शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ४९
।। ब्रह्मोवाच ।।
अथो ममाज्ञया विप्रैस्संस्थाप्यानलमीश्वरः ।।
होमं चकार तत्रैवमङ्के संस्थाप्य पार्वतीम् ।। १ ।।
ऋग्यजुस्साममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः ।।
लाजाञ्जलिं ददौ कालीभ्राता मैनाकसंज्ञकः ।। २ ।।
अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा।।
वह्निप्रदक्षिणां तात लोकाचारं विधाय च।।३।।
तत्राद्भुतमलञ्चक्रे चरितं गिरिजापतिः ।।
तदेव शृणु देवर्षे तवस्नेहाद्ब्रवीम्यहम् ।।४।।
तस्मिन्नवसरे चाहं शिवमायाविमोहितः ।।
अपश्यञ्चरणे देव्या नखेन्दुञ्च मनोहरम् ।।५।।
दर्शनात्तस्य च तदाऽभूवं देवमुने ह्यहम् ।।
मदनेन समाविष्टोऽतीव क्षुभितमानसः ।।६।।
मुहुर्मुहुरपश्यं वै तदंगं स्मरमोहितः ।।
ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्भुवि ।।७।।
रेतसा क्षरता तेन लज्जितोहं पितामहः ।।
मुने व्यमर्द तच्छिन्नं चरणाभ्यां हि गोपयन् ।। ८ ।।
तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद ।।
हन्तुमैच्छत्तदा शीघ्रं वां विधिं काममोहितम् ।।९।।
हाहाकारो महानासीत्तत्र सर्वत्र नारद ।।
जनाश्च कम्पिरे सर्व्वे भय मायाति विश्वभृत् ।।2.3.49.१०।।
ततस्तंन्तुष्टुवुश्शम्भुं विष्ण्वाद्या निर्जरा मुने ।।
सकोपम्प्रज्वलन्तन्तन्तेजसा हन्तुमुद्यतम् ।। ११ ।।
देवा ऊचुः ।।
देवदेव जगद्व्यापिन्परमेश सदाशिव ।।
जगदीश जगन्नाथ सम्प्रसीद जगन्मय ।। १२ ।।
सर्वेषामपि भावानान्त्वमात्मा हेतुरीश्वरः ।।
निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ।। १३ ।।
आद्यन्तावस्य यन्मध्यमिदमन्यदहम्बहिः ।।
यतोऽव्ययः सनैतानि तत्सत्यम्ब्रह्म चिद्भवान् । १४ ।।
तवैव चरणाम्भोजम्मुक्तिकामा दृढव्रताः ।।
विसृज्योभयतस्संगं मुनयस्समुपासते ।। १५ ।।
त्वम्ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् ।।
आनंदमात्रमव्यग्रमविकारमनात्मकम् ।। १६ ।।
विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ।।
तदपेक्षतयात्मेशोऽनपेक्षस्सर्वदा विभुः ।। १७ ।।
एकस्त्वमेव सदसद्वयमद्वयमेव च ।।
स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ।। १६ ।।
अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ।।
तस्माद्भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ।। १९ ।।
धन्या वयं महेशान तव दर्शनमात्रतः ।।
दृढभक्तजनानन्दप्रदश्शम्भो दयां कुरु ।। 2.3.49.२० ।।
त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ।।
विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ।। २१ ।।
योऽयं ब्रह्मास्तिऽ रजसा विश्वमूर्तिः पितामहः ।।
त्वत्प्रसादात्प्रभो विष्णुस्सत्त्वेन पुरुषोत्तमः ।। २२ ।।
कालाग्निरुद्रस्तमसा परमात्मा गुणः परः ।।
सदा शिवो महेशानस्सर्वव्यापी महेश्वरः।।२३।।
व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च।।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ।। २४ ।।
महादेव परेशान करुणाकर शंकर ।
प्रसीद देवदेवेश प्रसीद पुरुषोत्तम ।। २५ ।।
वासांसि सागरास्सप्त दिशश्चैव महाभुजाः ।।
द्यौर्मूर्द्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ।। २६ ।।
चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो ।।
नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ।। २७ ।।
कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ।।
वाचामगोचरोऽसि त्वं मनसा चापि शंकर ।। २८ ।।
पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ।।
त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ।। २९ ।।
अनिदेंश्याय नित्याय विद्युज्ज्वालाय रूपिणे ।।
अग्निवर्णाय देवाय शंकराय नमोनमः ।। 2.3.49.३० ।।
विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ।।
रूपमास्थाय लोकेऽस्मिन्संस्थिताय नमो नमः।।३१।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः ।।
ब्रह्मणो मे ददौ शीघ्रमभयं भक्तवत्सलः ।।३२।।
अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा ।।
अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम् ।। ३३ ।।
मम तद्रेतसा तात मर्दितेन मुहुर्मुहुः ।।
अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः ।। ३४ ।।
ऋषयो बहवो जाता वालखिल्यास्सहस्रशः ।।
कणकैस्तैश्च वीर्यस्य प्रज्वलद्भिः स्वतेजसा ।। ३५ ।।
अथ ते ह्यृषयस्सर्वे उपतस्थुस्तदा मुने ।।
ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन् ।। ३६।।
ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि ।।
वालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा ।। ३७ ।।
।। नारद उवाच ।।
गच्छध्वं संगता यूयं पर्वतं गन्धमादनम् ।।
न स्थातव्यम्भवद्भिश्च न हि वोऽत्र प्रयोजनम् ।। ३८ ।।
तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः ।।
सूर्य्यशिष्याश्शिवस्यैवाज्ञया मे कथितन्त्विदम् ।। ३९ ।।
।। ब्रह्मोवाच ।।
इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् ।।
सत्वरम्प्रययुर्नत्वा शंकरं गन्धमादनम् ।। 2.3.49.४० ।।
विष्ण्वादिभिस्तदाभूवं श्वासितोहं मुनीश्वर ।।
निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः ।। ४१ ।।
अस्तवञ्चापि सर्वेशं शंकरम्भक्तवत्सलम् ।।
सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम्।।४२।।
देवदेव महादेव करुणासागर प्रभो ।।
त्वमेव कर्ता सर्वस्य भर्ता हर्त्ता च सर्वथा ।।४३।
त्वदिच्छया हि सकलं स्थितं हि सचराचरम्।।
तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः ।।४४।।
इत्येवमुक्त्वा सोहं वै प्रणामं च कृताञ्जलिः ।।
अन्येऽपि तुष्टुवुस्सर्वे विष्ण्वाद्यास्तं महेश्वरम् ।। ४५ ।।
अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा ।।
विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः ।। ४६ ।।
ददौ सोतिवरं मह्यमभयं प्रीतमानसः ।।
सर्वे सुखमतीवापुरत्यमोदमहं मुने ।। ४७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे विधिमोहवर्णनं नाम नवचत्वारिंशोऽध्यायः ।।४९।।