शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३२

।। ब्रह्मोवाच ।।
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ।।
शोकेनासाधुनयना हृदयेन विदूयता ।। १ ।।
मेनोवाच ।।
शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ।।
पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ।। २ ।।
निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना ।।
श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ।।३।।
तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ।।
कुरूपशीलनम्मे हि सुलक्षणयुतां निजाम् ।। ४ ।।
न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ।।
त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ।।५।।
गले बद्ध्वांबिकां रज्ज्वा यास्यामि गहनं वनम् ।।
महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ।।६।।
इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ।।
त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ।। ७ ।।
एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ।।
संस्मृता ऋषयस्सद्यो विरहव्याकुलात्मना ।।८।।
ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ।।
तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ।। ९ ।।
अरुन्धती तथाऽऽयाता साक्षात्सिद्धिरिवापरा ।।
तान्द्रष्ट्वा सूर्यसंकाशान्विजहौ स्वजपं हरः ।। 2.3.32.१० ।।
स्थित्वाग्रे ऋषयः श्रेष्ठं नत्वा स्तुत्वा शिवं मुने ।।
मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ।। ११ ।।
ततो विस्मयमापन्ना नम स्कृत्य स्थिताः पुनः ।।
प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ।। १२ ।।
ऋषय ऊचुः ।।
सर्वोत्कृष्टं महाराज सार्वभौम दिवौकसाम् ।।
स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनस्सकलोत्तमम् ।।१३।।
तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ।।
अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ।।१४।।
वाङ्मनःकायजं किंचित्पुण्यं स्मरणसम्भवम् ।।
तत्सर्वं संगतं चाद्य स्मरणानुग्रहात्तव।।१५।।
यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ।।
किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ।।१६।।
सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ।।
मनोरथपथं नैव गच्छसि त्वं कथंचन ।। १७ ।।
वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ।।
वाचालत्वञ्च मूकस्य रंकस्य निधिदर्शनम् ।। १८ ।।
पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायः प्रसवस्तथा ।।
दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ।। १९ ।।
अद्य प्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ।।
जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ।। 2.3.32.२० ।।
अत्र किं बहुनोक्तेन सर्व था मान्यतां गताः ।।
दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ।।२१।।
पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ।।
सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ।। २२ ।।
।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ।।
लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ।। २३ ।।
शिव उवाच ।।
ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ।।
युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ।। २४ ।।
ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका ।।
साधनीया विशेषेण लोकानां सिद्धिहेतवे ।। २५ ।।
देवानां दुःखमुत्पन्नं ता रकात्सुदुरात्मनः ।।
ब्रह्मणा च वरौ दत्तः किं करोमि दुरासदः ।। २६ ।।
मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ।।
तास्सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ।। २७ ।।
तथा च कर्तुकामोहं विवाहं शिवया सह ।।
तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ।। २८ ।।
तस्यै परं फलं देयमभीष्टं तद्धितावहम् ।।
एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ।। २९ ।।
पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् ।।
अहं पावितवान्कालीं यतो लीलाविशारदः ।। 2.3.32.३० ।।
मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ।।
दातुकामावभूतां च स्वसुतां वेदरीतितः ।।३१।।
देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् ।।
तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्ण्णवात्मना ।। ३२ ।।
तच्छ्रुत्वा तौ सुनिर्विण्णो तद्धीनौ संबभूवतुः ।।
स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ।। ३३ ।।
तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ।।
तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ।।३४।।
कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ।।
सर्वथा करणीयन्तद्यथा स्यात्कार्य्यमुत्तमम् ।।३५।।
उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ।।
स्वीकृतस्त द्विवाहो मे वरो दत्तश्च तादृशः ।। ३६ ।।
अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ।।
तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ।। ३७ ।।
भवद्भिः कल्पितो यो वै विधिस्स्यादधिकस्ततः ।।
भवताञ्चैव कार्य्यं तु भवन्तः कार्य्यभागिनः ।। ३८ ।।
।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ।।
आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः ।।३९।।
वयं धन्या अभूवँश्च कृतकृत्याश्च सर्वथा ।।
वंद्या याताश्च सर्वेषां पूजनीया विशेषतः।।2.3.32.४०।।
ब्रह्मणा विष्णुना यो वै वन्द्यस्सर्वार्थसाधकः।।
सोस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ।।४१।।
अयं वै जगतां स्वामी पिता सा जननी मता।।
अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ।।४२।।
ब्रह्मोवाच।।
इत्युक्त्वा ह्यृषयो दिव्या नमस्कृत्य शिवं तदा ।।
गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम्।।४३।।
दृष्ट्वा तां च पुरं दिव्या मृषयस्तेऽतिविस्मिताः ।।
वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ।। ४४ ।।
।। ऋषय ऊचुः ।।
पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमव त्पुरम् ।।
यस्मादेवंविधे कार्य्ये शिवेनैव नियोजिताः ।।४५।।
अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ।।
विशेषेणामरावत्या दृश्य ते पुरमुत्तमम् ।। ४६ ।।
सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ।।
मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च ।। ४७ ।।
सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ।।
गृहे गृहे विचित्राश्च वृक्षात्स्वर्गसमुद्भवाः ।। ४८ ।।
तोरणानां तथा लक्ष्मीर्दृश्यते च गृहेगृहे ।।
विविधानि विचित्राणि शुकहंसैर्विमानकैः ।। ४९ ।।
वितानानि विचित्राणि चैलवत्तोरणैस्सह ।।
जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ।। 2.3.32.५० ।।
उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ।।
नराश्च देवतास्सर्वे स्त्रियश्चाप्सरसस्तथा ।। ५१ ।।
कर्मभूमौ याज्ञिकाश्च पौराणास्स्वर्गकाम्यया ।।
कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ।। ५२ ।।
यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ।।
दृष्ट्रमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ।।५३।।
।। ब्रह्मोवाच ।।
इत्येवमृषिवर्य्यास्ते वर्णयन्तः पुरश्च तत्।।
गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ।। ५४ ।।
तान्द्रष्ट्वा सूर्यसंकाशान् हिमवान्विस्मितोऽब्रवीत् ।।
दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ।। ५५ ।।
।। हिमवानुवाच ।।
सप्तैते सूर्य्यसंकाशाः समायांति मदन्तिके ।।
पूजा कार्य्या प्रयत्नेन मुनीनां च मयाधुना ।। ५६ ।।
वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः।।
येषां गृहे समायान्ति महात्मानो यदीदृशाः ।। ५७ ।।
ब्रह्मोवाच।।
एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ।।
सन्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम् ।।५८।।
कृतांजलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ।।
पूजां चकार तेषां वै बहुमानपुरस्सरम्।।५९।।
हितास्सप्तर्षयस्ते च हिमवन्तन्नगेश्वरम्।।
गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम् ।। 2.3.32.६० ।।
यथाग्रतश्च तान्कृत्वा धन्या मम गृहाश्रमः ।।
इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम् ।। ६१ ।।
आसनेषूपविष्टेषु तदाज्ञप्तस्स्वयं स्थितः ।।
उवाच हिमवाँस्तत्र मुनीञ्ज्योतिर्मयास्तदा ।।६२।।
हिमालय उवाच ।।
धन्यो हि कृतकृत्योहं सफलं जीवित मम ।।
लोकेषु दर्शनीयोहं बहुतीर्थसमो मतः ।।६३।।
यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः ।।
पूर्णानां भवतां कार्य्यं कृपणानां गृहेषु किम् ।।६४।।
तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ।।
कथनीयं सुदयया सफलं स्याज्जनुर्मम ।।६५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ।।३२।।