शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ३९

ब्रह्मोवाच ।।
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ।।
विप्ररूपमथास्थाय भगवान् भक्तवत्सलः १।।
दधीचं प्राह विप्रर्षिमभिवंद्य जगद्गुरुः।।
क्षुवकार्य्यार्थमुद्युक्तश्शैवेन्द्रं छलमाश्रितः ।।२।।
विष्णुरुवाच ।।
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ।।
वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति ।। ३ ।।
ब्रह्मोवाच ।।
याचितो देवदेवेन दधीचश्शैवसत्तमः ।।
क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ।। ४ ।।
दधीच उवाच ।।
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ।।
भगवान् विप्ररूपेण मायी त्वमसि वै हरिः।।५।।
भूतं भविष्यं देवेश वर्तमानं जनार्दन ।।
ज्ञानं प्रसादाद्रुद्रस्य सदा त्रैकालिकं मम ।।६।।
त्वां जानेहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ।।
आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ।। ७ ।।
जाने तवैव भगवन् भक्तवत्सलतां हरे ।।
छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम् ।।८।।
अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ।।
वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ।। ९ ।।
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ।।
न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ।। 2.2.39.१० ।।
विष्णुरुवाच ।। ।।
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ।।
भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च ।। ११ ।।
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ।।
नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहस्य च ।। १२।।
ब्रह्मोवाच ।।
एवं श्रुत्वापि तद्वाक्यं विष्णोस्स तु महामुनिः ।।
विहस्य निर्भयः प्राह दधीचश्शैवसत्तमः ।। १३ ।।
दधीच उवाच ।।।
न बिभेमि सदा क्वापि कुतश्चिदपि किंचन ।।
प्रभावाद्देवदेवस्य शंभोस्साक्षात्पिनाकिनः ।। १४ ।।
ब्रह्मोवाच ।।
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ।।
चक्रमुद्यम्य संतस्थौ दिधक्षुमुनिसत्तमम् ।। १५ ।।
अभवत्कुंठितं तत्र विप्रे चक्रं सुदारुणम् ।।
प्रभावाच्च तदीशस्य नृपतेस्संनिधावपि ।। १६।।
दृष्ट्वा तं कुंठितास्यं तच्चक्रं विष्णुं जगाद ह ।।
दधीचस्सस्मितं साक्षात्सदसद्व्यक्ति कारणम् ।। १७ ।।
दधीच उवाच ।। ।।
भगवन् भवता लब्धं पुरातीव सुदारुणम् ।।
सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ।।
भवस्य तच्छुभं चक्रं न जिघांसति मामिह ।। १८ ।।
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ।।
ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ।। १९ ।।
ब्रह्मोवाच ।।
स तस्य वचनं श्रुत्वा दृष्ट्वा नि्र्वीर्य्यमानुषम् ।।
ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ।। 2.2.39.२० ।।
चक्रुर्देवास्ततस्तस्य विष्णोस्साहाय्यमादरात् ।।
द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ।।२१।।
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ।।
दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ।। २२ ।।
कुशमुष्टिमथादाय दधीचस्संस्मरन् शिवम् ।।
ससर्ज सर्वदेवेभ्यो वज्रास्थि सर्वतो वशी ।। २३ ।।
शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ।।
दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ।। २४ ।।
दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ।।
प्रज्वलत्सर्वतश्शैवं युगांताग्र्यधिकप्रभम् ।। २५ ।।
नारायणेन्दुमुख्यैस्तु देवैः क्षिप्तानि यानि च ।।
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ।। २६ ।
देवाश्च दुद्रुवुस्सर्वे ध्वस्तवीर्या दिवौकसः ।।
तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ।। २७ ।।
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ।।
आत्मनस्सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ।। २८ ।।
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ।।
मुनिनैकेन देवर्षे दधीचेन शिवात्मना ।। २९ ।।
ततो विष्णुगणान् तान्वै नियुध्य बहुशो रणे ।।
ददाह सहसा सर्वान् दधी चश्शैव सत्तमः ।। 2.2.39.३० ।।
ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ।।
विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ।। ३१ ।।
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ।।
दधीचो देवतादीनां जीवानां च सहस्रकम् ।। ३२ ।।
भूतानां कोटयश्चैव गणानां कोटयस्तथा ।।
अंडानां कोटयश्चैव विश्वमूतस्तनौ तदा ।।३३।।
दृष्ट्वैतदखिलं तत्र च्यावनिस्सततं तदा ।।
विष्णुमाह जगन्नाथं जगत्स्तु वमजं विभुम् ।। ३४ ।।
दधीच उवाच ।।
मायां त्यज महाबाहो प्रतिभासो विचारतः ।।
विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ।। ३५ ।।
मयि पश्य जगत्सर्वं त्वया युक्तमतंद्रितः ।।
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ।। ३६ ।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ।।
ब्रह्मांडं च्यावनिश्शंभुतेजसा पूर्णदेहकः ।। ३७ ।।
ददाह विष्णुं देवेशं दधीचश्शैवसत्तमः ।।
संस्मरञ् शंकरं चित्ते विहसन् विभयस्सुधीः ।।३८।।
दधीच उवाच ।।
मायया त्वनया किं वा मंत्रशक्त्याथ वा हरे ।।
सत्कामायामिमां तस्माद्योद्धुमर्हसि यत्नतः ।।३९।।
ब्रह्मोवाच ।।
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा।।
शंभुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम् ।। 2.2.39.४० ।।
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ।।
योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ।। ४१ ।।
एतस्मिन्नंतरे तत्रागमन्मत्संगतः क्षुवः ।।
अवारयंतं निश्चेष्टं पद्मयोनिं हरिं सुरान् ।। ४२ ।।
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ।।
जगाम निकटं तस्य प्रणनाम मुनिं हरिः ।। ४३ ।।
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ।।
दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ।। ४४ ।।
क्षुव उवाच ।।
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ।।
प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैस्सह ।। ४५ ।।
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्य राज्ञस्सुरगणस्य हि ।।
अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ।।४६।।
अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ।।
हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ।।४७।।
दधीच उवाच ।।
रुद्रकोपाग्निना देवास्सदेवेंद्रा मुनीश्वराः ।।
ध्वस्ता भवंतु देवेन विष्णुना च समं गणैः ।। ४८ ।।
।। ब्रह्मोवाच ।। ।।
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ।।
देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ।। ४९ ।।
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ।।
इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम् ।। 2.2.39.५० ।।
दधीचमभिवंद्यैव क्षुवो निजगृहं गतः ।।
विष्णुर्जगाम स्वं लोकं सुरैस्सह यथागतम् ।। ५१ ।।
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ।।
स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ।। ५२ ।।
कथितस्तव संक्षेपाद्वादः क्षुवदधीचयोः ।।
नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ।। ५३ ।।
य इदं कीत्तयेन्नित्यं वादं क्षुवदधीचयोः ।।
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ।। ।। ५४ ।।
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ।।
मृत्युभीतिभवेन्नैव विजयी च भविष्यति ।। ५५ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम नवत्रिंशोऽध्यायः ।। ३९ ।।