शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः १२

नारद उवाच ।।
ब्रह्मन् शंभुवर प्राज्ञ सम्यगुक्तं त्वयानघ ।।
शिवाशिवचरित्रं च पावितं जन्म मे हितम् ।। १ ।।
इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ।।
कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत् ।। २ ।।
ब्रह्मोवाच ।।
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोखिलैः ।।
यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ।। ३ ।।
मदाज्ञप्तस्सुधीर्दक्षस्समाधाय महाधिपः ।।
अपाद्यष्टुं च तां देवीं तत्कामो जगदंबिकाम् ।। ४ ।।
क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ।।
तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोम्बिकाम् ।। ५ ।।
दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ।।
तपश्चचार नियतस्सं यतात्मा दृढव्रतः ।। ।। ६ ।।
मारुताशी निराहारो जलाहारी च पर्णभुक् ।।
एवं निनाय तं कालं चिंतयन्तां जगन्मयीम् ।। ७ ।।
दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ।।
नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ।। ८ ।।
ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ।।
जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा ।। ९ ।।
ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ।।
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ।। 2.2.12.१० ।।
सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ।।
वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ।। ११ ।।
आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।
तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् ।। १२ ।।
दक्ष उवाच ।।
जगदेव महामाये जगदीशे महेश्वरि ।।
कृपां कृत्वा नमस्तेस्तु दर्शितं स्ववपुर्मम।।१३।।
प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ।।
प्रसीद भक्तवरदे जगन्माये नमोस्तु ते ।।१४।।
ब्रह्मोवाच ।।
इति स्तुता महेशानी दक्षेण प्रयतात्मना ।।
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने ।। १५ ।।
देव्युवाच ।।
तुष्टाहं दक्ष भवतस्सद्भक्त्या ह्यनया भृशम् ।।
वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव ।।१६।।
ब्रह्मोवाच ।।
जगदम्बावचश्श्रुत्वा ततो दक्षः प्रजापतिः ।।
सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ।।१७।।
दक्ष उवाच।।
जगदम्बा महामाये यदि त्वं वरदा मम।।
मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय।।१८।।
मम स्वामी शिवो यो हि स जातो ब्रह्मणस्तुतः ।।
रुद्रनामा पूर्णरूपावतारः परमात्मनः ।। १९।।
तवावतारो नो जातः का तत्पत्नी भवेदतः ।।
तं मोहय महेशानमवतीर्य क्षितौ शिवे ।।2.2.12.२० ।।
त्वदृते तस्य मोहाय न शक्तान्या कदाचन ।।
तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना ।।२१।।
इत्थं कृत्वा सुलीला च भव त्वं हर मोहिनी ।।
ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ।।२२।।
केवलं स्वार्थमिति च सर्वेषां जगतामपि ।।
ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ।। २३ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ।।
प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम्।। २४।।
देव्युवाच।।
तात प्रजापते दक्ष शृणु मे परमं वचः।।
सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा ।।२५।।
अहं तव सुता दक्ष त्वज्जायायां महेश्वरी।।
भविष्यामि न संदेहस्त्वद्भक्तिवशवर्तिनी।।२६।।
तथा यत्नं करिष्यामि तपः कृत्वा सुदुस्सहम् ।।
हरजाया भविष्यामि तद्वरं प्राप्य चानघ ।।२७।।
नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ।।
विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ।।२८।।
अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ।।
मम स्वामी स वै शंभुर्नानारूपधरोपि ह ।। २९ ।।
वरप्रभावाद्भ्रुकुटेरवतीर्णो विधेस्म च ।।
अहं तद्वरतोपीहावतरिष्ये तदाज्ञया ।।2.2.12.३०।।
गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ।।
हरजाया भविष्यामि भूता ते तनयाचिरात् ।।३१।।
इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ।।
पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ।।३२।।
परन्तु पण आधेयो मनसा ते प्रजापते ।।
श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ।।३३।।
यदा भवान् मयि पुनर्भवेन्मंदादरस्तपा ।।
देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम् ।। ३४ ।।
एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।।
अहं तव सुता भूत्वा भविष्यामि हरप्रिया ।। ३५ ।।
ब्रह्मोवाच ।। एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ।।
अंतर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः ।।३६।।
अंतर्हितायां दुर्गायां स दक्षोपि निजाश्रमम् ।।
जगाम च मुदं लेभे भविष्यति सुतेति सा ।।३७।।
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षवरप्राप्तिवर्णनो नाम द्वादशोऽध्यायः ।।१२।।