शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ०१

शिवपुराणम् - शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)
अध्यायः १
[[लेखकः :|]]
अध्यायः ०२ →

अथ सतीखंडो द्वितीयः प्रारभ्यते ।।

नारद उवाच ।।
विधे सर्वं विजानासि कृपया शंकरस्य च ।।
त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः ।। १।।
त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।।
अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो।।२।।
पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ।।
विधे त्वया महेशानः कैलासनिलयो वशी।।३।।
स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ।।
निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः ।। ४ ।।
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।।
हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम् ।।५।।
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।।
कथमेकशरीरेण द्वयोरप्यात्मजा मता।।६।।
कथं सती पार्वती सा पुनश्शिवमुपागता ।।
एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ।।७।।
सूत उवाच ।।
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ।।
प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ।। ८ ।।
ब्रह्मोवाच ।।
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।।
यां श्रुत्वा सफलं जन्म भविष्यति न संशयः।।९।।
पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ।।
अभवं विकृतस्तात कामबाणप्रपीडितः ।। 2.2.1.१० ।।
धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः।।
धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ।। ११ ।।
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।।
तेनाकार्षं सहाकार्य परमेशेन शंभुना ।। १२ ।।
तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ।।
कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः ।। १३ ।।
अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ।।
उपाया निष्फलास्तेषां मम चापि मुनीश्वर ।। १४ ।।
तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ।।
अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः ।। १५ ।।
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।।
तदीर्षामत्यजं सोहं तं हठं न विमोहितः ।। १६ ।।
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।।
दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ।। १७ ।।
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ।।
रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ।। १८ ।।
सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ।।
मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ।। ।। १९ ।।
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।।
रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः ।। 2.2.1.२० ।।
तया विहरतस्तस्य व्यातीयाय महान् मुने ।।
कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः ।। २१ ।।
ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ।।
महामूढस्य तन्मायामोहितस्य सुगर्विणः ।। २२ ।।
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।।
महाशांतं निर्विकारं निनिxद बहुमोहितः ।। २३ ।।
ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ।।
सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ।।२४।।
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।।
तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः ।।२५।।
यदा नाकारिता पित्रा मायामोहित चेतसा।।
लीलां चकार सुज्ञाना महासाध्वी शिवा तदा।।२६।।
अथागता सती तत्र शिवाज्ञामधिगम्य सा ।।
अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ।। २७ ।।
विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ।।
विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ।। २८ ।।
तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ।।
जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ।।२९।।
सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ।।
सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ।।2.2.1.३०।।।
तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ।।
गतोऽरं तत्र सहसा महाबलपराक्रमः ।।३१।।
महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया।।
सर्वान्स दंडयामास न कश्चिदवशेषितः।३२।।
विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ।।
चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च ।। ३३ ।।
यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ।।
ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ।। ३४ ।।
यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ।।
रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः।।३५।।
मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ।।
रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ।।३६।।
ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ।।
विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ।।३७।।
पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना।।
शंकरेण महेशेन नानालीलावि हारिणा ।।३८।।
जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ।।
पुनस्स कारितो यज्ञः शंकरेण कृपालुना ।।३९।।
रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ।।
यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने ।।2.2.1.४०।। ।।
सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ।।
पतिता पर्वते तत्र पूजिता सुखदायिनी ।। ४१ ।।
ज्वालामुखीति विख्याता सर्वकामफलप्रदा ।।
बभूव परमा देवी दर्शनात्पापहारिणी ।। ४२ ।।
इदानीं पूज्यते लोके सर्वकामफलाप्तये ।।
संविधाभिरनेकाभिर्महोत्सवपरस्परम् ।। ४३ ।।
ततश्च सा सती देवी हिमालयसुता ऽभवत् ।।
तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा ।। ४४ ।।
सा पुनश्च समाराध्य तपसा कठिनेन वै ।।
तमेव परमेशानं भर्त्तारं समुपाश्रिता ।। ४५ ।।
एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ४६ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।