शिवकेशादिपादान्तवर्णनस्तोत्रम् (बृहत्स्तोत्ररत्नमालान्तर्गतम्)

शिवकेशादिपादान्तवर्णनस्तोत्रम्
शङ्कराचार्यः
१९५३

॥ शिवकेशादिपादान्तवर्णनस्तोत्रम् ॥

देयासुर्मूध्निं राजस्सरस-
सुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तम्बाः पिशङ्गा-
स्तुलितपरिणतारक्तशालीलतावः ।
दुर्वारापत्तिगर्तश्रितनिस्वि-
लजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहन-
शिखिशिखाः शर्म शावा कपर्दाः ।।१
कुर्वन्निर्वाणमार्गप्रगम-
परिलसद्रूप्यसोपानशङ्कां
शक्रारीणाम्पुराणां त्रय-
विजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलि-
कहिमपराधित्यकान्तनिधोद्य-

ज्जाह्नव्याभं मृडानीक-
मितुरुडपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२
क्रुध्यद्गौरीप्रसादानतिस-
मयपदाङ्गुष्ठसङ्क्रान्त लाक्षा-
बिन्दुस्पर्धिस्मरारेः स्फटिक-
मणिदृषन्मन्मग्नमाणिक्यशोभम् ।
मूर्धन्युद्यद्दिव्यसिन्धोः पतित-
शफरिकाकारि वोमास्तकंस्ता-
दस्तोकापंत्तिकृत्यै हुतवह
कणिका मोक्षरूक्षं सदाक्षि ॥३
भूत्यै दृग्भूतयोः स्याद्यदहिम-
हिमरुग्बिम्बयोः स्निग्धवर्णो
दैत्यौषध्वंसशंसीस्फुटइव
परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयिसमु-
पगतेऽतीवनिर्वृत्तगर्वं

शार्वाणीभर्तुरुच्चैयुगल-
मथदधद्विभ्रमंतभ्द्रुवोर्वः ॥४
युग्मेरुक्माब्जपिङ्गे ग्रहइव
पिहिते द्रास्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचि-
तबृहत्कञ्चुकोऽभूत्प्रपञ्चः ।
ते त्रैनेत्रे पवित्रे त्रिदशवर-
घटामित्रजैत्रो प्रशस्ने
नेत्रेनेत्रे भवेतां द्रुतमिह
भवतामिन्द्रियाश्वान्नियन्तुम् ॥५
चण्डीवक्रार्पणेच्छोस्तदनु
भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डं विनेतुं वितनुत-
इव ये रत्नकोणैर्विधृष्टिम् ।
चण्डार्चिमण्डलाभे सतत-
नतज्जनध्वान्तखण्डातिशौण्डे

चाण्डीशेते श्रिये स्तामधिक-
मवनताखण्डले कुण्डले वः॥ ६
खट्वाङ्गोदप्रपाणेः स्फुटविक-
टपुटोवक्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्स्फणोरुश्वसदति-
धवलाहीन्द्रशङ्कांदधानः ।
युष्माकं कम्रवक्राम्बुरुह-
परिलसत्कर्णिकाकारशोभा
शश्वत्त्राणाय भूयादसम-
तिविमलोत्तुङ्गकोणः सघोणः ॥७
क्रुध्यत्यद्धा ययोः स्वां तनुमति-
लसतोर्बिम्बतांलक्षयन्ती
भर्त्रे स्पर्धातिनिघ्नामुहुरित-
रवधूशङ्कया शैलकन्या
युष्मांस्तौशश्वदुच्चैरबहुल-
दशमीशर्वरीशातिशुभ्रा-

वव्यास्तां दिव्यसिन्धोः कमि-
तुरवनमल्लोकपालोकपोलौ ॥८
यो भासा भान्त्युपान्तस्थितइव
निभृतं कौस्तुभोद्रष्टुमिच्छ-
न्सोस्थस्नेहाश्रितान्तं गलगत-
गरलं पत्युरुच्चैः पशूनाम् ।
प्रोद्यत्प्रेम्णायमार्द्रा पिबति
गिरिसुतासम्पदः सातिरेका
लोकाश्शोणीकृतान्ता यदधर-
महसासोऽधरोवोविधत्ताम् ॥९
अत्यर्थं राजते या बदनशश-
धरादुद्गलच्चारुवाणी-
पीयूषाम्भः प्रवाहप्रसरपरि-
लसत्फेनविन्द्वापलीव।
देयात्सा दन्तपक्तिश्चिरमिह
दनुदायाददौवारिकस्य

द्युत्या दीप्तेन्दुकुन्दच्छविर-
मलतरप्रोन्नताग्रामुदं वः ॥१०
न्यक्कुर्वन्नुवराभृग्निमघन-
समयोद्धुष्टमेघौघघोषं
स्फूर्जद्वायुस्थितोरुध्वनित
मपि परब्रह्मभूतो गभीर्ः।
सुध्यक्तो व्यक्तमूर्तेः प्रकटित-
करणः प्राणनाथस्य सत्याः
प्रीत्या व: संविदध्यात्फलविक-
लमलं जन्मनादः सनाद: ॥११
भासा यस्य त्रिलोकी लसति-
परिलसत्फेनबिन्दुर्णवान्त-
र्व्यमग्ने वाति गौरस्तुलित-
सुरसरिद्वारिपूरप्रसारः।
पीनात्मा दन्तभाभिर्भृशमह-
हुहकाराविभीमः सदेष्टां

पुष्टां तुष्टिं कृषीष्ट स्फुटमिह
भवतामहहामोऽष्टमूर्तेः ।।१२
सद्यो जाताख्यमाप्यं यदु-
विमलमुदम्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभ्-
मघोराह्वर्यं दक्षिणं यत् ।
यद्बालर्कप्रभं सरपुरुष-
निगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शम्भोर्भवद-
भिलषितं पश्चवद्युर्मुखानि ॥१३
आत्मप्रेम्णो भवान्या स्वय-
मिव रचिताः सादरं सांवनन्या
मह्य तिसृ: सुनीलाञ्जन-
निभगररेखा: समाभान्ति यस्याम् ।
आकल्पानरुपभासा भृशरु-
चिरतरा कम्बुकल्यान्विकायाः

पत्युः सात्यन्तमन्तर्विल-
सतु सततं मन्थराकन्धरा वः ॥ १४
वतेन्द्रोदन्तलक्ष्म्याश्चिरम-
धरमहाकौस्तुभस्यान्तराले
स्रोत्थानां प्रार्थयन् यः स्थिति-
मचलभुवे वारयन्त्यै निवेशम् ।
प्रायुक्त वाशिषो यः प्रतिपद-
ममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन् गलं वो हृदयमल-
मलं क्षालयेत् कारकूटः॥१५
प्रौढप्रेमाकुलायादृढतरप-
रिरम्भेषु पर्वेन्दुमुरव्याः
पार्वत्याश्चारुचामीकरवलय-
पदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततम-
विहितं कर्म निर्मूलयेत्त-

Bruha-10

द्दोर्मूलं निर्मलं यद्धृदिदुरि-
तमपास्यार्जितं धूर्जटेर्वः ॥१६
कण्ठाश्लेषमाप्तादिवइव-
कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटि-
कमणिमहासङ्क्रमाकारदीर्धाः ।
तिर्यग्विष्कम्भभूतास्त्रिभुव-
नवसतेभिन्नदैत्येभदेहा
बाहावस्ताहरस्यद्रुतमिह-
निवहानंहसां संहरन्तु ॥१७
वक्षोदक्षद्विषोऽलं स्मरभर-
विनमद्दक्षजाक्षीण वक्षो-
जान्तर्निक्षिप्तशुम्भन्मलय-
जमिलतोद्भासिभस्मोक्षितंयत् ।
क्षिप्रं तद्रूक्षचक्षुः श्रुतिगण-
फणरत्नौघभाभीक्ष्णशोभं

युष्माकं शश्वदेनः स्फटिक-
मणिशिलामण्डलाभं क्षिणोतु ॥ १८
मुक्तामुक्ते विचित्राकुलवलि-
लहरी जालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवर-
युते कालशत्रोर्विशाले।
युष्मञ्चित्रत्रिधामा प्रतिनव-
रुचिरे मन्दिरे कान्तिलक्ष्म्या:
शीतां शीसांशुगौरे चिरतर-
मुदरक्षीरसिन्धौ सलीलम् ॥
वैयाघ्री यत्र कृत्तिः स्फुरति
हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रापरित-
इववृता नीलजीमूतमाला।

आम्बद्धाहीन्द्रकाञ्चीगुणमति-
पुथुलं शैलजाक्रीडभूमि-
स्तद्वो निःश्रेयसे स्याज्जघनमति-
धनं बालशीतांशुमौलेः।।२०
पुष्टावष्टम्भभूतौ पृथुतरजघ-
नस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्राद्विरद-
वरकरोदारकान्तिं दधानौ ।
साराबूरू पुरारेः प्रसभ-
मरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकम-
वनतौ वाञ्छितं वो विधत्ताम् ॥२१
आनन्दायेन्दुकान्तोपलरचि-
तसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदध-
ति चरणेताण्डवाकुश्चनानि ।

काञ्ची भोगीन्द्रमूर्धा प्रति-
मुहुरुपधानायमाने क्षणं ते
कान्तेस्तामन्तकारेर्द्युति-
विजितसुधाभानुनी जानुनी वः ॥ ११
मञ्जीरीभूतभोगिप्रवरगण-
फणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिस-
लयिते स्तूयमानेद्युसद्भिः।
बिभ्रत्यौ विभ्रमं वः स्फटिक-
मणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खन्दुशुभ्रे भृशमिह
भक्तां मानसे शूलपाणेः ॥२३
अस्तोकस्तोमशस्त्रैपचिति-
ममलांभूरिभावोपहारैः
कुर्वद्भिस्सर्वदोषैः सतत-
मभिवृतौ ब्रह्मविद्देवलाद्यै:।

सम्यक्सम्पूज्यमानाविह
हृदिसरसीवानिशं युष्मदीये
शर्वस्य कीङतां तौ प्रपदवर-
बृहत्कच्छपावच्छभासौ ॥२४
याः स्वस्यैकांशपातादति-
बहुलगलद्रक्त वक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन् प्राङ्निज-
मचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयु-
गदृशः कस्मषप्लोप्लोषकल्या:
कल्याणं फुल्लमाल्यप्रकर-
विलसिता वः प्रणद्धाहिवल्लभः ।।२५
प्रह्व्ः प्राचीनबर्हिः प्रमुख-
सुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्नैरविरत-:
ममला भूरिनीराजिताया।

प्रोदग्राग्रा प्रदेयात्ततिरिव
रुचिरातारकाणां नितान्तं
नीलग्रीवस्य पादाम्बुरुह-
विलसितास्रानखालीसुखं वः ॥ २६
सत्याः सत्याननेन्दावपि
सविधगते ये विकासंदधाते
स्वान्ते स्वान्ते लभन्ते श्रिय-
मिहसरसीवामरायेदधानः।
लोल लोलम्बकानां कुलमि-
वसुधियां सेवते येसदास्तां
भूत्यै भूत्यैणपाणेर्विमल-
तररुचस्तेपदाम्भोरुहे वः॥२७
येषां रागादिदोषाक्षतमिति
यतयो यान्ति मुक्ति प्रसादा-
द्येवा नम्रात्ममूर्तिर्द्युसदुषि-
परिषन्मूर्ध्निशेषायमाणाः।

श्रीकण्ठस्यारुणोद्यच्चरणसर-
सिजप्रोत्थितास्ते भवाख्या-
त्पारावाराच्चिरं वो दुरित-
हतिकृतस्तारयेयुः परागाः ॥२८
भूम्ना यस्यास्तसीस्ना भुवन-
मनुसृतं यत्परं धामधान्नां
साम्नामाम्नायतत्वं यदपि च
परमं यद्गुणातीतमाद्यम् ।
यच्चाहोहन्निरीहं गहनमिति-
मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महित-
महरहर्मोहरोहं निहन्तु ॥२९

इति श्रीमत्परमहंस परिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ

॥ शिवकेशादिपादान्तवर्णनस्तोत्रं सम्पूर्णम् ॥