शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः २७

।। ब्रह्मोवाच ।।
एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ।।
तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ।। १ ।।
महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ।।
यद्यज्ञकरणार्थं हि शिवमायाविमोहितः ।। २ ।।
अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ।।
दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ।। ३ ।।
पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ।।
सुमंतुत्रिककंकाश्च वैशंपायन एव च ।। ४ ।।
एते चान्ये च बहवो मुनयो हर्षिता ययु ।।
मम पुत्रस्य दक्षस्य सदारास्ससुता मखम् ।। ५ ।।
तथा सर्वे सुरगणा लोकपाला महोदयाः ।।
तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः ।। ६ ।।
सत्यलोकात्समानीतो नुतोहं विश्वकारकः।।
ससुतस्स परीवारो मूर्तवेदापिसंयुतः ।। ७ ।।
वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ।।
सपार्षदपरीवारस्समानीतो मखं प्रति ।।८।।
एवमन्ये समायाता दक्षयज्ञं विमोहिताः ।।
सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ।। ९ ।।
भवनानि महार्हाणि सुप्रभाणि महांति च ।।
त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ।। 2.2.27.१० ।।
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ।।
सन्मानिता अराजंस्ते सकला विष्णुना मया ।। ११ ।।
वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ।।
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ।। १२ ।।
अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ।।
अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ।। १३ ।।
तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ।।
सायुधास्सपरीवाराः कुतूहलकरास्सदा ।। १४ ।।
उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे।।
सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ।।१५।।
तनूनपादपि निजं चक्रे रूपं सहस्रशः ।।
हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ।। १६ ।।
अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ।।
उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः ।।१७।।
अध्वर्यवोथ होतारस्तावन्तो नारदादयः ।।
सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक् ।। १८।।
गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ।।
संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ।। १९ ।।
द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ।।
वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ।। 2.2.27.२० ।।
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ।।
भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ।। २१ ।।
तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ।।
कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ।। २२ ।।
कपालिभार्येति सती दयिता स्वसुतापि च ।।
नाहूता यज्ञविषये दक्षेणागुणदर्शिना ।। २३ ।।
एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ।।
स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ।। २४ ।।
एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ।।
प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत् ।। २५ ।।
दधीच उवाच ।। ।।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ।।
कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे ।।२६।।
एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ।।
तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ।।२७।।
येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ।।
सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ।। २८ ।।
अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ।।
त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि ।।२९।।
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ।।
त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना।।2.2.27.३०।।
इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ।।
सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये ।।३१।।
सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः।।
दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ।। ३२ ।।
तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ।।
अत्रागतेन देवेशास्सांबेन परमात्मना ।।३३।।
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ।।
तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ।।३४।।
समागते शंकरेऽत्र पावनो हि भवेन्मखः ।।
भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ।। ३५ ।।
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः।।
उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ।।३६।।
मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः।।
समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ।।३७।।
यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ।।
प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः।।३८।।
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ।।
वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह ।। ३९ ।।
तथा सुरगणैस्साकमागतस्सुरराट् स्वयम्।।
तथा यूयं समायाता ऋषयो वीतकल्मषाः ।।2.2.27.४०।।
येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ।।
वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः ।। ।। ४१ ।।
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ।।
कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ।। ४२ ।।
हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ।।
भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ।।४३।।
आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ।।
कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना ।।४४।।
तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ।।
सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ।।४५।।
ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत्।।
सर्वेषां शृण्वतां देवमुनीनां सारसं युतम् ।। ४६ ।।
दधीच उवाच ।।
अयज्ञोयं महाजातो विना तेन शिवेन हि ।।
विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति ।।४७।।
एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ।।
यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ।।४८।।
ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ।।
निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च ।।४९।।
मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ।।
शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ।। 2.2.27.५० ।।
।। दक्ष उवाच ।।
गतः शिवप्रियो विप्रो दधीचो नाम नामतः ।।
अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ।। ५१ ।।
एतच्छुभतरं जातं संमतं मे हि सर्वथा ।।
सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ।। ५२ ।।
विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ।।
वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि।।५३।।
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ।।
यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम् ।। ५४ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ।।
यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः ।। ५५ ।।
इति तन्मखशापो हि वर्णितो मे मुनीश्वर ।।
यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम् ।। ५६ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे यज्ञप्रारंभो नाम सप्तविंशोऽध्यायः ।। २७ ।।