शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः १४

ऋषय ऊचुः ।। ।।
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ।।
कैः पुष्पैः पूजितश्शंभुः किं किं यच्छति वै फलम् ।।१।।
।। सूत उवाच ।। ।।
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ।।
कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् ।।२।।
एष एव विधिः पृष्टो नारदेन महर्षिणा ।।
प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ।।३।।
ब्रह्मोवाच।।
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ।।
शंखपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ।।४।।
एतैश्च लक्षसंख्याकैः पूजितश्चेद्भवेच्छिवः ।।
पापहानिस्तथा विप्र लक्ष्मीस्स्यान्नात्र संशयः ।। ५।।
विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ।।
बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम् ।। ६ ।।
शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ।।
पलैः षोडशभिः प्रत्थः पलं टंकदशस्मृतः ।। ७ ।।
अनेनैव तु मानेन तुलामारोपयेद्यदा।।
सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ।।८।।
राज्यस्य कामुको यो वै पार्थिवानां च पूजया ।।
तोषयेच्छंकरं देवं दशकोष्ट्या मुनीश्वराः ।। ९ ।।
लिंगं शिवं तथा पुष्पमखण्डं तंदुलं तथा ।।
चर्चितं चंदनेनैव जलधारां तथा पुनः ।। 2.1.14.१० ।।
प्रतिरूपं तथा मंत्रं बिल्वीदलमनुत्तमम् ।।
अथवा शतपत्रं च कमलं वा तथा पुनः ।।११।।
शंखपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ।।
सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ।।१२।।
धूपं दीपं च नैवेद्यमर्घं चारार्तिक तथा ।।
प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ।। ३३ ।।
कृत्वा सांगं तथा भोज्यं कृतं येन भवेदिह ।।
तस्य वै सर्वथा राज्यं शंकरः प्रददाति च ।। १४ ।।
प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ।।
कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम् ।। १५।।
रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ।।
कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः।।१६।।
विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ।।
वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ।। १७ ।।
उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ।।
मारणे वै तु लक्षेण मोहने तु तदर्धतः ।। १८ ।।
सामंतानां जये चैव कोटिपूजा प्रशस्यते ।।
राज्ञामयुतसंख्यं च वशीकरणकर्मणि ।।१९।।
यशसे च तथा संख्या वाहनाद्यैः सहस्रिका ।।
मुक्तिकामोर्चयेच्छंभुं पंचकोट्या सुभक्तितः ।। 2.1.14.२० ।।
ज्ञानार्थी पूजयेत्कोट्या शंकरं लोक शंकरम् ।।
शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ।। २१ ।।
तथा मृत्युंजयो जाप्यः कामनाफलरूपतः ।।
पंचलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ।। २२ ।।
लक्षेण भजते कश्चिद्द्वितीये जातिसंभवः ।।
तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ।। २३ ।।
पंचमं च यदा लक्षं फलं यच्छत्यसंशयम् ।।
अनेनैव तु मंत्रेण दशलक्षे फलं भवेत् ।। २४ ।।
मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ।।
लक्षसंख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम ।। २५ ।।
आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनश्चरेत् ।।
पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ।।२६।।
रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ।।
अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ।।२७।।
भुक्तिमुक्तिफलं तस्य तुलस्याः पूजयेद्यदि ।।
अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा ।। २८ ।।
जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ।।
रोगोच्चाटनकानीह करवीराणि वै क्रमात् ।।२९।।
बंधुकैर्भूषणावाप्तिर्जात्यावाहान्न संशयः ।।
अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात्।। ।।2.1.14.३०।।
शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ।।
मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ।।३१।।
यूथिकाकुसुमैश्शस्यैर्गृहं नैव विमुच्यते ।।
कर्णिकारैस्तथा वस्त्रसंपत्तिर्जायते नृणाम् ।।३२।।
निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ।।
बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ।।३३।।
शृङ्गारहारपुष्पैस्तु वर्द्धते सुख सम्पदा ।।
ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ।। ३४ ।।
राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ।।
एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ।।३५।।
विद्यते कुसुमं तन्न यन्नैव शिववल्लभम्।।
चंपकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ।। ३६।।
अतः परं च धान्यानां पूजने शंकरस्य च ।।
प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ।। ३७ ।।
तंदुलारोपणे नॄणां लक्ष्मी वृद्धिः प्रजायते ।।
अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ।।३८।।
षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ।।
पलद्वयं तथा लक्षमानेन समदाहृतम् ।।३९।।
पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ।।
शिवोपरि न्यसेत्तत्र तंदुलार्पणमुत्तमम् ।।2.1.14.४०
उपरि श्रीफलं त्वेकं गंधपुष्पादिभिस्तथा ।।
रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत्।।।। ४१ ।।
प्रजापत्यद्वयं रौप्यमासंख्या च दक्षिणा ।।
देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ।। ४२ ।।
आदित्यसंख्यया तत्र ब्राह्मणान्भोजयेत्ततः ।।
लक्षपूजा तथा जाता साङ्गश्च मन्त्रपूर्वकम् ।। ४३ ।।
शतमष्टोत्तरं तत्र मंत्रे विधिरुदाहृतः।।
तिलानां च पलं लक्षं महापातकनाशनम् ।। ४४ ।।
एकादशपलैरेव लक्षमानमुदाहृतम् ।।
पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ।। ४५ ।।
भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ।।
महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम् ।। ४६ ।।
यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ।।
प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः ।। ४७ ।।
पलद्वययुतं तत्र मानमेतत्पुरातनम् ।।
यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी ।। ४८ ।।
प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ।।
गोधूमान्नैस्तथा पूजा प्रशस्ता शंकरस्य वै ।। ४९ ।।
संततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ।।
द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ।। 2.1.14.५० ।।
मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ।।
प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः ।।५१।।
पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ।।
ब्राह्मणाश्च तथा भोज्या रुद्रसंख्याप्रमाणतः ।। ५२ ।।
प्रियंगुपूजनादेव धर्माध्यक्षे परात्मनि ।।
धर्मार्थकामा वर्द्धंते पूजा सर्वसुखावहा ।। ५३ ।।
प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः।।
ब्रह्मभोजं तथा प्रोक्तमर्कसंख्याप्रमाणतः।।५४।।
राजिकापूजनं शंभोश्शत्रोर्मृत्युकरं स्मृतम्।।
सार्षपानां तथा लक्षं पलैर्विशतिसंख्यया ।।५५।।
तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ।।
आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम्।।५६।।
वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ।।
मरीचिसंभवा पूजा शत्रोर्नाशकरी स्मृता ।। ५७ ।।
आढकीनां दलैश्चैव रंजयि त्वार्चयेच्छिवम् ।।
नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ।।५८।।
धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ।।
लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ।।५९।।
प्रस्थानां च तथा चैकं शंखपुष्पसमुद्भवम् ।।
प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ।।2.1.14.६०।।
प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ।।
यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम् ।। ६१ ।।
प्रस्थैर्विंशतिकैश्चैव मल्लिकामान मुत्तमम् ।।
तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ।।६२।।
ततश्च द्विगुणं मानं करवीरभवे स्मृतम् ।।
निर्गुंडीकुसुमे मानं तथैव कथितं बुधैः ।। ६३ ।।
कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ।।
बंधुजीवे तथा मानं प्रस्थानं दशकेन च ।।६४।।
इत्याद्यैर्विविधै मानं दृष्ट्वा कुर्याच्छिवार्चनम् ।।
सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः ।। ६५ ।।
अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ।।
यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ।। ६६ ।।
विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ।।
पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ।। ६७ ।।
ज्वरप्रलापशांत्यर्थं जल धारा शुभावहा ।।
शतरुद्रियमंत्रेण रुद्रस्यैकादशेन तु ।। ६८ ।।
रुद्रजाप्येन वा तत्र सूक्तेन् पौरुषेण वा ।।
षडंगेनाथ वा तत्र महामृत्युंजयेन च ।। ६९ ।।
गायत्र्या वा नमोंतैश्च नामभिः प्रणवादिभिः ।।
मंत्रैवाथागमोक्तैश्च जलधारादिकं तथा ।।2.1.14.७०।।
सुखसंतानवृद्ध्यर्थं धारापूजनमुत्तमम् ।।
नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ।। ७१ ।।
घृतधारा शिवे कार्या यावन्मंत्रसहस्रकम् ।।
तदा वंशस्य विस्तारो जायते नात्र संशयः ।। ।। ७२ ।।
एवं मदुक्तमंत्रेण कार्यं वै शिवपूजनम् ।।
ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ।। ७३ ।।
केवलं दुग्धधारा च तदा कार्या विशेषतः ।।
शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ।। ७४ ।।
तस्या संजायते जीवसदृशी बुद्धिरुत्तमा ।।
यावन्मंत्रायुतं न स्यात्तावद्धाराप्रपूजनम् ।। ७५ ।।
यदा चोच्चाटनं देहे जायते कारणं विना ।।
यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम् ।। ७६ ।।
स्वगृहे कलहो नित्यं यदा चैव प्रजायते ।।
तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ।। ७७ ।।
शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ।।
कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्धुवं भवेत् ।। ७८ ।।
मासि तेनैव तैलेन भोगवृद्धिः प्रजायते ।।
सार्षपेनैव तैलेन शत्रुनाशो -भवेद्ध्रुवम् ।। ७९ ।।
मधुना यक्षराजो वै गच्छेच्च शिवपूजनात ।।
धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ।। 2.1.14.८० ।।
धारा गंगाजलस्यैव भुक्तिमुक्तिफलप्रदा ।।
एतास्सर्वाश्च याः प्रोक्ता मृत्यंजयसमुद्भवाः ।। ८१ ।।
तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ।।
कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसंख्यया ।। ८२ ।।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ।।
एतद्वै सफलं लोके सर्वकामहितावहम् ।। ८३ ।।
स्कंदोमासहितं शंभुं संपूज्य विधिना सह ।।
यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ।।८४ ।।
अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ।।
ततो याति महेशस्य लोकं सर्वसुखावहम् ।।८५।।।
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ।।
रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ।।८६।।
क्रीडते शिवभूतश्च यावदाभूतसंप्लवम् ।।
ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ।। ८७ ।।
इति श्रीशिवमहापुराणे प्रथम खंडे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ।। १४ ।।