शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ०१

।। श्रीगणेशाय नमः ।।

।। अथ तृतीयः पार्वतीखण्डः प्रारभ्यते ।।

नारद उवाच ।।
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ।।
कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका ।। १ ।।
कथं कृत्वा तपोऽत्युग्रम्पतिमाप शिवं च सा ।।
एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः ।। २ ।।
ब्रह्मोवाच ।।
शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।।
पावनं परमं दिव्यं सर्वपापहरं शुभम् ।। ३ ।।
यदा दाक्षायणी देवी हरेण सहिता मुदा ।।
हिमाचले सुचिक्रीडे लीलया परमेश्वरी ।।४।।
मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ।।
हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ।।५।।
यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ।।
पित्रा दक्षेण तद्यज्ञे संगता परमेश्वरी ।। ६ ।।
तदैव मेनका तां सा हिमाचलप्रिया मुने ।।
शिवलोकस्थितां देवीमारिराधयिषुस्तदा ।।७।।
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।।
त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ।। ८ ।।
समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ।।
सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ।।९।।
नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम्।।
नारदस्योपदेशाद्वै पतिम्प्राप शिवं पुनः ।।2.3.1.१०।।
नारद उवाच।।
ब्रह्मन्विधे महाप्राज्ञ वद मे वदतां वर ।।
मेनकायास्समुत्पतिं विवाहं चरितं तथा।।११।।
धन्या हि मेनका देवी यस्यां जाता सुता सती ।।
अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ।।१२।।
ब्रह्मोवाच।।
शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम्।।
विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ।। १३
अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ।।
पर्वतो हि मुनिश्रेष्ठ महातेजास्समृद्धिभाक् ।। १४ ।।
द्वैरूप्यं तस्य विख्यातं जंगमस्थिरभेदतः ।।
वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ।। १५ ।।
पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ।।
नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ।।१६।।
नानावृक्षसमाकीर्णो नानाशृंगसुचित्रितः।।
सिंहव्याघ्रादिपशुभिस्सेवितस्सुखिभिस्सदा ।। १७ ।।
तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ।।
देवर्षिसिद्धमुनिभिस्संश्रितः शिवसंप्रियः ।। १८ ।।
तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ।।
तपस्सिद्धिप्रदोत्यंतं नानाधात्वाकरः शुभः ।। १९ ।।
स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ।।
विष्ण्वंशोऽविकृतः शैलराजराजस्सताम्प्रियः।।2.3.1.२०।।
कुलस्थित्यै च स गिरिर्धर्म्मवर्द्धनहेतवे ।।
स्वविवाहं कर्त्तुमैच्छत्पितृदेवहितेच्छया ।।२१ ।।
तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ।।
ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ।।२२।।
देवा ऊचुः।।
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।।
कर्त्तव्यं तत्तथैवाशु देवकार्य्येप्सवो यदि ।।२३।।
मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ।।
ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ।। २४ ।।
एवं सर्वमहालाभः सर्वेषां च भविष्यति ।।
युष्माकममराणां च दुःखहानिः पदे पदे ।। २५ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्यापरवचः पितरस्ते विमृश्य च ।।
स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ।। २६ ।।
ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ।।
समुत्सवो महानासीत्तद्विवाहे सुमङ्गले ।। २७ ।।
हर्य्यादयाऽपि ते देवा मुनयश्चापरोखिलाः ।।
आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ।। २८ ।।
उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ।।
सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम् ।।२९।।
महामोदान्विता देवास्ते सर्वे समुनीश्वराः।।
संजग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ।।2.3.1.३०।।
कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ।।
आजगाम स्वभवनं मुदमाप गिरीश्वरः ।।३१।।
ब्रह्मोवाच ।। मेनया हि हिमागस्य सुविवाहो मुनीश्वर।।
प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि ।।३२।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः।।१।।