शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः ०५
सूत उवाच ।।
अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः ।।
विचचार महीं पश्यञ्छिवलिंगानि भक्तितः ।। १ ।।
पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ।।
ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ।। २ ।।
अथ तं विचरंतं कौ नारदं दिव्यदर्शनम् ।।
ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः ।। ३ ।।
शिरसा सुप्रणम्याशु गणावूचतुरादरात् ।।
गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ।। ४ ।।
शिवगणावूचतुः ।।
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्या वयोर्वचः ।।
तवापराधकर्तारावावां विप्रौ न वस्तुतः ।। ५ ।।
आवां हरगणौ विप्र तवागस्कारिणौ मुने ।।
स्वयम्बरे राजपुत्र्या मायामोहितचेतसा ।। ६ ।।
त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ।।
ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ।। ७ ।।
स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ।।
सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ।। ८ ।।
सूत उवाच ।।
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ।।
प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ।। ९ ।।
नारद उवाच ।।
शृणुतं मे महादेव गणा मान्यतमौ सताम् ।।
वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम्।।! 2.1.5.१०।।
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशात् युवम् ।।
सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः ।। ११ ।।
यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ।।
शापोद्धारमहं वच्मि क्षमथा मघमद्य मे ।। १२ ।।
वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ।।
स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ ।। १३ ।।
सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रियौ ।।
शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ।। १४ ।।
सूत उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ।।
उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ।। १५ ।।
नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ।।
विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः ।। १६ ।।
काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम् ।।
शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम् ।। १७ ।।
दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ।।
आनर्च परम प्रीत्या परमानन्दसंयुतः ।। १८ ।।
स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ।।
नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ।। ।।१९।।
ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ।।
शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः ।। 2.1.5.२० ।।
नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ।।
पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः ।।२१।।
नारद उवाच ।।
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ।।
त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ।। २२ ।।
भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ।।
दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम् ।। २३ ।।
न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ।।
चरित्रं विविधं तस्य निवेदय मम प्रभो ।। २४ ।।
निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम् ।।
शिवतत्त्वं न जानामि मोहितश्शिवमायया ।।२५।।
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः ।।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ।। २६ ।।
तदन्ते च कथं देवस्स तिष्ठति महेश्वरः ।।
कथं प्रसन्नतां याति शंकरो लोकशंकरः ।। २७ ।।
संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ।।
किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ।। २८ ।।
सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ।।
भक्तप्रयासं स महान्न पश्यति दयापरः ।। २९ ।।
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः ।।
महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः ।। 2.1.5.३० ।।
तस्याविर्भावमाख्याहि चरितानि विशेषतः ।।
उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ।।३१।।
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि।।
एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ ।।३२।।
तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः।।
प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च।।३३।।
बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो।।
अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ।।३४।।
इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि।।
उवाच वचनं तत्र ब्रह्मा लोकपितामहः।।३५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः।।५।।