शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३६

ब्रह्मोवाच ।।
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ।।
विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः ।।१।।
हिमालय उवाच ।।
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ।।
मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः ।। २ ।।
वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ।।
यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ।। ३ ।।
ब्रह्मोवाच ।।
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ।।
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ।।४।।
शैला ऊचुः ।।
अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ।।
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ।।५।।
प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ।।
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ।।६।।
ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ।।
सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि ।। ७ ।।
अरुन्धती च तां मेनां बोधयामास कारणात् ।।
नानावाक्यसमूहेनेतिहासैर्विविधैरपि ।। ८ ।।
अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ।।
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ।। ९ ।।
अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ।।
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः।। 2.3.36.१० ।।
हिमाचल उवाच ।।
सप्तर्षयो महाभागा वचः शृणुत मामकम् ।।
विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम् ।। ११ ।।।
मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ।।
ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ।। १२।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ।।
भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत्।। १३।।
उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा।।।
अयं भागो मया तस्मै दातव्य इति निश्चितम् ।। १४।।
।। ऋषय ऊचुः ।।
शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ।।
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ।। १५।।
हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ।।
धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः ।। १६ ।।
।। ब्रह्मोवाच ।।
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ।।
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ।।१७।।
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।।
शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा।। १८।।
इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ।।
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ।। १९ ।।
अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ।।
गुणैश्च लोभयामास शिवस्य परमा सती ।। 2.3.36.२० ।।
हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ।।
लौकिकाचारमाधाय मंगलायनमुत्तमम् ।। २१ ।।
ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ।।
परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम्।।२२।।
तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ।।
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ।।२३।।
ऋषय ऊचुः ।।
देवदेव महादेव परमेश महाप्रभो ।।
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ।। २४ ।।
बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ।।
सेतिहासं महेशान प्रबुद्धोसौ न संशयः।।२५।।
वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ।।
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ।।२६।।
गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ।।
विवाहय यथा रीतिः पार्वतीमात्मजन्मने ।।२७।।
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः।।
प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ।।२८।।
महेश उवाच ।।
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ।।
यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ।। २९ ।।
।। ब्रह्मोवाच ।।
तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ।।
प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ।। 2.3.36.३० ।।
ऋषय ऊचुः ।।
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ।।
ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ।। ३१ ।।
तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ।।
सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ।।३२।।
एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ।।
सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः ।।३३।।
ब्रह्मोवाच ।।
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ।।
स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम् ।। ३४ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः।।३६।।