलक्षणम्
- पूर्वं व्याप्याखिलं कायं ततः पाकं च गच्छति
- व्यवायि तद्यथा भङ्गा फेनं चाहिसमुद्भवम् २०
- विकाशिद्र व्यलक्षणम्
- सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत्
- विश्लेष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वाः २१
- मदकारिद्र व्यलक्षणम्
- बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते
- तमोगुणप्रधानं च यथा मद्यसुराऽदिकम् २२
- प्राणहरद्र व्यलक्षणम्
- व्यवायि च विकाशि स्यात्सूक्ष्मं छेदि मदावहम्
- आग्नेयं जीवितहरं योगवाहि स्मृतं विषम् २३
- प्रमाथिद्र व्यलक्षणम्
- निजवीर्येण यद् द्र व्यं स्रोतोभ्यो दोषसञ्चयम्
- निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा २४
- अभिष्यन्दिद्र व्यलक्षणम्
- पैच्छिल्याद्गौरवाद् द्र व्यं रुद्ध्वा रसवहाः शिराः
- धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि २५
- इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे दीपनपाचनादिकथनं नाम चतुर्थोऽध्यायः
- अथ पञ्चमोऽध्यायः
- तत्र कलादिकाख्यानम् शिआ!रीरम्
- कलादिकाख्यानम्
- कलाः सप्ताशयाः सप्त धातवःसप्त तन्मलाः
- सप्तोपधातवः सप्त त्वचः सप्त प्रकीर्त्तिताः १
- त्रयो दोषा नवशतं स्नायूनां सन्धयस्तथा
- दशाधिकं च द्विशतमस्थ्नां च त्रिशतं तथा २
- सप्तोत्तरं मर्मशतं शिराः सप्तशतं तथा
- चतुर्विंशतिराख्याता धमन्यो रसवाहिकाः ३
- मांसपेश्यः समाख्याता नृणां पञ्चशतं बुधैः
- स्त्रीणां च विंशत्यधिकाः कण्डराश्चैव षोडश ४
- नृदेहे दश रन्ध्राणि नारीदेहे त्रयोदश
- एतत्समासतः प्रोक्तं विस्तरेणाधुनोच्यते ५
- अथ सप्त कलाः
- मांसासृङ्मेदसां तिस्रो यकृत्प्लीह्नोश्चतुर्थिका
- पञ्चमी च तथाऽन्त्राणां षष्ठी चाग्निधरा मता
- रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः ६
- अथ सप्ताशयाः
- श्लेष्माशयः स्यादुरसि तस्मादामाशयस्त्वधः ७
- ऊर्ध्वमग्न्याशयो नाभेर्वामभागे व्यवस्थितः
- तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः ८
- मलाशयस्त्वधस्तस्माद् बस्तिर्मूत्राशयस्त्वधः
- जीवरक्ताशयमुरो ज्ञेयाः सप्ताशयस्त्वमी ९
- नारीणां विशेषाशयाः
- पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः
- धरा गर्भाशयः प्रोक्तः स्तनौ स्तन्याशयौ मतौ १०
- अथ सप्तधातूनां नामानि तदुत्पत्तिक्रमश्च
- रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः
- जायन्तेऽन्योऽन्यतः सर्वे पाचिताः पित्ततेजसा ११
- रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
- मेदसोऽस्थि ततो मज्जा मज्जायाः शुक्रसंभवः १२
- अथ सप्तधातूनां मलास्तदुत्पत्तिक्रमश्च
- जिह्वानेत्रकपोलानां जलं पित्तं च रञ्जकम्
- कर्णविड्रसनादन्तकक्षामेढ्रादिजं मलम् १३
- नखनेत्रमलं वक्त्रे स्निग्धत्वं पिटिकास्तथा
- जायन्ते सप्तधातूनां मलान्येतान्यनुक्रमात् १४
- मतान्तरेण धातुमलाः
- कफः पित्तं मलं खेषु प्रस्वेदो नखरोम च
- नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः १५
- अथोपधातवः
- स्तन्यं रजश्च नारीणां काले भवति गच्छति
- शुद्धमांसभवः स्नेहः सा वसा परिकीर्त्तिता १६
- स्वेदो दन्तास्तथा केशास्तथैवौजश्च सप्तमम्
- इति धातुभवा ज्ञेया एते सप्तोपधातवः १७
- अथौजोलक्षणम्
- ओजः सर्वशरीरस्थं शीतं स्निग्धं स्थिरं मतम्
- सोमात्मकं शरीरस्य बलपुष्टिकरं मतम् १८
- अथ सप्त त्वचः
- ज्ञेयाऽवभासिनी पूर्वं सिध्मस्थानं च सा मता
- द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः १९
- श्वेता तृतीया संख्याता स्थानं चर्मदलस्य सा
- ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका २०
- पञ्चमी वेदनी ख्याता सर्वकुष्ठोद्भवस्ततः
- विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः २१
- स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा
- इति सप्त त्वचः प्रोक्ताः स्थूला व्रीहिद्विमात्रया २२
- अथ दोषास्तन्नामानि च
- वायुः पित्तं कफो दोषा धातवश्च मलास्तथा
- तत्रापि पञ्चधा ख्याताः प्रत्येकं देहधारणात् २३
- दोषाणां नामान्तरे कारणनिर्देशः
- शरीरदूषणाद्दोषा धातवो देहधारणात्
- वातपित्तकफा ज्ञेया मलिनीकरणान्मलाः २४
- तत्र वायोः प्राधान्यं तत्कार्यवर्णनञ्च
- पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः
- वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत् २५
- पवनस्तेषु बलवान्विभागकरणान्मतः
- रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः २६
- कार्यभेदेन वायोः पञ्चविधत्वम्
- मलाशये चरेत्कोष्ठे वह्निस्थाने तथा हृदि
- कण्ठे सर्वाङ्गदेशेषु वायुः पञ्चप्रकारतः २७
- वायोः पञ्च नामानि
- अपानः स्यात्समानश्च प्राणोदानौ तथैव च
- व्यानश्चेति समीरस्य नामान्युक्तान्यनुक्रमात् २८
- पित्तस्य विवरणम्
- पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम्
- कटु तिक्तरसं ज्ञेयं विदग्धं चाम्लतां व्रजेत् २९
- तस्य स्थानानि कार्याणि नामानि च
- अग्न्याशये भवेत्पित्तमग्निरूपं तिलोन्मितम्
- त्वचि कान्तिकरं ज्ञेयं लेपाभ्यङ्गादिपाचकम् ३०
- दृश्यं यकृति यत्पित्तं तद्र सं शोणितं नयेत्
- यत्पित्तं नेत्रयुगले रूपदर्शनकारि तत्
- यत्पित्तं हृदये तिष्ठेन्मेधाप्रज्ञाकरं च तत्
- पाचकं भ्राजकं चैव रञ्जकालोचके तथा
- साधकं चेति पञ्चैव पित्तनामान्यनुक्रमात् ३२
- कफस्य विवरणं कर्माणि च
- कफः स्निग्धो गुरुः श्वेतः पिच्छिलः शीतलस्तथा
- तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत् ३३
- कफस्य स्थाननामकथनम्
- कफश्चामाशये मूर्ध्नि कण्ठे हृदि च संधिषु
- तिष्ठन्करोति देहस्य स्थैर्यं सर्वाङ्गपाटवम् ३४
- क्लेदनः स्नेहनश्चैव रसनश्चावलम्बनः
- श्लेष्मकश्चेति नामानि कफस्योक्तान्यनुक्रमात् ३५
- स्नायोर्विवरणम्
- स्नायवो बन्धनं प्रोक्ता देहे मांसास्थिमेदसाम् ३६
- सन्धेर्विवरणम्
- सन्धयश्चाङ्गसन्धानाद्देहे प्रोक्ताः कफान्विताः ३७
- अस्थ्नो विवरणम्
- आधारश्च तथा सारः कायेऽस्थीनि बुधा विदुः ३८
- मर्मणो विवरणम्
- मर्माणि जीवाधाराणि प्रायेण मुनयो जगुः ३९
- शिराविवरणम्
- सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः ४०
- धमनीविवरणम्
- धमन्यो रसवाहिन्यो धमन्ति पवनं तनौ ४१
- मांसपेशीविवरणम्
- मांसपेश्यो बलाय स्युरवष्टम्भाय देहिनाम् ४२
- कण्डराविवरणम्
- प्रसारणाकुञ्चनयोरङ्गानां कण्डरा मताः ४३
- रन्ध्रविवरणम्
- नासानयनकर्णानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते
- मेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यते
- दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
- स्त्रीणां त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनः
- सूक्ष्मच्छिद्रा णि चान्यानि मतानि त्वचि जन्मिनाम् ४४
- फुफ्फुसप्लीहयकृतां विवरणम्
- तद्वामे फुफ्फुसं प्लीहा दक्षिणे च यकृन्मतम्
- उदानवायोराधारः फुफ्फुसं प्रोच्यते बुधैः
- रक्तवाहिशिरामूलं प्लीहा ख्याता महर्षिभिः
- यकृद्र ञ्जकपित्तस्य स्थानं रक्तस्य संश्रयः ४५
- तिल क्लिओ!मइ! वर्णनम्
- जलवाहिशिरामूलं तृष्णाऽच्छादनकं तिलम् ४६
- वृक्कवर्णनम्
- वृक्कौ तुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ४७
- वृषणलिङ्गयोर्वर्णनम्
- वीर्यवाहिशिराधारौ वृषणौ पौरुषावहौ
- गर्भाधानकरं लिङ्गमयनं वीर्यमूत्रयोः ४८
- हृदयवर्णनम्
- हृदयं चेतनास्थानमोजसश्चाश्रयो मतम् ४९
- शरीरपोषणव्यापारनिर्देशः
- शिरा धमन्यो नाभिस्थाः सर्वा व्याप्य स्थितास्तनुम्
- पुष्णन्ति चानिशं वायोः संयोगात्सर्वधातुभिः ५०
- प्राणवायोः शरीरव्यापारनिर्देशः
- नाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरम्
- कण्ठाद्बहिर्विनिर्याति पातुं विष्णुपदामृतम्
- पीत्वा चाम्बरपीयूषं पुनरायाति वेगतः
- प्रीणयन्देहमखिलं जीवयञ्जठरानलम् ५१
- आयुषो मृत्योश्च स्वरूपम्
- शरीरप्राणयोरेवं संयोगादायुरुच्यते
- कालेन तद्वियोगाच्च पञ्चत्वं कथ्यते बुधैः ५२
- तत्र वैद्यानां कृते कर्त्तव्यकर्मोपदेशः
- न जन्तुः कश्चिदमरः पृथिव्यां जायते क्वचित्
- अतो मृत्युरवार्यः स्यात्किन्तु रोगान्निवारयेत् ५३
- रोगनिवारणे साध्यादिभेदनिर्देशः
- याप्यत्वं याति साध्यस्तु याप्यो गच्छत्यसाध्यताम्
- जीवितं हन्त्यसाध्यस्तु नरस्याप्रतिकारिणः ५४
- धर्मादिसाधनतनो रक्षानिर्देशः
- धर्मार्थकाममोक्षाणां शरीरं साधनं यतः
- अतो रुग्भ्यस्तनुं रक्षेन्नरः कर्मविपाकवित्
- दोषाणां साम्यस्य वैषम्यस्य च फलम्
- धातवस्तन्मला दोषा नाशयन्त्यसमास्तनुम्
- समाः सुखाय विज्ञेया बलायोपचयाय च ५६
- सृष्टिक्रमः
- जगद्योनेरनिच्छस्य चिदानन्दैकरूपिणः
- पुंसोऽस्ति प्रकृतिर्नित्या प्रतिच्छायेव भास्वतः ५७
- प्रकृतिपुरुषयोगेन सृष्ट्युत्पत्तिनिर्देशः
- अचेतनाऽपि चैतन्ययोगेन परमात्मनः
- अकरोद्विश्वमखिलमनित्यं नाटकाकृति ५८
- बुद्धिसत्त्वाहङ्कारयोरुत्पत्तिनिर्देशः
- प्रकृतिर्विश्वजननी पूर्वं बुद्धिमजीजनत्
- इच्छामयीं महद्रू पामहङ्कारस्ततोऽभवत्
- त्रिविधः सोऽपि सञ्जातो रजः सत्त्वतमोगुणैः ५९
- त्रिगुणात्मकाहङ्कारस्य कार्याणि
- तस्मात्सत्त्वरजोयुक्तादिन्द्रि याणि दशाभवन्
- मनश्च जातं तान्याहुः श्रोत्रत्वङ्नयनं तथा ६०
- जिह्वाघ्राणवचोहस्तपादोपस्थगुदानि च
- पञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च
- कर्मेन्द्रि याणि पञ्च्व कथ्यन्ते सूक्ष्मबुद्धिभिः ६१
- तन्मात्रपञ्चकोत्पत्तिनिर्देशः
- तमः सत्त्वगुणोत्कृष्टादहङ्कारादथाभवत्
- तन्मात्रपञ्चकं तस्य नामान्युक्तानि सूरिभिः
- शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम्
- रसतन्मात्रकं गन्धतन्मात्रं चेति तद्विदुः ६२
- भूतपञ्चकस्योत्पत्तिनामनिर्देशः
- तन्मात्रपञ्चकात्तस्मात्संजातं भूतपञ्चकम्
- व्योमानिलानलजलक्षोणीरूपं च तन्मतम् ६३
- तन्मात्राणां विशेषाः
- शब्दः स्पर्शश्च रूपं च रसगन्धावनुक्रमात्
- तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः ६४
- इन्द्रि याणां विषयाः
- बुद्धीन्द्रि याणां पञ्चैव शब्दाद्या विषया मताः ६५
- कर्मेन्द्रि याणां विषया भाषादानविहारिताः
- आनन्दोत्सर्गकौ चैव कथितास्तत्त्वदर्शिभिः ६६
- चतुर्विंशतितत्त्ववर्णनम्
- तत्र प्रथमतत्त्वस्य प्रकृतेर्नामनिर्देशः
- प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा
- एतानि तस्या नामानि शिवमाश्रित्य या स्थिता ६७
- प्रकृतिविकृतिसंज्ञकस्य तत्त्वसप्तकस्य निर्देशः
- महानहङ्कृतिः पञ्चतन्मात्राणि पृथक्पृथक्
- प्रकृतिर्विकृतिश्चैव सप्तैतानि बुधा जगुः ६८
- दशेन्द्रि याणि चित्तं च महाभूतानि पञ्च च
- विकाराः षोडश ज्ञेयाः सर्वं व्याप्य जगत्स्थिताः ६९
- जीवस्वरूपनिर्देशः
- एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे
- जीवात्मा नियतो नित्यो वसति स्वान्तदूतवान् ७०
- स देही कथ्यते पापपुण्यदुःखसुखादिभिः
- व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः ७१
- देहिनो बन्धनानि
- कामक्रोधौ लोभमोहावहङ्कारश्च पञ्चमः
- दशेन्द्रि याणि बुद्धिश्च तस्य बन्धाय देहिनः ७२
- जीवस्य बन्धमोक्षयोर्दुःखसुखयोर्निर्देशः
- आप्नोति बन्धमज्ञानादात्मज्ञानाच्च मुच्यते
- तद्दुःखयोगकृद्व्याधिरारोग्यं तत्सुखावहम् ७३
- इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे कलादिकाख्यानं नाम पञ्चमोऽध्यायः
- अथ षष्ठोऽध्यायः
- तत्र आहारादिगतिकथनम्
- आहारस्य पाकक्रमनिर्देशः
- यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः
- माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः १
- आहारस्याम्लभाव ग्रहणीनयन कटुभावानां निर्देशः
- अथ पाचकपित्तेन विदग्धश्चाम्लतां व्रजेत्
- ततः समानमरुता ग्रहणीमभिनीयते
- ग्रहण्यां पच्यते कोष्ठवह्विना जायते कटुः २
- आहारस्य रसामावस्थयोनिर्देशः
- रसो भवति संपक्वादपक्वादामसंभवः ३
- परिपक्वस्य रसस्य कार्याणि
- वह्नेर्बलेन माधुर्यं स्निग्धतां याति तद्र सः
- पुष्णाति धातूनखिलान्सम्यक्पक्वोऽमृतोपमः ४
- आमरसस्य कार्याणि
- मन्दबह्निविदग्धश्च कटुश्चाम्लो भवेद्र सः
- विषभावं व्रजेद्वाऽपि कुर्याद्वा रोगसंकरम् ५
- आहारस्य सारमलपदार्थयोर्निर्देशादिकम्
- आहारस्य रसः सारः सारहीनो मलद्र वः
- शिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात् ६
- तत्किट्टं च मलं ज्ञेयं तिष्ठेत्पक्वाशये च तत्
- वलित्रितयमार्गेण यात्यपानेन नोदितम्
- प्रवाहिणी सर्जनी च ग्राहिकेति वलित्रयम् ७
- रसस्य रक्तत्वनिर्देशः
- रसस्तु हृदयं याति समान मरुतेरितः
- रञ्जितः पाचितस्तत्र पित्तेनायाति रक्तताम् ८
- रक्तस्य प्राधान्यस्वरूपयोर्निर्देशः
- रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम्
- स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् ९
- रसादिधातूनां पाकक्रमः
- पाचिताः पित्ततापेन रसाद्या धातवः क्रमात्
- शुक्रत्वं यान्ति मासेन तथा स्त्रीणां रजो भवेत् १०
- गर्भोत्पत्तिनिर्देशः
- कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः
- गर्भःसंजायते नार्याः स जातो बाल उच्यते ११
- स्त्रीपुंनपुंसकोत्पत्तौ हेतुनिर्देशः
- आधिक्ये रजसः कन्या पुत्रः शुक्राधिके भवेत्
- नपुंसकं समत्वेन यथेच्छा पारमेश्वरी १२
- बालस्यौषधमात्रानिर्देशः
- बालस्य प्रथमे मासि देया भेषजरक्तिका १३
- अवलेहीकृतैकैव क्षीरक्षौद्र सिताघृतैः
- वर्धयेत्तावदेकैका यावद्भवति वत्सरः १४
- माषैर्वृद्धिस्तदूर्ध्वं स्याद्यावत्षोडशवत्सरः
- ततः स्थिरा भयेत्तावद्यावद्वर्षाणि सप्ततिः १५
- ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः
- मात्रेयं कल्कचूर्णानां कषायाणां चतुर्गुणा १६
- आजन्म सात्म्यकर्माणि
- अञ्जनं च तथा लेपः स्नानमभ्यङ्गकर्म च
- वमनं प्रतिमर्शश्च जन्मप्रभृति शस्यते १७
- वयोऽनुसारेण कवलादि योजना निर्देशः
- कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च
- विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम् १८
- बाल्यादीनां ह्राससमयनिर्देशः
- बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ
- बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्र्रसेत् १९
- वातप्रकृतिलक्षणम्
- अल्पकेशः कृशो रूक्षो वाचालश्चलमानसः
- आकाशचारी स्वप्नेषु वातप्रकृतिको नरः २०
- पित्तप्रकृतिलक्षणम्
- अकालपलितैर्व्याप्तो धीमान्स्वेदी च रोषणः
- स्वप्नेषु ज्योतिषां द्र ष्टा पित्तप्रकृतिको नरः २१
- श्लेष्मप्रकृतिलक्षणम्
- गम्भीरबुद्धिः स्थूलाङ्गः स्निग्धकेशो महाबलः
- स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः २२
- द्विदोषत्रिदोषप्रकृतिलक्षणे
- ज्ञातव्या मिश्रचिह्नैश्च द्वित्रिदोषोल्बणा नराः २३
- निद्रा मूर्च्छाभ्रान्तितन्द्रा लक्षणानि
- तमः कफाभ्यां निद्रा स्यान्मूर्च्छा पित्ततमोभवा
- रजः पित्तानिलैर्भ्रान्तिस्तन्द्रा श्लेष्मतमोऽनिलैः २४
- ग्लान्यालस्ययोर्लक्षणे
- ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत्
- यः सामर्थ्येऽप्यनुत्साहस्तदालस्यमुदीर्यते २५
- जृम्भालक्षणम्
- चैतन्यशिथिलत्वाद्यः पीत्वैकं श्वासमुद्वमेत्
- विदीर्णवदनः श्वासं जृम्भा सा कथ्यते बुधैः
- छिक्कालक्षणम्
- उदानप्राणयोरूर्ध्वं योगान्मौलिकफस्रवात्
- शब्दः संजायते नस्तः क्षुतं तत्कथ्यते बुधैः
- उद्गारलक्षणम्
- उदानकोपादाहारसुस्थिरत्वाच्च यद्भवेत्
- पवनस्योर्द्ध्वगमनं तमुद्गारं प्रचक्षते २८
- इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे आहारादिगतिकथनं नाम षष्ठोऽध्यायः
- अथ सप्तमोऽध्यायः
- रोगगणनाध्यायः
- रोगगणनाप्रतिज्ञा
- रोगाणां गणना पूर्वं मुनिभिर्या प्रकीर्त्तिता
- मयाऽत्र प्रोच्यते सैव तद्भेदा बहवो मताः १
- ज्वरभेदाः
- पञ्चविंशतिरुद्दिष्टा ज्वरास्तद्भेद उच्यते
- पृथग्दोषैस्तथा द्वन्द्वभेदेन त्रिविधः स्मृतः
- एकश्च सन्निपातेन तद्भेदा बहवः स्मृताः२
- विषमागन्तुज्वरयोर्भेदाः
- प्रायशः सन्निपातेन पञ्चस्युर्विषमज्वराः
- सन्ततः सततश्चैव अन्येद्युष्कस्तृतीयकः ३
- चातुर्थिकश्च पञ्च्ते कीर्त्तिता विषमज्वराः
- तथाऽगन्तुज्वरोऽप्येकस्त्रयोदशविधो मतः ४
- अभिचारग्रहावेशशापैरागन्तुकस्त्रिधा
- श्रमाच्छेदात्क्षताद्दाहाच्चतुर्द्धाघातजो ज्वरः ५
- कामाद्भीतेः शुचो रोषाद्विषादौषधगन्धतः
- अभिषङ्गज्वराः षट्स्युरेवं ज्वरविनिश्चयः ६
- अतीसारग्रहणीप्रवाहिकाणां भेदाः
- पृथक्त्रिदोषैः सर्वैश्च शोकादामाद्भयादपि
- अतीसारः सप्तधा स्याद् ग्रहणी पञ्चधा मता ७
- पृथग्दोषैः सन्निपातात्तथा चामेन पञ्चमी
- प्रवाहिका चतुर्द्धा स्यात्पृथग्दोषैस्तथाऽस्रतः ८
- अजीर्णालसयोर्भेदाः
- अजीर्णं त्रिविधं प्रोक्तं विष्टब्धं वायुना मतम् ९
- पित्ताद्विदग्धं विज्ञेयं कफेनामं तदुच्यते
- विषाजीर्णं रसादेकं दोषैः स्यादलसस्त्रिधा १०
- विषूचीदण्डकालसकविलम्बिकानां भेदाः
- विषूची त्रिविधा प्रोक्ता दोषैः सा स्यात्पृथक्पृथक्
- दण्डकालसकश्चैव एकैव स्याद्विलम्बिका ११
- अर्शश्चर्मकीलयोर्भेदाः
- अर्शांसि षड्विधान्याहुर्वातपित्तकफास्रतः
- सन्निपाताच्च संसर्गात्तेषां भेदो द्विधा स्मृतः १२
- सहजोत्तरजन्मभ्यां तथा शुष्कार्द्र भेदतः
- त्रिधैव चर्मकीलानि वातात्पित्तात्कफादपि १३
- कृमिभेदाः
- एकविंशतिभेदेन कृमयः स्युर्द्विधा च ते
- बाह्यास्तथाऽभ्यन्तराः स्युस्तेषु यूका बहिश्चराः १४
- लिक्षाश्चान्येऽन्तरचराः कफात्ते हृदयादकाः
- अन्त्रादा उदरावेष्टाश्चुरवश्च महागुदाः १५
- सुगन्धा दर्भकुसुमास्तथा रक्ताच्च मातरः
- सौरसा लोमविध्वंसा रोमद्वीपा उदुम्बराः १६
- केशादाश्च तथैवान्ये शकृज्जाता मकेरुकाः
- लेलिहाश्च सशूलाश्च सौसुरादाः ककेरुकाः १७
- तथाऽन्य कफरक्ताभ्यां संजातः स्नायुकः स्मृतः
- व्रणस्य कृमयश्चान्ये विषमा बाह्ययोनयः १८
- पाण्डुरोगकामलयोर्भेदाः
- पाण्डुरोगाश्च पञ्च स्युर्वातपित्तकफैस्त्रिधा
- त्रिदोषैर्मृत्तिकाभिश्च तथैका कामला स्मृता
- स्यात्कुम्भकामला चैका तथैकं च हलीमकम् १९
- रक्तपित्तभेदाः
- रक्तपित्तं त्रिधा प्रोक्तमूर्ध्वगं कफसंभवम्
- अधोगं मारुतं ज्ञेयं तद्द्वयेन द्विमार्गगम् २०
- कासभेदाः
- कासाः पञ्च समुद्दिष्टास्ते त्रयः स्युस्त्रिभिर्मलैः
- उरः क्षताच्चतुर्थः स्यात्क्षयाद्धातोश्च पञ्चमः २१
- क्षयभेदाः
- क्षयाः पञ्चैव विज्ञेयास्त्रिभिर्दोषैस्त्रयश्च ते
- चतुर्थः सन्निपातेन पञ्चमः स्यादुरःक्षतात् २२
- शोषभेदाः
- शोषाः स्युः षट्प्रकारेण स्त्रीप्रसङ्गाच्छुचो व्रणात्
- अध्वश्रमाच्च व्यायामाद् बार्धक्यादपि जायते २३
- श्वासभेदाः
- श्वासाश्च पञ्च विज्ञेयाः क्षुद्र ः! स्यात्तमकस्तथा
- ऊर्ध्वश्वासो महाश्वासच्छिन्नश्वासश्च पञ्चमः २४
- हिक्काभेदाः
- कथिताः पञ्च हिक्कास्तु तास्तु क्षुद्रा ऽन्नजा तथा
- गम्भीरा यमला चैव महती पञ्चमी तथा २५
- अग्निविकारभेदाः
- चत्वारोऽग्नेर्विकाराः स्युर्विषमो वातसम्भवः
- तीक्ष्णः पित्तात्कफान्मन्दो भस्मको वातपित्तयोः २६
- अरोचकभेदाः
- पञ्चैवारोचका ज्ञेया वातपित्तकफैस्त्रिधा
- सन्निपातान्मनस्तापात्
- छर्दिभेदाः
- छर्दयः सप्तधा मताः २७
- त्रिभिर्दोषैः पृथक्तिस्रः कृमिभिः सन्निपातजः
- घृणया च तथा स्त्रीणां गर्भाधानाच्च जायते २८
- स्वरभेदाः
- स्वरभेदाः षडेव स्युर्वातपित्तकफैस्त्रयः
- मेदसा सन्निपातेन क्षयात्षष्ठः प्रकीर्तितः २९
- तृष्णाभेदाः
- तृष्णा च षड्विधा प्रोक्तावातात्पित्तात्कफादपि
- त्रिदोषैरुपसर्गेण क्षयाद्धातोश्च षष्ठिका ३०
- मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासग्लानि भेदाः
- मूर्च्छा चतुर्विधा ज्ञेयाः वातपित्तकफैः पृथक् ३१
- चतुर्थी सन्निपातेन तथैकश्च भ्रमः स्मृतः
- निद्रा तन्द्रा च संन्यासो ग्लानिश्चैकैकशः स्मृताः ३२
- मदरोगभेदाः
- मदाः सप्त समाख्याता वातपित्तकफैस्त्रयः
- त्रिदोषैरसृजा मद्याद्विषादपि स सप्तमः ३३
- मदात्ययभेदास्तदवान्तरभेदाश्च
- मदात्ययश्चतुर्द्धा स्याद्वातपित्तकफादपि
- त्रिदोषैरपि विज्ञेय एकः परमदस्तथा ३४
- पानाजीर्णं तथा चैकं तथैकः पानविभ्रमः
- पानात्ययस्तथा चैकः
- दाहभेदाः
- दाहाः सप्त मतास्तथा ३५
- रक्तपित्तात्तथा रक्तात्तृष्णायाः पित्ततस्तथा
- धातुक्षयान्मर्मघाताद्र क्तपूर्णोदरादपि ३६
- उन्मादभेदाः
- उन्मादाः षट् समाख्यातास्त्रिभिर्दोषैस्त्रयश्च ते
- सन्निपाताद्विषाज्ज्ञेयः षष्ठो दुःखेन चेतसः ३७
- भूतोन्मादभेदाः
- भूतोन्मादा विंशतिः स्युस्ते देवाद्दानवादपि
- गन्धर्वात्किन्नराद्यक्षात्पितृभ्यो गुरुशापतः ३८
- प्रेताच्च गुह्यकाद् वृद्धात्सिद्धाद्भूतात्पिशाचतः
- जलाधिदेवतायाश्च नागाच्च ब्रह्मराक्षसात्
- राक्षसादपि कूष्माण्डात्कृत्या वेतालयोरपि ३९
- अपस्मारभेदाः
- अपस्मारश्चतुर्द्धा स्यात्समीरात्पित्ततस्तथा
- श्लेष्मणोऽपि तृतीयः स्याच्चतुर्थः सन्निपाततः ४०
- आमवातभेदाः
- चत्वारश्चामवाताः स्युर्वातपित्तकफैस्त्रिधा
- चतुर्थः सन्निपातेन
- शूलभेदाः
- शूलान्यष्टौ बुधा जगुः ४१
- पृथगदोषैस्त्रिधा द्वन्द्वभेदेन त्रिविधान्यपि
- आमेन सप्तमं प्रोक्तं सन्निपातेन चाष्टमम् ४२
- परिणामशूलभेदाः
- परिणामभवं शूलमष्टधा परिकीर्त्तितम्
- मलैर्या शूलसंख्या स्यात्तैरेव परिणामजम् ४३
- अन्नद्र वजरत्पित्तशूले
- अन्नद्र वभवं शूलं जरत्पित्तभवं तथा
- एकैकं गणितं सुज्ञैः
- उदावर्त्तभेदाः
- उदावर्त्तास्त्रयोदश ४४
- एकः क्षुन्निग्रहात्प्रोक्तस्तृष्णारोधाद् द्वितीयकः ४५
- निद्रा घातात्तृतीयः स्याच्चतुर्थः श्वासनिग्रहात्
- छर्दिरोधात्पञ्चमः स्यात्षष्ठः क्षवथुनिग्रहात् ४६
- जृम्भारोधात्सप्तमः स्यादुद्गारग्रहतोऽष्टमः
- नवमः स्यादश्रुरोधाद्दशमः शुक्रधारणात् ४७
- मूत्ररोधान्मलस्यापि रोधाद्वातविनिग्रहात्
- उदावर्त्तास्त्रयश्चैते घोरोपद्र वकारकाः ४८
- आनाहभेदौ
- आनाहोद्विविधो ज्ञेय एकः पक्काशयोद्भवः
- आमाशयोद्भवश्चान्यः प्रत्यानाहः स कथ्यते ४९
- उरोग्रहहृद्रो गयोर्भेदाः
- उरोग्रहस्तथा चैको हृद्रो गाः पञ्च कीर्त्तिताः
- वातादिभिस्त्रयः प्रोक्ताश्चतुर्थः सन्निपाततः
- पञ्चमः क्रिमिसञ्जातः
- उदररोगभेदाः
- तथाऽष्टावुदराणि च ५०
- वातात्पित्तात्कफात्त्रीणि त्रिदोषेभ्यो जलादपि
- प्लीह्नः क्षताद्बद्धगुदादष्टमं परिकीर्त्तितम् ५१
- गुल्मभेदाः
- गुल्मास्त्वष्टौ समाख्याता वातपित्तकफैस्त्रयः ५२
- द्वन्द्वभेदास्त्रयः प्रोक्ताः सप्तमः सन्निपाततः
- रक्तादष्टमकः ख्यातः
- मूत्राघातभेदाः
- मूत्राघातास्त्रयोदश ५३
- वातकुण्डलिका पूर्वा वाताष्ठीला ततः परा
- वातबस्तिस्तृतीयः स्यान्मूत्रातीतश्चतुर्थकः ५४
- पञ्चमं मूत्रजठरं षष्ठो मूत्रक्षयः स्मृतः
- मूत्रोत्सर्गः सप्तमः स्यान्मूत्रग्रन्थिस्तथाऽष्टमः ५५
- मूत्रशुक्रंतु नवमं विड्घातो दशमः स्मृतः
- मूत्रसादश्चोष्णवातोबस्तिकुण्डलिका तथा
- त्रयोऽप्येते मूत्रघाताः पृथग्घोराः प्रकीर्त्तिताः ५६
- मूत्रकृच्छ्रभेदाः
- मूत्रकृच्छ्राणि चाष्टौ स्युर्वातपित्तकफैस्त्रिधा ५७
- सन्निपाताचतुर्थं स्याच्छुक्रकृच्छ्रं च पञ्चमं
- विट्कृच्छ्रं षष्ठमाख्यातं घातकृच्छ्रं च सप्तमम्
- अष्टमं चाश्मरीकृच्छ्रं
- अश्मरीभेदाः
- चतुर्द्धा चाश्मरी मता ५८
- वातात्पित्तात्कफाच्छुक्रात् तथा मेहाश्च विंशतिः ५९
- कफजमेहभेदाः
- इक्षुमेहः सुरामेहः पिष्टमेहश्च सान्द्र कः
- शुक्रमेहोदकाख्यौ च लालामेहश्च शीतकः
- सिकताख्यः शनैर्मेहो दशैते कफसम्भवाः ६०
- पित्तजमेहभेदाः
- मञ्जिष्ठाख्यो हरिद्रा ख्यो नीलमेहश्च रक्तकः
- कृष्णमेहः क्षारमेहः षडेते पित्तसम्भवाः ६१
- वातिकमेहभेदाः
- हस्तिमेहो वसामेहो मज्जामेहो मधुप्रभः
- चत्वारो वातजा मेहा इति मेहाश्च विंशतिः ६२
- सोमरोगप्रमेहपिटिकयोर्भेदः
- सोमरोगस्तथा चैकः प्रमेहपिटिका दश
- शराविका कच्छपिका पुत्रिणी विनताऽलजी ६३
- मसूरिका सर्षपिका जालिनी च विदारिका
- विद्र धिश्च दशैताः स्युः पिटिका मेहसम्भवाः ६४
- मेदोदोषशोथरोगभेदाः
- मेदो दोषस्तथा चैकः शोथ रोगा नव स्मृताः
- दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि ६५
- वृद्धिरोगभेदाः
- वृद्धयः सप्त गदिता वातात्पित्तात्कफेन च
- रक्तेन मेदसा मूत्रादन्त्रवृद्धिश्च सप्तमी ६६
- अण्डवृद्धि गण्डमालिका गण्डालजीरोगाः
- अण्डवृद्धिस्तथा चैका तथैका गण्डमालिका
- गण्डालजीति चैका स्याद्
- ग्रन्थिभेदाः
- ग्रन्थयो नवधा मताः ६७
- त्रिभिर्दोषैस्त्रयो रक्ताच्छिराभिर्मेदसो व्रणात्
- अस्थ्ना मांसेन नवमः
- अर्बुदभेदाः
- षड्विधं स्यात्तथाऽबुदम् ६८
- वातात्पित्तात्कफाद्र क्तान्मांसादपि च मेदसः ६९
- श्लीपदभेदाः
- श्लीपदं च त्रिधा प्रोक्तं वातात्पित्तात्कफादपि ७०
- विद्र धिभेदाः
- विद्र धिः षड्विधः ख्यातो वातपित्तकफैस्त्रयः
- रक्तात् क्षतात् त्रिदोषैश्च
- व्रणभेदाः
- व्रणाः पञ्चदशोदिताः ७१
- तेषां चतुर्द्धा भेदाः स्युरागन्तुर्देहजस्तथा
- शुद्धो दुष्टश्च विज्ञेयस्तत्संख्या कथ्यते पृथक्
- वातव्रणः पित्तजश्च कफजो रक्तजो व्रणः ७२
- वातपित्तभवश्चान्यो वातश्लेष्मभवस्तथा
- तथा पित्तकफाभ्यां च सन्निपातेन चाष्टमः ७३
- नवमो वातरक्तेन दशमो रक्तपित्ततः
- श्लेष्मरक्तभवश्चान्यो वातपित्तासृगुद्भवः ७४
- वातश्लेष्मासृगुत्पन्नः पित्तश्लेष्मास्रसंभवः
- सन्निपातासृगुद्भूत इति पञ्चदश व्रणाः ७५
- सद्योव्रणभेदाः
- सद्योव्रणस्त्वष्टधा स्यादविकॢप्तविलम्बितौ
- छिन्नभिन्नप्रचलिता घृष्टविद्धनिपातिताः ७६
- कोष्ठभेदभेदौ
- कोष्ठभेदो द्विधा प्रोक्तश्छिन्नान्त्रो निःसृतान्त्रकः ७७
- अस्थिभङ्गभेदाः
- अस्थिभङ्गोऽष्टधा प्रोक्तो भग्नपृष्ठविदारितौ
- विवर्त्तितश्च विश्लिष्टस्तिर्यक्क्षिप्तस्त्वधोगतः
- ऊर्ध्वगः संधिभग्नश्च
- वह्निदग्धभेदाः
- वह्निदग्धश्चतुर्विधः ७८
- प्लुष्टो विदग्धो दुर्दग्धः सम्यग्दग्धः प्रकीर्त्तितः ७९
- नाडीव्रणभेदाः
- नाड्यः पञ्च समाख्याता वातपित्तकफैस्त्रिधा
- त्रिदोषैरपि शल्येन
- भगन्दरभेदाः
- तथाऽष्टौ स्युर्भगन्दराः ८०
- शतपोनस्तु पवनादुष्ट्रग्रीवश्च पित्ततः
- परिस्रावो कफाज्ज्ञेय ऋजुर्वातकफोद्भवः ८१
- परिक्षेपी मरुत्पित्तादर्शोजः कफपित्ततः
- आगन्तुजातश्चोन्मार्गी शङ्खावर्तस्त्रिदोषजः ८२
- उपदंशभेदाः
- मेढ्रे पञ्चोपदंशाः स्युर्वातपित्तकफैस्त्रिधा
- सन्निपातेन रक्ताच्च
- शूकामयभेदाः
- मेढ्रे शूकामयास्तथा
- चतुर्विंशतिराख्याता लिङ्गार्शो ग्रथितं तथा ८३
- निवृत्तमवमन्थश्च मृदितं शतपोनकः
- अष्ठीलिका सर्षपिका त्वक्पाकश्चावपाटिका ८४
- मांसपाकः स्पर्शहानिर्निरुद्धमणिरुत्तमा
- मांसार्बुदं पुष्करिका संमूढपिडिकाऽलजी ८५
- रक्तार्बुदं विद्र धिश्च कुम्भिकातिलकालकः
- निरुद्धप्रकशः प्रोक्तस्तथैव परिवर्त्तिका ८६
- कुष्ठभेदाः
- कुष्ठान्यष्टादशोक्तानि वातात् कापालिकं भवेत्
- पित्तेनोदुम्बरं प्रोक्तं कफान्मण्डलचर्चिके ८७
- मरुत्पित्तादृष्यजिह्वं श्लेष्मवाताद्विपादिका
- तथा सिध्मैककुष्ठं च किटिभं चालसं तथा ८८
- कफपित्तात् पुनर्दद्रुः पामा विस्फोटकं तथा
- महाकुष्ठं चर्मदलं पुण्डरीकं शतारुकम् ८९
- त्रिदोषैः काकणं ज्ञेयं तथाऽन्यच्छिवत्रसंज्ञितम्
- तथा वातेन पित्तेन श्लेष्मणा च त्रिधा भवेत् ९०
- क्षुद्र रोगभेदाः
- क्षुद्र रोगाः षष्टिसंख्यास्तेष्वादौ शर्करार्बुदम्
- इन्द्र वृद्धा पनसिका विवृताऽन्धालजी तथा ९१
- वराहदंष्ट्रो वल्मीकं कच्छपी तिलकालकः
- गर्दभी रकसा चैव यवप्रख्या विदारिका ९२
- कदरं मषकश्चैव नीलिका जालगर्दभः
- इरिवेल्ली जतुमणिर्गुदभ्रंशोऽग्निरोहिणी ९३
- सन्निरुद्धगुदः कोठः कुनखोऽनुशयी तथा
- पद्मिनीकण्टकश्चिप्पमलसो मुखदूषिका ९४
- कक्षावृषणकच्छूश्च गन्धः पाषाणगर्दभः
- राजिका च तथा व्यङ्गश्चतुर्द्धा परिकीर्त्तितः ९५
- वातात्पित्तात्कफाद्र क्तादित्युक्तं व्यङ्गलक्षणम्
- विस्फोटाः क्षुद्र रोगेषु तेऽष्टधा परिकीर्त्तिताः ९६
- पृथग्दोषैस्त्रयो द्वन्द्बैस्त्रिविधः सप्तमोऽसृजः
- अष्टमः सन्निपातेन क्षुद्र रुक्षु मसूरिका ९७
- चतुर्दशप्रकारेण त्रिभिर्दोषैस्त्रिधा च सा
- द्वन्द्वजा विविधा प्रोक्ता सन्निपातेन सप्तमी ९८
- अष्टमी त्वग्गता ज्ञेया नवमी रक्तजा स्मृता
- दशमी मांससञ्जाता चतस्रोऽन्याश्च दुस्तराः
- मेदोऽस्थिमज्जाशुक्रस्थाः क्षुद्र रोगा इतीरिताः ९९
- विसर्पभेदाः
- विसर्परोगो नवधा वातपित्तकफैस्त्रिधा १००
- त्रिधा स द्वन्द्वभेदेन सन्निपातेन सप्तमः
- अष्टमो वह्निदाहेन नवमश्चाभिघातजः १०१
- उदर्दशीतपित्तामयौ
- तथैकः श्लेष्मपित्ताभ्यामुदर्दः परिकीर्त्तितः
- वातपित्तेन चैकस्तु शीतपित्तामयः स्मृतः १०२
- अम्लपित्तभेदाः
- अम्लपित्तं त्रिधा प्रोक्तं वातेन श्लेष्मणा तथा
- तृतीयं श्लेष्मवाताभ्याम्
- वातरक्तभेदाः
- वातरक्तं तथाऽष्टधा १०३
- वाताधिक्येन पित्ताच्च कफाद्दोषत्रयेण च
- रक्ताधिक्येन दोषाणां द्वन्द्वेन त्रिविधः स्मृतः १०४
- वातरोगभेदाः
- अशीतिर्वातजा रोगाः कथ्यन्ते मुनिभाषिताः
- आक्षेपको हनुस्तम्भ ऊरुस्तम्भः शिरोग्रहः १०५
- बाह्यायामोऽन्तरायामः पार्श्वशूलं कटिग्रहः
- दण्डापतानकः खल्ली जिह्वास्तम्भस्तथाऽदितम् १०६
- पक्षाघातः क्रोष्टुशीर्षो मन्यास्तम्भश्च पङ्गुता
- कलायखञ्जता तूनी प्रतितूनी च खञ्जता १०७
- पादहर्षो गृध्रसी च विश्वाची चापबाहुकः
- अपतानो व्रणायामो वातकण्टोऽपतन्त्रकः १०८
- अङ्गभेदोऽङ्गशोषश्च मिन्मिनत्वं च गद्गदः
- प्रत्यष्ठीलाऽष्ठीलिका च वामनत्वं च कुब्जता १०९
- अङ्गपीडाऽङ्गशूलं च संकोचस्तम्भरूक्षताः
- अङ्गभङ्गोऽङ्गविभ्रंशो विड्ग्रहो बद्धविट्कता ११०
- मूकत्वमतिजृम्भा स्यादत्युद्गारोऽन्त्रकूजनम्
- वातप्रवृत्तिः स्फुरणं शिराणां पूरणं तथा १११
- कम्पः कार्श्यं श्यावता च प्रलापः क्षिप्रमूत्रता
- निद्रा नाशः स्वेदनाशो दुर्बलत्वं बलक्षयः ११२
- अतिप्रवृत्तिः शुक्रस्य कार्श्यं नाशश्च रेतसः
- अनवस्थितचित्तत्वं काठिन्यं विरसास्यता ११३
- कषायवक्त्रताऽध्मानं प्रत्याध्मानं च शीतता
- रोमहर्षश्च भीरुत्वं तोदः कण्डू रसाज्ञता
- शब्दाज्ञता प्रसुप्तिश्च गन्धाज्ञत्वं दृशः क्षयः ११४
- पित्तरोगभेदाः
- अथ पित्तभवा रोगाश्चत्वारिंशदिहोदिताः ११५
- धूम्रोद्गारो विदाहः स्यादुष्णाङ्गत्वं मतिभ्रमः
- कान्तिहानिः कण्ठशोषो मुखशोषोऽल्पशुक्रता ११६
- तिक्तास्यताऽम्लवक्त्रत्वं स्वेदस्रावोऽङ्गपाकता
- क्लमो हरितवर्णत्वमतृप्तिः पीतगात्रता ११७
- रक्तस्रावोऽङ्गदरणं लोहगन्धास्यता तथा
- दौर्गन्ध्यं पीतमूत्रत्वमरतिः पीतविट्कता ११८
- पीतावलोकनं पीतनेत्रता पीतदन्तता
- शीतेच्छा पीतनखता तेजोद्वेषोऽल्पनिद्र ता ११९
- कोपश्च गात्रसादश्च भिन्नविट्कत्वमन्धता
- उष्णोच्छ्वासत्वमुष्णत्वं मूत्रस्य च मलस्य च १२०
- तमसो दर्शनं पीतमण्डलानां च दर्शनम्
- निःसहत्वं च पित्तस्य चत्वारिंशद्रुजः स्मृताः १२१
- कफरोगभेदाः
- कफस्य विंशतिः प्रोक्ता रोगास्तन्द्रा ऽतिनिद्र ता
- गौरवं मुखमाधुर्यं मुखलेपः प्रसेकता १२२
- श्वेतावलोकनं श्वेतविट्कत्वं श्वेतमूत्रता
- श्वेताङ्गवर्णता शैत्यमुष्णेच्छा तिक्तकामिता १२३
- मलाधिक्यं च शुक्रस्य बाहुल्यं बहुमूत्रता
- आलस्यं मन्दबुद्धित्वं तृप्तिर्घर्घरवाक्यता
- अचैतन्यं च गदिता विंशतिः श्लेष्मजा गदाः १२४
- रक्तरोगभेदाः
- रक्तस्य च दश प्रोक्ता व्याधयस्तेषु गौरवम् १२५
- रक्तमण्डलता रक्तनेत्रत्वं रक्तमूत्रता
- रक्तनिष्ठीवनं रक्तपिटिकानां च दर्शनम्
- औष्ण्यं च पूतिगन्धित्वं पीडा पाकश्च जायते १२६
- मुखरोगभेदाः
- चतुःसप्ततिसंख्याका मुखरोगास्तथोदिताः १२७
- ओष्ठरोगभेदाः
- तेष्वोष्ठरोगा गणिता एकादशमिता बुधैः
- वातपित्तकफैस्त्रेधा त्रिदोषैरसृजा तथा १२८
- क्षतान्मांसार्बुदं चैव खण्डोष्ठं च जलार्बुदम्
- मेदोऽबुदं चार्बुदं च रोगा एकादशौष्ठजाः १२९
- दन्तरोगभेदाः
- दन्तरोगा दशाख्याता दालनः कृमिदन्तकः
- दन्तहर्षः करालश्च दन्तचालश्च शर्करा
- अधिदन्तः श्यावदन्तो दन्तभेदः कपालिका १३०
- दन्तमूलरोगभेदाः
- तथा त्रयोदशमिता दन्तमूलामयाः स्मृताः १३१
- शीतादोपकुशौ द्वौ तु दन्तविद्र धिपुप्पुटौ
- अधिमांसो विदर्भश्च महासौषिरसौषिरौ १३२
- तेष्वेव गतयः पञ्च वातात्पित्तात्कफादपि
- सन्निपाताद् गतिश्चान्या रक्तनाडी च पञ्चमी १३३
- जिह्वारोगभेदाः
- तथा जिह्वाऽमयाः षट् स्युर्वातपित्तकफैस्त्रिधा
- अलासश्च चतुर्थः स्यादधिजिह्वश्च पञ्चमः १३४
- षष्ठश्चैवोजपजिह्वः स्यात्
- तालुरोगभेदाः
- तथाऽष्टौ तालुजा गदाः १३५
- अर्बुदं तालुपिटिका कच्छपी तालुसंहतिः
- गलशुण्डी तालुशोषस्तालुपाकश्च पुप्पुटः १३६
- गलरोगभेदाः
- गलरोगास्तथा ख्याता अष्टादशमिता बुधैः
- वातरोहिणिका पूर्वं द्वितीया पित्तरोहिणी
- कफरोहिणिका प्रोक्ता त्रिदोषैरपि रोहिणी १३७
- मेदोरोहिणिका वृन्दो गलौघो गलविद्र धिः
- स्वरहा तुण्डिकेरी च शतघ्नी शालुकोऽबुदम् १३८
- गलायुर्वलयश्चापि वाताद् गण्डः कफात्तथा
- मेदोगण्डस्तथैव स्यादित्यष्टादश कण्ठजाः १३९
- मुखान्तर्गतरोगभेदाः
- मुखान्तःसम्भवा रोगा अष्टौ ख्याता महर्षिभिः
- मुखपाको भवेद्वातात्पित्तात्तद्वत्कफादपि १४०
- रक्ताच्च सन्निपाताच्च पूत्यास्योर्ध्वगुदावपि
- अर्बुदं चेति मुखजाश्चतुः सप्ततिरामयाः १४१
- कर्णरोगभेदाः
- कर्णरोगाः समाख्याता अष्टादशमिता बुधैः
- वातात्पित्तात्कफाद्र क्तात्सन्निपाताच्च विद्र धिः १४२
- शोथोऽबुदं पूतिकर्णः कर्णार्शः कर्णहल्लिका
- बाधिर्यं तन्त्रिका कण्डूः शष्कुली कृमिकर्णकः
- कर्णनादः प्रतीनाह इत्यष्टादश कर्णजाः १४३
- कर्णपालीरोगभेदाः
- कर्णपालीसमुद्भूता रोगाः सप्त इहोदिताः १४४
- उत्पातः पालिशोषश्च विदारी दुःखवर्द्धनः
- परिपोटश्च लेही च पिप्पली चेति संस्मृतः १४५
- कर्णमूलरोगभेदाः
- कर्णमूलामयाः पञ्च वातात्पित्तात्कफादपि
- सन्निपाताच्च रक्ताच्च
- नासारोगभेदाः
- तथा नासाभवा गदाः १४६
- अष्टादशैव संख्याताः प्रतिश्यायस्तु तेष्वपि
- वातात्पित्तात्कफाद्र क्तात्सन्निपातेन पञ्चमः १४७
- अपीनसः पूतिनासो नासाऽशो भ्रंशथुः क्षवः
- नासाऽनाहः पूतिरक्तमर्बुदं दुष्टपीनसम्
- नासाशोषो घ्राणपाकः पूयस्रावश्च दीप्तकः १४८
- शिरोरोगभेदाः
- तथा दश शिरोरोगा वातेनार्द्धावभेदकः
- शिरस्तापश्च वातेन पित्तपीडा तृतीयका १४९
- चतुर्थी कफजा पीडा रक्तजा सन्निपातजा
- सूर्यावर्त्ताच्छिरः कम्पात्क्रिमिभिः शङ्खकेन च १५०
- कपालरोगभेदाः
- तथा कपालरोगाः स्युर्नव तेषूपशीर्षकम्
- अरुंषिका विद्र धिश्च दारुणं पिटिकाऽबुदम्
- इन्द्र लुप्तं च खलितं पलितं चेति ते नव १५२
- नेत्ररोगभेदास्तत्रादौ वर्त्मरोगभेदाः
- तथा नेत्रभवाः ख्याताश्चतुर्नवतिरामयाः
- तेषु वर्त्मगदाः प्रोक्ताश्चतुर्विंशतिसंज्ञकाः १५३
- कृच्छ्रोन्मीलः पक्ष्मपातः कफोत्क्लिष्टश्च लोहितः
- अरुङ्निमेषः कथितो रक्तोत्क्लिष्टः कुकूणकः १५४
- पक्ष्मार्शः पक्ष्मरोधश्च पित्तोत्क्लिष्टश्च पोथकी
- क्लिष्टवर्त्मा च बहलः पक्ष्मोत्सङ्गस्तथाऽबुदम् १५५
- कुम्भिका सिकतावर्त्म लगणोऽञ्जननामिका
- कर्दमः श्याववर्त्मा च बिसवर्त्मा तथाऽलजी
- उत्क्लिष्टवर्त्मेति गदाः प्रोक्ता वर्त्मसमुद्भवाः १५६
- नेत्रसन्धिरोगभेदाः
- नेत्रसन्धिसमुद्भूता नव रोगाः प्रकीर्त्तिताः
- जलस्रावः कफस्रावो रक्तस्रावश्च पर्वणी १५७
- पूयस्रावः क्रिमिग्रन्थिरुपनाहस्तथाऽलजी
- पूयालस इति प्रोक्ता रोगा नयनसन्धिजाः १५८
- नेत्रशुक्लगतरोगभेदाः
- तथा शुक्लगता रोगा बुधैः प्रोक्तास्त्रयोदश १५९
- शिरोत्पातः शिराहर्षः शिराजालं च शुक्तिका
- शुक्लार्म चाधिमांसार्म प्रस्तार्यर्म च पिष्टकः १६०
- शिराजपिटिका चैव कफग्रथितकोऽजुनः
- स्नाय्वर्म शोणितार्म स्यादिति शुक्लगता गदाः १६१
- नेत्रकृष्णगतरोगभेदाः
- तथा कृष्णसमुद्भूताः पञ्च रोगाः प्रकीर्तिताः
- शुद्धशुक्रं शिराशुक्रं क्षतशुक्रं तथाऽजका
- शिरासङ्गश्च सर्वेऽपि प्रोक्ताः कृष्णगता गदाः १६२
- काचरोगभेदाः
- काचं तु षड्विधं ज्ञेयं वातात्पित्तात्कफादपि
- सन्निपाताच्च रक्ताच्च षष्ठं संसर्गसम्भवम् १६३
- तिमिररोगभेदाः
- तिमिराणि षडेव स्युर्वातपित्तकफैस्त्रिधा
- संसर्गेण च रक्तेन षष्ठं स्यात्सन्निपाततः १६४
- लिङ्गनाशरोगभेदाः
- लिङ्गनाशः सप्तधा स्याद्वातात्पित्तात्कफेन च
- त्रिदोषैरुपसर्गेण संसर्गेणासृजा तथा १६५
- दृष्टिमण्डलरोगभेदाः
- अष्टधा दृष्टिरोगाः स्युस्तेषु पित्तविदग्धकम्
- अम्लपित्तविदग्धं च तथैवोष्णविदग्धकम् १६६
- नकुलान्ध्यं धूसरान्ध्यं रात्र्! यान्ध्यं ह्र्रस्वदृष्टिकः
- गम्भीरदृष्टिरित्येते रोगा दृष्टिगता मताः १६७
- अभिष्यन्दरोगभेदाः
- अभिष्यन्दाश्च चत्वारो रक्ताद्दोषैस्त्रिभिस्तथा १६८
- अधिमन्थरोगभेदाः
- चत्वारश्चाधिमन्थाः स्युर्वातपित्तकफास्रतः १६९
- सर्वाक्षिरोगभेदाः
- सर्वाक्षिरोगाश्चाष्टौ स्युस्तेषु वातविपर्ययः
- अल्पशोफोऽन्यतोवातस्तथा पाकात्ययः स्मृतः
- शुष्काक्षिपाकश्च तथा शोफोऽध्युषित एव च
- हताधिमन्थ इत्येते रोगाः सर्वाक्षिसम्भवाः १७०
- पुंस्त्वरोगभेदाः
- पुंस्त्वदोषास्तु पञ्चैव प्रोक्तास्तत्रेर्ष्यकः स्मृतः
- आसेक्यश्चैव कुम्भीकः सुगन्धिः षण्ढसंज्ञकः १७१
- शुक्रदोषभेदाः
- शुक्रदोषास्तथाऽष्टौ स्युर्वातात्पित्तात्कफेन च
- कुणपं श्लेष्मवाताभ्यां पूयाभं श्लेष्मपित्ततः १७२
- क्षीणं च वातपित्ताभ्यां ग्रन्थिलं श्लेष्मवाततः
- मलाभं सन्निपाताच्च शुक्रदोषा इतीरिताः १७३
- अथ स्त्रीरोगनामानि
- तत्रार्त्तवदोषभेदाः
- अथ स्त्रीरोगनामानि प्रोच्यन्ते पूर्वशास्त्रतः १७४
- अष्टावार्त्तवदोषाः स्युर्वातपित्तकफैस्त्रिधा
- पूयाभं कुणपं ग्रन्थिं क्षीणं मलसमं तथा १७५
- रक्तप्रदरभेदाः
- तथा च रक्तप्रदरं चतुर्विधमुदाहृतम्
- वातपित्तकफैस्त्रेधा चतुर्थं सन्निपाततः १७६
- योनिरोगभेदाः
- विंशतिर्योनिरोगाः स्युर्वातात्पित्तात्कफादपि
- सन्निपाताच्च रक्ताच्च लोहितक्षयतस्तथा १७७
- शुष्का च वामिनी चैव खण्डिताऽन्तर्मुखी तथा
- सूचीमुखी विप्लुता च जातघ्नी च परिप्लुता १७८
- उपप्लुता प्राक्चरणा महायोनिश्च कर्णिनी
- स्यान्नन्दा चातिचरणा योनिरोगा इतीरिताः १७९
- योनिकन्दभेदाः
- चतुर्विधं योनिकन्दं वातपित्तकफैस्त्रिधा
- चतुर्थं सन्निपातेन
- गर्भरोगभेदाः
- तथाष्टौ गर्भजा गदाः १८०
- उपविष्टकगर्भः स्यात्तथा नागोदरः स्मृतः
- मक्कल्लो मूढगर्भश्च विष्कम्भो गूढगर्भकः
- जरायुदोषो गर्भस्य पातश्चाष्टमकः स्मृतः १८१
- स्तनरोगभेदाः
- पञ्चैव स्तनरोगाः स्युर्वातात्पित्तात्कफादपि
- सन्निपातात्क्षताच्चैव
- स्तन्यरोगभेदाः
- तथा स्तन्योद्भवा गदाः १८२
- बालरोगेषु कथिताः
- स्त्रीदोषभेदाः
- स्त्रीदोषाश्चत्रयः स्मृताः १८३
- अदक्षपुरुषोत्पन्नः सपत्नीविहितस्तथा
- दैवाज्जातस्तृतीयस्तु
- सूतिकारोगभेदाः
- तथा ये सूतिकागदाः १८४
- ज्वरादयश्चिकित्स्यास्ते यथादोषं यथाबलम् १८५
- बालरोगभेदाः
- द्वाविंशतिर्बालरोगास्तेषु क्षीरभवास्त्रयः
- वातात्पित्तात्कफाच्चैव दन्तोद्भेदश्चतुर्थकः
- दन्तघातो दन्तशब्दोऽकालदन्ताऽहिपूतनम् १८६
- मुखपाको मुखस्रावो गुदपाकोपशीर्षके
- पद्मारुणस्तालुकण्टो विच्छिन्नं पारिगर्भिकः १८७
- दौर्बल्यं गात्रशोषश्च शय्यामूत्रं कुकूणकः
- रोदनं चाजगल्ली स्यादिति द्वाविंशतिः स्मृताः १८८
- बालग्रहभेदाः
- तथा बालग्रहाः ख्याता द्वादशैव मुनीश्वरैः
- स्कन्दग्रहो विशाखः स्याच्छ्वग्रहश्च पितृग्रहः १८९
- नैगमेयग्रहस्तद्वच्छकुनिः शीतपूतना
- मुखमण्डनिका तद्वत्पूतना चान्धपूतना
- रेवती चैव सङ्ख्याता तथा स्याच्छुष्करेवती १९०
- चरणभेदरोगभेदाः
- तथा चरणभेदास्तु वातरक्तादिकाश्च ये
- द्विचत्वारिंशदुक्तास्ते रोगेष्वेव मुनीश्वरैः
- वातादिदोषभेदाः
- द्विषष्टिर्दोषभेदाः स्युः सन्निपातादिकाश्च ये
- तेऽपि रोगेषु गणिताः पृथक्प्रोक्ता न ते क्वचित् १९२
- पञ्चकर्मरोगभेदाः
- हीनमिथ्याऽतियोगानां भेदैः पञ्चदशोदिताः
- पञ्चकर्मभवा रोगा रोगेष्वेव प्रकीर्त्तिताः १९३
- स्नेहादीनां हीनादियोगजरोगभेदाः
- स्नेहस्वेदौ तथा धूमो गण्डूषोऽञ्जनतर्पणे
- षोढा अष्टादशैतज्जास्ताश्च रोगेषु लक्षिताः १९४
- शीतोष्णशल्यक्षारोपद्र वाः
- शीतोपद्र व एकः स्यादेकश्चोष्णोद्भवो मतः
- शल्योपद्र व एकश्च क्षाराच्चैकः स्मृतस्तथा १९५
- विषस्य विविधा भेदाः
- स्थावरं जङ्गमं चैव कृत्रिमं च त्रिधा विषम् १९६
- तेषां च कालकूटाद्यैर्नवधा स्थावरं विषम्
- जङ्गमं बहुधा प्रोक्तं तत्र लूता भुजङ्गमाः १९७
- वृश्चिका मूषिकाः कीटाः प्रत्येकं ते चतुर्विधाः
- दंष्ट्राविषं नखविषं बालशृङ्गास्थिभिस्तथा १९८
- मूत्रात्पुरीषाच्छुक्राच्च दृष्टेर्निश्वासतस्तथा
- लालायाः स्पर्शतस्तद्वत्तथा शङ्काविषं मतम् १९९
- कृत्रिमं द्विविधं प्रोक्तं गरदूषीविभेदतः
- सप्तधातुविषं ज्ञेयं तथा सप्तोपधातुजम् २००
- तथैवोपविषेभ्यश्च जातं सप्तविधं मतम्
- दुष्टनीरविषं चैकं तथैकं दिग्धजं विषम् २०१
- कपिकच्छुभवा कण्डूर्दुष्टनीरभवा तथा
- तथा सूरणकण्डूश्च शोथो भल्लातजस्तथा २०२
- मदभेदाः
- मदश्चतुर्विधश्चान्यः पूगभङ्गाऽक्षकोद्र वैः
- चतुर्विधोऽन्यो द्र व्याणां फलत्वङ्मूलपत्रजः २०३
- उपसंहारः
- इति प्रसिद्धा गणिता ये किलोपद्र वा भुवि
- असङ्ख्याश्चापरे धातुमूलजीवादिसम्भवाः
- इति शार्ङ्गधरसंहितायां पूर्वखण्डे रोगगणनानामसप्तमोऽध्यायः
- इति प्रथमखण्डं समाप्तम्