अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


अन्यभाषाणाम् इव संस्कृतस्य अपि भाषारूपेण सार्वत्रिक: प्रयोग: भवेत् इति वयम् आकाङ्क्षाम: चेत्, राष्ट्रजीवनस्य सर्वेष्वपि क्षेत्रेषु संस्कृतं पुनरागच्छेत् इति अपेक्षामहे चेत् च तस्य पुनरानयनस्य कार्यस्य प्रारम्भ: कुत: करणीय: इति प्रश्न: उदेति । संस्कृतं सरलम् उत कठिनं, वाचिकम् उत ग्रान्थिकं, प्रासङ्गिकम् / उपयोगयोग्यम् उत अप्रासङ्गिकम् इत्येतादृशा: भावा: जनानां मनस्सु प्रादुर्भवन्ति विद्यार्थिदशायाम् एव । अत: जनमानसे, समाजमानसे च संस्कृतानुकूलभावनिर्माणं करणीयं चेत् अस्माभि: विद्यालयेषु किं किं करणीयम् इति प्रधानतया, गम्भीरतया च चिन्तनीयम् ।

उदररोगस्य मूलकारणम् अग्निमान्द्यम् । हृदयाघातस्य मूलकारणं मेदोविकार: । संस्कृतावनते: मूलकारणं संस्कृतव्यवहारत्याग: अन्यभाषामाध्यमेन संस्कृतपाठनं च । पाठ्यमानभाषा तद्भाषा-माध्यमेन एव पाठनीया, परीक्षा अपि तद्भाषामाध्यमेन इति विषय: तु विश्वे सर्वै: अपि शिक्षाविद्भि: निर्विवादरूपेण कथ्यमान: विषय:, ऋते संस्कृतज्ञेभ्य: ! यदा संस्कृतज्ञा: संस्कृतस्य संस्कृतमाध्यमेन पाठनस्य प्रारम्भं कुर्यु: तदा, तदा एव, संस्कृतोन्नते: प्रारम्भ: भवेत् । स: च काल: दूरे स्यात् । न्यूनातिन्यूनं यदि सर्वै: शिक्षकै: विद्यालये सामान्यरूपेण वा संस्कृतेन वाग्व्यवहार: प्रारभ्येत तर्हि अपि परिस्थितौ काचित् प्रगति: भवेत् । अत: एष: लेख: ।

1. कक्ष्यात: बहि: संस्कृतेन - भवतु नाम वर्तमान: संस्कृतपाठ्यक्रम: संस्कृतमाध्यमानुकूल: नास्ति इति । तथा सत्यपि संस्कृतशिक्षक: विद्यालये कक्ष्यासमयं विहाय अन्यसमये छात्रै: सह, इतरै: सह च संस्कृतेन भाषितुं शक्नुयात् । तदर्थं तु पाठ्यक्रम: अवरोधक: न । तस्य सदैव संस्कृतस्य प्रयोगात् विद्यालये सर्वे संस्कृतमपि काचित् व्यवहारयोग्या भाषा इति, न्यूनातिन्यूनं तावद् वा, जानीयु: । संस्कृतेन सम्भाषणमेव संस्कृतशिक्षकस्य अभिज्ञानं भवेत् । संस्कृतेन व्यवहार: इत्येष: अंश: एव तस्मै शिक्षकाय, न केवलं तस्मिन् विद्यालये अपि तु तस्मिन् नगरे एव, गौरवास्पदं स्थानं कल्पयिष्यति । स्नेहशील:, विनयी, सरल:, निर्दम्भ:, परिश्रमी, विनोद- शीलश्च संस्कृतशिक्षक: सर्वान् अपि संस्कृतसमीपम् आक्रष्टुं शक्नुयात् ।
2. कक्ष्यासंवाद: संस्कृतेन - पाठविवरणम् अतिरिच्य कक्ष्यायां जायमाना: अन्ये सर्वे शिक्षकच्छात्र- संवादा: संस्कृतेन भवेयु: । यथा ‘पुस्तकम् उद्घाट्यताम्’ ‘गृहपाठ: कृत: किम् ?’ ‘मौनं तिष्ठ’ इत्यादय: । एते संवादा: शिक्षकाधीना:, न तु प्राचार्यनिर्णयविषया:, न वा पाठ्यचर्यासम्बद्धा: ।
3. प्रतिदिनं व्यवहारवाक्यानि - शिक्षक: प्रतिदिनं दैनन्दिनव्यवहारोपयोगिनां द्वित्राणां वाक्यानां कथनस्य अभ्यासं कारयेत् छात्राणां द्वारा । आवृत्तिं कारयेत् चेदपि अलम् । पाठेषु आगतानां शब्दानाम् अपि व्यावहारिकवाक्येषु प्रयोगस्य अभ्यासं कारयेत् ।
4. व्यवहारवाक्यानां भित्तिपत्राणि - कक्ष्योपयोगिनां, गृहोपयोगिनां च व्यवहारवाक्यानां भित्तिपत्राणि सज्जीकरणीयानि । प्रतिभित्तिपत्रं 10-15 वाक्यानि भवेयु: । प्रतिसप्ताहम् एकं भित्तिपत्रम् एकस्यां कक्ष्यायां स्थापनीयम् । तस्मिन् सप्ताहे छात्रा: तेषां वाक्यानाम् अभ्यासं कुर्यु: । एवं वर्षे त्रिशताधिकवाक्यानां शिक्षणं भवेत् । ‘दिनस्यैकं वाक्यम्’ इत्यपि योजना भवितुम् अर्हति ।
5. प्रयोगस्य प्रोत्साहनम् - सर्व: अपि छात्र: संस्कृतवाक्यानाम् अधिकाधिकं प्रयोगं यथा कुर्यात् तथा शिक्षकेण प्रोत्साहनं करणीयम् । ‘ज्ञाने धर्म: उत प्रयोगे’ इति संस्कृतभारत्या: किञ्चन प्रकाशनम् अस्ति । तस्य पुस्तकस्य अन्त: विद्यमानानां चित्राणां, विषयाणां च भूरि उपयोग: कर्तुं शक्यते ।
6. प्रारम्भ:, समाप्ति: च संस्कृतेन - कक्ष्यायां प्रत्यवधि पाठस्य प्रारम्भ: समाप्ति: च संस्कृतमाध्यमेन करणीय: । पाठ: अन्यभाषामाध्यमेन कृत: चेदपि पाठितस्य विषयस्य सारांशं पुनरपि संस्कृतेन वक्तुं, छात्राणां द्वारा वाचयितुं च शक्यम् ।
7. प्रार्थनासभायां संस्कृतकार्यक्रमा: - विद्यालये प्रतिदिनं जायमानायां प्रार्थनासभायां यदा कदापि संस्कृतेन अपि कार्यक्रमा: यथा भवेयु: तथा प्रयतनीयम् । महापुरुषाणां प्रसिद्धा: उक्ती: संस्कृतेन अनूद्य तासां वाचनं कारयितुं शक्यम् ।
8. अत्यधिकसंस्कृतव्यवहारकर्त्रे प्रतिष्ठायुक्तपुरस्कार: - कक्ष्यायां सर्वै: छात्रै: परस्परं संस्कृतेन सम्भाषणीयं, न्यूनातिन्यूनं संस्कृतावधौ तु संस्कृतेन इति आग्रह: करणीय: । प्रतिकक्ष्यं य: अत्यधिकसंस्कृतव्यवहारकर्ता भवेत् तस्मै कश्चन वार्षिक: पुरस्कार: दातव्य: । स: पुरस्कार: तथा प्रतिष्ठायुक्त: स्यात् यथा सर्व: अपि च्छात्र: तं प्राप्तुं स्वप्नं पश्येत्, यत्नं च कुर्यात् इति । विद्यालयस्य वार्षिकोत्सवकार्यक्रमे अपि अस्य पुरस्कारस्य प्रदानं भवितुम् अर्हति ।
9. वाग्वर्धिनीपरिषद् - साप्ताहिकी, पाक्षिकी, मासिकी वा एषा सभा छात्राणाम् । एतस्यां पूर्वनिश्चिते विषये कृतसज्जता: छात्रा: संस्कृतेन भाषणं कुर्यु: । परिषद: पदाधिकारिण: छात्रा: । मार्गदर्शका: स्यु: शिक्षका: ।
10.संस्कृतेन पत्रलेखनस्य शिक्षणम् - विविधप्रसङ्गेषु संस्कृतेन पत्रलेखनं कथं करणीयम् इति छात्रा: शिक्षणीया: । अत्र संस्कृतभारत्या: ‘सन्देशसंस्कृतम्’ इति पुस्तकम् उपयोगि भवेत् ।
11. सान्दर्भिकसम्भाषणानाम् अभ्यास: - दैनन्दिनजीवनस्य विविधप्रसङ्गा:, सन्निवेशा:, विषया: वा ये भवन्ति तेषु एकैकं सन्निवेशं, विषयं वा स्वीकृत्य तस्मिन् प्रसङ्गे यानि वाक्यानि वदेम तेषां सम्भाषणरूपेण छात्राणाम् अभ्यास: कारणीय: । यथा - भोजनसम्भाषणं, वैद्यरोगिसम्भाषणम् इत्यादीनि ।
12. भाषाक्रीडा: - प्रतिदिनं कक्ष्यायां द्वित्रान् निमेषान् यावत् कामपि एकां भाषाक्रीडां स्वीकृत्य क्रीडयाम: चेत् शीघ्रमेव भाषाभ्यास: भवेत् । किञ्च छात्रा: महता उत्साहेन, श्रमेण विना च संस्कृताभ्यासं कुर्यु: । संस्कृतभारत्या: प्रकाशनं ‘भाषाक्रीडा:’ इति पुस्तकम् अत्र बहूपयोगि भवेत् ।
13. ताडग्रन्थदर्शनम् - संस्कृतस्य प्राचीना: हस्तलिखिता: पाण्डुलिपिग्रन्था:/ ताडग्रन्था: लक्षशा: सन्तीति वयं जानीम: । तेषु अधिकांशा: अद्यावधि अप्रकाशिता: । तेषु महत् विज्ञानं निहितं वर्तते, यस्य च अद्य महती प्रासङ्गिकता अस्ति । कमपि एकं पाण्डुलिपिग्रन्थं यदि वयं कक्ष्यां नीत्वा दर्शयेम, अथवा छात्रान् एव नगरे विद्यमानं ताडग्रन्थसङ्ग्रहालयं प्रति नीत्वा तान् ताडग्रन्थान्, तेषां दुरवस्थां. तत्रत्यस्य ज्ञानस्य महत्त्वं च वर्णयेम तर्हि छात्राणां महती प्रेरणा भवेत् । एतेषां विषये www.namami.org इत्यादिषु जालपुटेषु अधिकं विवरणम् अस्ति ।
14. शब्दपरिचय: - शिक्षक: प्रतिदिनं कतिचन नूतनान् व्यावहारिकान् शब्दान् (संस्कृतशब्दान्) पाठयेत् । दैनन्दिनोपयोगिनां पदानां परिचयप्राप्तौ छात्राणां महदौत्सुक्यं भवति ।
15. एकपात्राभिनयरूपकादय: - छात्राणां द्वारा संस्कृतभाषया एकपात्राभिनयस्य, आधुनिकविषयकाणां लघूनां रूपकाणां वा अभ्यासं कारयेम । तेन च तन्माध्यमेन संस्कृताभ्यास: भवेत् । संस्कृतप्रचाराय रङ्गमञ्चपरम्पराया: उज्जीवनमपि भवेत् । एतदर्थं संस्कृतभारत्या: प्रकाशनेषु ‘नवरूपकम्’ ‘कविकोपकलाप:’ ‘जागरूको भव’ ‘एहि हसाम’ इत्यादीनि पुस्तकानि उपयोगीनि स्यु: ।
16. अनुकूलवार्ताश्रावणम् - कक्ष्यायां संस्कृतशिक्षकेण संस्कृतानु- कूला: वार्ता: बहुधा श्रावणीया:, येन छात्राणां मनसि श्रद्धा, उत्साह:, विश्वास: च उत्पन्न: भवेत् । जना: प्रचलत् नाणकं स्वीकुर्वन्ति, न तु मूल्यरहितं पुरातनं नाणकम् । जयन्तं पक्षम् अनुसरन्ति, न तु पराजीयमानम् । अत: भविष्यत: भाषा संस्कृतमेव इति प्रतिपादनीयं, न तु केवलम् अतीतस्य इति । छात्राणां सम्मुखे संस्कृतविषये भावोत्प्रेरकं भाषणं करणीयम् ।
17. सम्भाषणसन्देशस्य वाचनम् - सम्भाषणसन्देशे बालमोदिनी, पदरञ्जिनी इत्यादय: बहव: स्तम्भा: छात्रोपयोगिन: सन्ति । कक्ष्यायां सम्भाषणसन्देश: उत्तमा पाठ्यसामग्री / पाठ्योपकरणं भवितुम् अर्हति । किञ्च, न केवलं विद्यालयग्रन्थालयं प्रति ‘सम्भाषणसन्देश:’ आगच्छेत् इति प्रयतनीयम्, अपि तु छात्रा: अपि ग्राहका: यथा भवेयु: तथा प्रेरणादानं चिन्तनीयम् । शिक्षक: स्वयमपि ग्राहक: भवेत् एव ।
18. संस्कृतवार्तानां श्रावणम् - आकाशवाण्या दूरदर्शनेन च प्रतिदिनं संस्कृतभाषया य: वार्ताप्रसार: भवति तस्य ध्वनिमुद्रणं कृत्वा कक्ष्यायां श्रावयेम चेत् तेन अपि छात्राणां महान् लाभ: भवेत् ।
19. सान्द्रमुद्रिकाध्वनिमुद्रिकादीनाम् उपयोग: - राष्ट्रियसंस्कृत-संस्थानस्य, तिरुपतिस्थस्य राष्ट्रियसंस्कृतविद्यापीठस्य, संस्कृतभारत्या:, अन्येषां च बहव: सान्द्रमुद्रिका:, ध्वनिमुद्रिका: च सन्ति, यासां महान् उपयोग: कक्ष्यायां भवेत् । वस्तुत: विद्यालये संस्कृतभाषाप्रयोगालय: एव आरब्धव्य: ।
20. विविधा: स्पर्धा: - कक्ष्याश: छात्रेभ्य: भाषण-कथाकथन-सम्भाषणप्रदर्शन-निबन्धलेखन-कण्ठपाठकरण-विनोद-कथनएकपात्राभिनयादय: विविधा: भाषाप्रयोगात्मका: स्पर्धा: आयोजनीया: ।
21. संस्कृतभित्तिपत्रिका - संस्कृतेन लेखनस्य प्रोत्साहनाय विद्यालये संस्कृतभित्तिपत्रिका आरब्धव्या ।
22. विज्ञानसंस्कृतप्रदर्शिनी - संस्कृते यद् विज्ञानादि-विविधाधुनिकविषयज्ञानम् अस्ति, तत्सम्बन्धे सार्धैकशत-भित्तिपत्राणि संस्कृतभारत्या प्रकाशितानि सन्ति । तेषामेव पुस्तकमपि अस्ति । तयो: नाम Science in Samskrit, Pride of India इति । विद्यालये सा प्रदर्शिनी स्थापनीया, यया छात्राणाम् अभिप्रेरणा वर्धेत ।
23. संस्कृतप्रदर्शिनी पुस्तकविक्रयणं च - व्यावहारिकवस्तूनां संस्कृतनामानि, संस्कृतवाङ्मयपरिचायकाणि भित्तिपत्राणि इत्यादीनां सुन्दरी महती च प्रदर्शिनी आयोजनीया । सर्वे छात्रा:, पोषका:, नागरिका: च आह्वातव्या: । तदा संस्कृतभारत्या: शताधिकप्रकाशनानां विक्रयणव्यवस्था अपि करणीया ।
24. उत्साहिभ्य: अन्यसमये गीताशिक्षणकेन्द्रम् - उत्साहिभ्य: छात्रेभ्य: विद्यालयसमयात् पूर्वम् अनन्तरं वा ऐच्छिकरूपेण सम्भाषणशिबिरं, गीताशिक्षणकेन्द्रं, सरलसंस्कृतपरीक्षार्थं पाठनम् इत्यादिरूपेण अतिरिक्तपाठा: यदि क्रियेरन् तर्हि ते छात्रा: पुन: स्वीयकक्ष्यासु संस्कृतवातावरणनिर्माणे उत्तमानि उपकरणानि भवेयु: ।
25. इतरविषयाणां विवरणं संस्कृतेन - संस्कृतं प्राचीनवाङ्मय-सम्बद्धमात्रम् इति भावस्य परिवर्तनाय विद्यालयस्य इतरविषयान् अपि संस्कृतशिक्षक: संस्कृतेन यदि विवृणुयात् तर्हि तद् महते लाभाय भवेत् । संस्कृतशिक्षक: स्वस्य कक्ष्यायां क्रीडावाणिज्यादीनां वर्तमानविषयान्, राष्ट्रियान्ताराष्ट्रियान् विषयान् च संस्कृतेन वदन् यदि भवेत्, व्यक्तिविकाससम्बद्धान् विषयान् च यदि वदेत् तर्हि न केवलं संस्कृतस्य, अपि तु संस्कृतशिक्षकस्यैव चित्रं परिवृत्तं भवेत् ।

यदि विद्यालयस्य संस्कृतशिक्षक: उत्साही, सक्रिय:, ध्येयवादी, संस्कृतैकचित्त:, नवप्रयोगशीलश्च भवेत् तर्हि अवश्यमेव तस्मिन् विद्यालये संस्कृतं नित्यं वर्धिष्णु सत् सर्वान् आकर्षेत् । विद्यालये सर्वदैव छात्राणाम् अध्यापकानां पोषकाणां च दृष्टिपथे श्रुतिपथे च संस्कृतं भवेदिति प्रयत्न: करणीय: । विद्यालयस्य प्राचार्यस्य, प्रबन्धसमितिजनानां च संस्कृतानुकूल्यसम्पादनम् अपि शिक्षक-कौशलाधीनमेवेत्येव सत्यम् । विनयसम्पन्न:, विवेकधन: च शिक्षक: ज्येष्ठानां मन: जयेत्, तस्य शिक्षकस्य स्नेहशीलत्वं, परिश्रमशीलत्वं च छात्राणां हृदयानि जयेच्च ।

संस्कृतनामकस्य रेल्यानस्य यन्त्रस्थाने तिष्ठति संस्कृतशिक्षक: । तस्य गति: एव संस्कृतस्य गति: । संस्कृतरक्षक: प्राणरसभूत: च संस्कृतशिक्षक: । संस्कृतशरीरे प्राणवायुसञ्चारक: हृदयस्थानभूत: संस्कृतशिक्षक: एव । यथा क्षणस्य अपि ‘विरामम्’ अस्वीकृत्य हृदयम् अविरतं कार्यं करोति तथा संस्कृतशिक्षक:, तस्य संस्कृतमुखं च अविरतं कार्यं कुर्यात् । संस्कृतशिक्षकस्य तद् संस्कृतमुखं स्थगितं चेत् हृदयस्थगनेन शरीरस्य या अवस्था भवेत् सा एव स्थिति: भवेत् संस्कृतस्य अपि । ‘संस्कृतस्य शिक्षक:’ इति पदनिर्देशेन ज्ञायते । ‘शिक्षकस्य संस्कृतम्’ इत्येतद् सर्वेषां छात्राणां कर्णरसायनं भवेत् । छात्रा: देशस्य भविष्यनिर्मातार: इति यथा कथ्यते तथा प्रकृतस्थितौ संस्कृतस्य भविष्यनिर्मातार: संस्कृतशिक्षका: इत्येव वक्तव्यम् । यदि भारते विद्यमाना: पञ्चलक्षमिता: संस्कृतशिक्षका: संस्कृतेन भाषणस्य प्रारम्भं कुर्यु: तर्हि ‘एकेन दीपेन शतं दीपा:’ यथा प्रवर्तिता: भवेयु: तथा पञ्चकोटिदेशवासिन: अपि संस्कृतसम्भाषणाय प्रेरिता: स्यु: । अत: शिक्षकाधीनं संस्कृतम् ।

राष्ट्रजीवनस्य विविधेषु क्षेत्रेषु यत् आसीत् तत् संस्कृतम् अद्य अवशिष्टम् अस्ति शिक्षाक्षेत्रे एकत्र एव । तस्मिन् शिक्षाक्षेत्रे संस्कृतस्य स्थानस्य सुदृढीकरणाय सर्वकारीयनीतीनां परिवर्तनम् अपेक्षितं चेत् तदर्थम् आदौ पूर्वभाविरूपेण करणीयं भवति शिक्षकप्रशिक्षणं, पाठ्यचर्या-पाठ्यक्रम-पाठनपद्धति-परीक्षापद्धति-परिवर्तनं च । पद्धतिपरिवर्तनादिकं शिक्षकाधीनं, न तु सर्वकाराधीनम् । अत: अपि शिक्षकाधीनं संस्कृतम् ।

आगामिनि शैक्षिकवर्षान्ते (2011 तमे क्रिस्ताब्दे) भारतस्य जनगणना भविष्यति । समग्रे देशे तत् कार्यं प्रधानतया शिक्षका: एव करिष्यन्ति । अर्थात् अस्माकं संस्कृतशिक्षका:, तेषां सहोद्योगिन: सहकारिण: च । जनगणनासमये अधिकाधिकजना: ‘संस्कृतभाषी’ इति घोषयेयु: चेत् संस्कृतस्य बहुविधा: लाभा: स्यु: । एतदर्थं सर्वे जना: अपि प्रेरणीया:, जनगणनाकर्तार: शिक्षका: अपि प्रार्थनीया: । (यत: ते बहव: शिक्षका: तथा लेखयितुं न सज्जा: आसन् गतवारम्) अत: एतस्मिन् विषये संस्कृतशिक्षकाणां पात्रं महत्त्वभूतं भवति । अत: शिक्षकाधीनं संस्कृतम् ।

बालानां मनस्सु संस्कृतविषयकरुच्युत्पादका: अस्माकं संस्कृतशिक्षका: एव । तरुणहृदयेषु संस्कृतोज्जीवनस्य, नवभारतनिर्माणस्य च अग्निप्रज्वालका: संस्कृतशिक्षका: एव । यूनाम् अन्त:करणे तु संस्कृतज्ञानविज्ञानदर्शनानाम् आधारेण युगपरि-वर्तनस्य महत्तरस्वप्नानां स्फूर्तिस्फुलिङ्गोत्पादका: संस्कृतशिक्षका: एव । अत: शिक्षकाधीनं संस्कृतम् ।

संस्कृतशिक्षणनौकाया: क्षेपणि: संस्कृतशिक्षक: । संस्कृतभाषालताया: आश्रयस्थानभूत: संस्कृतशिक्षक: । सरलसंस्कृतभाषाया:, प्रधान: सम्प्रेरक: संस्कृतशिक्षक: । वाग्देवीमन्दिरस्य शिल्पी संस्कृतशिक्षक: । अत: शिक्षकाधीनं संस्कृतम् ।

महत: मन्दिरस्य निर्माणाय शतं शिल्पिन: यदा बहूनि वर्षाणि यावत् कार्यं कुर्वन्ति तदा कार्यसमये प्रत्येकं शिल्पी प्रतिक्षणं चिन्तयन् भवति - अहं मन्दिरनिर्माणं कुर्वन् अस्मीति, न तु पाषाणं कर्तयन् अस्मीति । तथैव सुरसरस्वत्या: संस्कृतभाषाया: वाग्देव्या: मन्दिरनिर्मातार: वयं संस्कृतशिक्षका: एव । शिल्पिन: प्रत्येकं ताडनं पवित्रमन्दिरनिर्माणाय, शिक्षकस्य प्रत्येकं संस्कृतवाक्यकथनं वागीश्वरीमन्दिरनिर्माणाय, अर्थात् तस्या: संस्कृतभाषाया: पुनरुज्जीवनाय !!

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - डिसेम्बर् २००९
लेखकः - च मू कृष्णशास्त्री