शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः २३
ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।
तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् १ ।
तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ।
त्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् २ ।
सूत उवाच ।
साधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ।
भवंतो वै महाधन्याः पवित्राः कुलभूषणाः ३ ।
येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ।
सदा शिवकथा लोके वल्लभा भवतां सदा ४ ।
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।
उद्धृतञ्च कुलं तेषां ये शिवं समुपासते ५ ।
मुखे यस्य शिवनाम सदाशिवशिवेति च ।
पापानि न स्पृशंत्येव खदिरांगारंकयथा ६ ।
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ।
तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ७ ।
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः ।
तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ८ ।
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा ।
तस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ९ ।
शिवनामविभूतिश्च तथा रुद्रा क्ष एव च ।
एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् 1.23.१० ।
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।
तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ११ ।
तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक् ।
एवं योनविजानाति सपापिष्ठो न संशयः १२ ।
विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम् ।
नास्ये शिवमयी वाणी तं त्यजेदधमं यथा १३ ।
शैवं नाम यथा गंगा विभूतिर्यमुना मता ।
रुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी १४ ।
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।
एकतो वेणिकायाश्च स्नानजंतुफलं बुधैः १५ ।
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ।
समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः १६ ।
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ।
धार्यते त्रितयं तच्च दर्शनात्पापहारकम् १७ ।
ऋष्य ऊचुः ।
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।
तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत १८ ।
सूत उवाच ।
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।
तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः १९ ।
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।
भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना 1.23.२० ।
कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ।
महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् २१ ।
वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ।
शृणुत प्रीतितो विप्राः सर्वपापहरं परम् २२ ।
शिवेति नामदावाग्नेर्महापातकपर्वताः ।
भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः २३ ।
पापमूलानि दुःखानि विविधान्यपि शौनक ।
शिवनामैकनश्यानि नान्यनश्यानि सर्वथा २४ ।
स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः ।
शिवनामजपासक्तो यो नित्यं भुवि मानव २५ ।
भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ।
येषां भवति विश्वासः शिवनामजपे मुने २६ ।
पातकानि विनश्यंति यावंति शिवनामतः ।
भुवि तावंति पापानि क्रियंते न नरैर्मुने २७ ।
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ।
शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः २८ ।
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये ।
संसारमूलपापानि तानि नश्यंत्यसंशयम् २९ ।
संसारमूलभूतानां पातकानां महामुने ।
शिवनामकुठारेण विनाशो जायते ध्रुवम् 1.23.३० ।
शिवनामामृतं पेयं पापदावानलार्दितैः ।
पापदावाग्नितप्तानां शांतिस्तेन विना न हि ३१ ।
शिवेति नामपीयूषवर्षधारापरिप्लुताः ।
संसारदवमध्येपि न शोचंति कदाचन ३२ ।
शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ।
तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ३३ ।
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ।
शिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ३४ ।
यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता ।
तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ३५ ।
कृत्वाप्यनेकपापानि शिवनामजपादरः ।
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ३६ ।
भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने ।
तथा तावंति दग्धानि पापानि शिवनामतः ३७ ।
यो नित्यं भस्मपूतांगः शिवनामजपादरः ।
संतरत्येव संसारं सघोरमपि शौनक ३८ ।
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।
न लिप्यते नरः पापैः शिवनामजपादरः ३९ ।
विलोक्य वेदानखिलाञ्छिवनामजपः परम् ।
संसारतारणोपाय इति पूर्वैर्विनिश्चितः 1.23.४० ।
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ।
शिवनाम्नो महिमानं सर्वपापापहारिणम् ४१ ।
पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी ।
शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ४२ ।
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ।
इन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ४३ ।
तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ।
शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ४४ ।
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।
शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ४५ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशोऽध्यायः २३ ।