शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ५५

← अध्यायः ५४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)
अध्यायः ५५
[[लेखकः :|]]

ब्रह्मोवाच ।।
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च तत् ।।
प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ।। १ ।।
तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ।।
धृतिन्धृत्वाहूय कालीं विश्लेषविरहा कुला ।। २ ।।
अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ।।
पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ।। ३ ।।
शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता।।
मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ।। ४ ।।
सर्वाश्च रुरुदुर्नार्य्यस्सर्वमासीदचेतनम् ।।
स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ।। ५ ।।
एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ।।
ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ।। ६ ।।
स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ।।
क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ।। ७ ।।
ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ।।
सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ।। ८ ।।
ननाम पार्वती भक्त्या मातरम्पितरं गुरुम् ।।
महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ।। ९ ।।
पार्वत्या रोदनेनैव रुरुदुस्सर्वयोषितः ।।
नितरां जननी मेना यामयो भ्रातरस्तथा ।। 2.3.55.१० ।।
पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ।।
भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ।। ११ ।।
तदा विप्राः समागत्य बोधयामासुरादरात् ।।
लग्नन्निवेदयामासुर्यात्रायास्सुखदम्परम् ।। १२ ।।
ततो हिमालयो मेनां धृत्वा धैर्य्यम्विवेकतः ।।
शिबिकामानयामास शिवारोहणहेतवे ।। १३ ।।
शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ।।
आशिषम्प्रददुस्सर्वाः पिता माता द्विजास्तथा ।। १४ ।।
महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ।।
नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ।। १५ ।।
शिवा नत्वा गुरून्सर्वाञ् जनकं जननीन्तथा ।।
द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ।। १६ ।।
हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ।।
प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ।।१७।।
प्रीत्याभिरेभिरे सर्वे महोत्सवपुर स्सरम् ।।
प्रभुम्प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ।।१८।।
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ।।
लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ।।१९।।
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ।।
शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ।। 2.3.55.२० ।।
पार्वत्युवाच ।।
सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ।।
प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ।।२१ ।।
ब्रह्मोवाच।।
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ।।
मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः।।२२।।
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ।।
भोजयामास देवश्च नारायणपुरोगमान् ।।२३।।
तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ।।
भोजयामास सुरसमन्नम्बहुविधम्प्रभुः ।।२४।।
ततो भुक्त्वा च ते देवा नानारत्न विभूषिताः ।।
सस्त्रीकास्सगणास्सर्वे प्रणेमुश्चंद्रशेखरम् ।।२५।।
संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ।।
प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ।।२६।।
नारायणं मुने मां च प्रणनाम शिवस्स्वयम् ।।
लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ।।२७।।
मयाश्लिष्याशिषन्दत्त्वा शिवस्य पुनरग्रतः ।।
मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ।। २८ ।।
तमामन्त्र्य मया विष्णुस्साञ्जलिश्शिवयोर्मुदा ।।
प्रशंसंस्तद्विवाहञ्च जगाम स्वालयम्परम् ।। २९ ।।
शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन्मुदा ।।
सर्वे गणास्सुखं प्रापुरतीव स्वभजञ्छिवौ ।। 2.3.55.३० ।।
इत्येवङ्क थितस्तात शिवोद्वाहस्सुमंगलः ।।
शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ।। ३१ ।।
य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ।।
श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ।। ३२ ।।
इदमाख्यानमाख्यातमद्भुतं मंगलायनम् ।।
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ।। ३३ ।।
यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरम्परम् ।।
सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ।। ३४ ।।
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ।।
सर्वदुस्स्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ।।३५।।
शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ।।
शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ।।३६।।
पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ।।
शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ।।३७।।
शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ।।
सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ।। ३८ ।।
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।

समाप्तोऽयं तृतीयः पार्वतीखण्डः ।। ३ ।।