शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः २१
।। नारद उवाच ।।
समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ ।।
महाद्भुतं श्रुतं नो वै चरितं शिवयोश्शुभम् ।। १ ।।
विवाहश्च श्रुतस्सम्यक् सर्वमोहापहारकः ।।
परमज्ञानसंपन्नो मंगलालय उत्तमः ।।२।।
भूय एव विवित्सा मे चरितं शिवयोश्शुभम् ।।
तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम् ।। ३ ।।
।। ब्रह्मोवाच ।।
सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ।।
यदहं नोदितस्सौम्य शिवलीलानुवर्णने ।। ४ ।।
विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ।।
गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ।। ५ ।।
ततो हरस्स स्वगणस्स्वस्थानं प्राप्य मोदनम ।।
देवर्षे तत्र वृषभादवातरदतिप्रियात् ।। ६ ।।
यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ।।
मुमुदेऽतीव देवर्षे भवाचारकरश्शिवः।।७।।
ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ।।
स्वीयानिर्यापयामास नद्यादीन् गिरिकंदरात् ।।८।।
उवाच चैतास्तान् सर्वान्नंद्यादीनतिसूनृतम् ।।
लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ।। ९ ।।
महेश उवाच ।।
यदाहं च स्मराम्यत्र स्मरणादरमानसाः ।।
समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ।। 2.2.21.१० ।।
इत्युक्ते वामदेवेन नद्याद्यास्स्वगणाश्च ते ।।
महावेगा महावीरा नानास्थानेषु संययुः ।। ११ ।।
ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी ।।
दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ।। १२ ।।
कदाचिद्वन्य पुष्पाणि समाहृत्य मनोहराम् ।।
मालां विधाय सत्यास्तु हारस्थाने स योजयत्।। ३।।
कदाचिद्दर्पणे चैव वीक्षतीमात्मनस्सतीम् ।।
अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत ।। १४ ।।
कदाचित्कुंडलं तस्या उल्लास्योल्लास्य संगतः।।
बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ।। १५।।
सरागौ चरणावस्याः पावकेनोज्ज्वलेन च ।।
निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ।। १६।।
उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ।।
तत कर्णे कथयत्त्यस्याहरो द्रष्टुं तदाननम् ।। १७।।
न दूरमपि गन्तासौ समागत्य प्रयत्नतः।।
अनुबध्नाति नामाक्षी पृष्ठदेशेन्यमानसाम्।। १८।।
अंतर्हितस्तु तत्रैव मायया वृषभध्वजः ।।
तामालिलिंग भीत्या स्वं चकिता व्याकुलाऽभवत्।। १९।।
सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये ।।
चकार भ्रमराकारं मृगनाभिविशेषकम् ।। 2.2.21.२० ।।
हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।।
न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ।।२१।।
अंगदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः।।
तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ।। २२ ।।
कालिकेति समायाति सवर्णा ते सखी त्विमाम् ।।
यास्यत्वस्यास्तथेक्षंत्याः प्रोत्तुंगौ साहसं कुचौ ।। २३ ।।
कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।।
चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ।। २४ ।।
आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ।।
सर्वांगेषु करोति स्म पुष्पाभरणमादरात् ।। २५ ।।
गिरिकुंजेषु रम्येषु सत्या सह महेश्वरः ।।
विजहार समस्तेषु प्रियया भक्तवत्सलः ।। २६ ।।
तया विना स्म नो याति नास्थितो न स्म चेष्टते ।।
तया विना क्षममपि शर्म लेभे न शंकरः ।।२७।।
विहृत्य सुचिरं कालं कैलासगिरिकुंजरे ।।
अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन् ।। २८ ।।
तस्मिन्प्रविष्टे कामे तु वसंतश्शंकरांतिके ।।
वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो ।।२९।।
सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः।
अंभांसि फुल्लपद्मानि पद्मास्सभ्रमरास्तथा।।2.2.21.३०।।
प्रविष्टे तत्र सदृतौ ववौ स मलयो मरुत् ।।
सुगंधिगंधपुष्पेण मोदकश्च सुगंधियुक् ।।३१।।
संध्यार्द्रचन्द्रसंकाशाः पलाशाश्च विरेजिरे ।।
कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ।।३२।।
बभुः पंकजपुष्पाणि सरस्सु संकलाञ्जनान् ।।
संमोहयितुमुद्युक्ता सुमुखी वायुदेवता ।। ३३ ।।
नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ।।
बभुर्मदनकेत्वाभा मनोज्ञाश्शंकरांतिके ।। ३४ ।।
लवंगवल्लीसुरभिगंधेनोद्वास्य मारुतम् ।।
मोहयामास चेतांसि भृशं कामिजने पुरा ।। ३५ ।।
चारु पावकचर्चित्सु सुस्वराश्चूतशालिनः ।।
बभुर्मदनबाणौघपर्यंकमदनावृताः ।। ३६ ।।
अंभांसि मलहीनानि रेजुः फुल्लकुशाशयाः ।।
मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ।। ३७ ।।
तुषारास्सूर्यरश्मीनां संगमादगमन् बहिः ।।
प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ।। ३८ ।।
प्रसन्नास्सह चन्द्रेण ननिषारास्तदाऽभवन् ।।
विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः ।। ३९ ।।
तस्मिन्काले महादेवस्सह सत्या धरोत्तमे ।।
रेमे स सुचिरं छन्दं निकुंजेषु नदीषु च ।। 2.2.21.४० ।।
तथा तेन समं रेजे तदा दाक्षायिणि मुने ।।
यथा हरः क्षणमपि शांतिमाप तया विना ।। ४१ ।।
संभोगविषये देवी सती तस्य मनः प्रिया ।।
विशतीव हरस्यांगे पाययन्निव तद्रसम् ।। ४२ ।।
तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् ।।
स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ।। ४३ ।।
आलापैर्वीक्षितैर्हास्यैस्तथा संभाषणैर्हरः ।।
तस्यादिदेश गिरिजां सपतीवात्मसंविदम् ।। ४४ ।।
तद्वक्त्रचंद्र पीयूषपानस्थिरतनुर्हरः ।।
नानावैशेषिकीं तन्वीमवस्थां स कदाचन ।। ४५ ।।
तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ।।
गुणैरिव महादंती बद्धो नान्यविचेष्टितः ।। ४६ ।।
इति हिमगिरिकुंजप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ।।
क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पंच चान्ये ।। ४७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां द्वितीये सतीखंडे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः ।। २१ ।।