शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः १४
।। नारद उवाच ।।
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ।।
चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ।। १ ।।
कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ।।
कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ।। २ ।।
भस्मी चकार स कथं शंकरश्च स्मरं वशी ।।
तदपि ब्रूहि सुप्रीत्याद्भुतं तच्चरितं विभोः ।। ३ ।।
कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ।।
कथं प्राप पतिं शंभुमादिशक्तिर्जगत्परा ।।४।।
एतत्सर्वमशेषेण विशेषेण महाबुध ।।
ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने।।५।।
ब्रह्मोवाच ।। पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रतः ।।
वच्म्यहं शंकरं स्मृत्वा सर्वं तच्चरितं शृणु ।। ६ ।।
प्रथमं तारकस्यैव भवं संशृणु नारद।।
यद्वधार्थं महा यत्नः कृतो दैवैश्शिवाश्रयैः।।७।।
मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः।।
त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः।।८।।
दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम्।।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः।।९।।
तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः।।
सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः।। 2.3.14.१ ०।।
दितिश्च दुःखितासीत्सा कश्यपं शरणं गता।।
पुनस्संसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ।। १ १।।
तद्विज्ञाय महेंद्रोऽपि लब्धच्छिद्रो महोद्यमी।।
तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः।।१२।।।
तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह।।
स्वपंत्या दैवयोगेन सप्त सप्ताभवन्सुताः।। १३।।
देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ।।
स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ।। १४।।
पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ।।
चकार सुप्रसन्नं तं मुनिं परमसेवया ऽ १५ ।।
।। कश्यप उवाच ।।
तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ।।
चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ।। १६ ।।
तथा दित्या कृतं पूर्णं तत्तपश्श्रद्धया मुने।।
ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ।। १७ ।।
वजांगनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ।।
नामतुल्यतनुर्वीरस्सुप्रताप्युद्भवाद्बली ।। १८ ।।
जननीशासनात्सद्यस्स सुतो निर्जराधिपम् ।।
बलाद्धृत्वा ददौ दंडं विविधं निर्जरानपि ।। १९।।
दितिस्सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम्।।
अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ।। 2.3.14.२० ।।
तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः।।
देवानत्याजयंस्तस्मात्सदा देवहिते रतः।।२१।।
देवान्मुक्त्वा स वज्रांगस्ततः प्रोवाच सादरम् ।।
शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ।।२२।।
।। वज्रांग उवाच।।
इंद्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ।।
स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ।। २३ ।।
मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ।।
न मे भोगाभिलाषो वै कस्यचि द्भुवनस्य हि ।। २४ ।।
तत्त्वसारं विधे सूत मह्यं वेदविदाम्वर ।।
येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ।। २५ ।।
तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यत ।।
तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ।। २६ ।।
वरांगीं नाम तां दत्त्वा तस्मै दितिसुताय वै ।।
अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ।।२७।।
ततो दैत्यस्य वज्रांगस्सात्विकं भावमाश्रितः।।
आसुरं भावमुत्सृज्य निर्वैरस्सुखमाप्तवान्।।२८।।
न बभूव वरांग्या हि हृदि भावोथ सात्विकः।।
सकामा स्वपतिं भेजे श्रद्धया विविधं सती ।।२९।।
अथ तत्सेवनादाशु संतुष्टोऽभून्महाप्रभुः ।।
स वज्रांगः पतिस्तस्या उवाच वचनं तदा ।।2.3.14.३०।।
वज्रांग उवाच।।
किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते ।।
तच्छुत्वानम्य तं प्राह सा पतिं स्वमनोरथम् ।। ३१ ।।
वरांग्युवाच ।।
चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते ।।
महाबलं त्रिलोकस्य जेतारं हरिदुःखदम् ।। ३२ ।।
ब्रह्मोवाच ।।
इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः।।
उवाच हृदि स ज्ञानी सात्विको वैरवर्जितः ।।३३।।
प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते ।।
किं कुर्यां हि क्व गच्छेयं कथं नश्ये न मे पणः ।। ३४ ।।
प्रियामनोरथश्चैव पूर्णस्स्यात्त्रिजगद्भवेत् ।।
क्लेशयुङ्नितरा भूयो देवाश्च मुनयस्तथा ।। ३५ ।।
न पूर्णस्स्यात्प्रियाकामस्तदा मे नरको भवेत्।।
द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान् ।।३६।।
वज्रांग इत्थं बभ्राम स मुने धर्मसंकटे ।।
बलाबलं द्वयोस्तत्र विचिचिंत च बुद्धितः ।। ३७ ।।
शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः ।।
तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट् ।।३८।।
तदर्थमकरोत्तीव्रं तपोन्यद्दुष्करं स तु ।।
मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेंद्रियः ।।३९।।
वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् ।।
वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा ।। 2.3.14.४० ।।
वज्रांगस्तु तदा प्रीतं मां दृष्ट्वा स्थितं विभुम् ।।
सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम् ।। ४१ ।।
वज्रांग उवाच।।
सुतं देहि स्वमातुर्मे महाहितकरं प्रभो ।।
महाबलं सुप्रतापं सुसमर्थं तपोनिधिम् ।।४२।।
ब्रह्मोवाच।।
इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने ।।
अया स्वधाम तद्दत्त्वा विमनास्सस्मरच्छिवम् ।।४३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्रांगोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।।