शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः २०

नारद उवाच ।। ।।
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ।।
गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः ।। १ ।।
।। ब्रह्मोवाच ।। ।।
यदा भस्म चकाराशु तृतीयनयनानलः ।।
शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ।।२।।
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।
सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम् ।।३।।
सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ।।
सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना ।। ४ ।।
तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ।।
गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ।। ५ ।।
संदग्धुकामः स शुचिज्वालामालातिदीपितः ।।
स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा ।। ६ ।।
अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ।।
वाडवांतकमार्षं च सौम्यज्वालामुखं मुने ।।७।।
तं वाडवतनुमहं समादाय शिवेच्छया ।।
सागरं समगां लोकहिताय जगतां पतिः ।। ८ ।।
आगतं मां समालोक्य सागरस्सांजलिर्मुने ।।
धृत्वा च पौरुषं रूपमागतस्संनिधिं मम ।। ९ ।।
सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ।।
स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ।।2.3.20.१०।।
सागर उवाच ।।
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ।।
तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ।। ११ ।।
अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ।।
प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन् ।। १२ ।।
ब्रह्मोवाच ।।
शृणु तात महाधीमन्सर्वलोकहितावह ।।
वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा ।। १३ ।।
अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ।।
दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ।।१४।।
प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ।।
तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम् ।।१५।।
वाडवं रूपमाधत्त तमादायाग तोत्र ह ।।
निर्दिशामि जलाधार त्वामहं करुणाकरः ।। १६ ।।
अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ।।
ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम् ।।१७।।
यदात्राहं समागम्य वत्स्यामि सरितां पते ।।
तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः ।।१८।।
भोजनं तोयमेतस्य तव नित्यं भविष्यति ।।
यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम् ।। १९ ।।
ब्रह्मोवाच ।।
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ।।
ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ।। 2.3.20.२० ।।
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।।
वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ।। २१ ।।
ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ।।
अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम् ।।२२।।
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ।।
देवा बभूवुः सुखिनो मुनयश्च महामुने २३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः ।। २० ।।