शिक्षाष्टकम्
रच्यीता चैतन्य महाप्रभु (१४८६-१५३४)
- चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणम् श्रेयः कैरवचन्द्रिकावितरणं विद्यावधू जीवनम् ।
- आनंदाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम् सर्वात्मस्नपनं परं विजयते श्रीकृष्ण संकीर्तनम् ॥१॥
- नाम्नामकारि बहुधा निज सर्व शक्ति-स्तत्रार्पिता नियमितः स्मरणे न कालः।
- एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः॥२॥
- तृणादपि सुनीचेन तरोरपि सहिष्णुना।
- अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥
- न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये।
- मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥
- अयि नन्दतनुज किंकरं पतितं मां विषमे भवाम्बुधौ।
- कृपया तव पादपंकज-स्थितधूलिसदृशं विचिन्तय॥५॥
- नयनं गलदश्रुधारया वदनं गदगदरुद्धया गिरा।
- पुलकैर्निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति॥६॥
- युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
- शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥
- आश्लिष्य वा पादरतां पिनष्टु मा-मदर्शनान्मर्महतां करोतु वा।
- यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः॥८॥