शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ३१
ब्रह्मोवाच ।।
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ।।
अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ।। १ ।।
व्योमवाण्युवाच ।।
रे रे दक्ष दुराचार दंभाचारपरायण ।।
किं कृतं ते महामूढ कर्म चानर्थकारकम् ।।२।।
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ।।
प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम् ।। ३ ।।
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् ।।
ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि ।।४।।
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ।।
समागतायास्सत्याश्च मंगलाया गृहं स्वतः ।।५।।
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ।।
ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः।। ।। ६ ।।
सा सत्येव सदाराध्या सर्वा पापफलप्रदा ।।
त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी ।। ७ ।।
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ।।
माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी ।।८।।
सा सत्येवार्चिता नित्यं संसारभयनाशिनी।।
मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी ।। ९ ।।
सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी ।।
परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ।। 2.2.31.१० ।।
सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ।।
अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ।। ११ ।।
सा सत्येव जगन्माता विष्णु माताविलासिनी ।।
ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ।।१२।।
सा सत्येव तपोधर्मदातादिफलदायिनी ।।
शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा ।।१३।।
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ।।
तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ।।१४।।
शंभुर्हि परमेशानस्सर्वस्वामी परात्परः।।
विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ।।१५।
तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः ।।
युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः ।।१६।।
अनंतधनधान्यानां यागादीनां तथैव च ।।
दर्शनं शंकरस्यैव महत्फलमुदाहृतम् ।।१७।।
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ।।
आदिविद्यावरस्वामी सर्वमंगलमंगलः ।। १८ ।।
तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल ।।
अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति ।।१९।।
अमंगलं भवत्येव पूजार्हाणामपूजया ।।
पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ।।2.2.31.२०।।
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ।।
वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ।। २१ ।।
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ।।
विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती ।।२२।।
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ।।
ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती ।। २३ ।।
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ।।
इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम् ।। २४ ।।
जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती ।।
सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ।। २५ ।।
दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ।।
यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ।। २६ ।।
अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ।।
किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति ।। २७ ।।
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ।।
करिष्यति सहायं तं न ते पश्यामि सर्वथा ।। २८ ।।
यदि देवाः करिष्यंति साहाय्यमधुना तव ।।
तदा नाशं समाप्स्यंति शलभा इव वह्निना ।। २९ ।।
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ।।
सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम् ।। 2.2.31.३० ।।
अमराणां च सर्वेषां शपथोऽमंगलाय ते ।।
करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः ।। ३१ ।।
निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् ।।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ।। ३२ ।।
निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् ।।
अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा।।३३।।
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् ।।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ।। ३४ ।।
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् ।।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ।।३५।।
ब्रह्मोवाच ।।
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ।।
व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ।।३६।।
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः ।।
अकार्षुर्विस्मयं तात मुनयश्च तथा परे ।। ३७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ।। ५१ ।।