शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः ०५

← अध्यायः ०४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः ०५
[[लेखकः :|]]
अध्यायः ०६ →

ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र ददर्श रथमुत्तमम् ।।
अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ।।१।।
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।।
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ।।२।।
समारोहत्ततोऽनंतो हृदयेन विदूयता ।।
कार्त्तिकः परम ज्ञानी परमेशानवीर्यजः ।।३।।
तदैव कृत्तिकाः प्राप्य मुक्तकेश्यश्शुचाऽऽतुराः ।।
उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ।।४।।
कृत्तिका ऊचुः ।।
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ।।
नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ।। ५ ।।
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ।।
किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ।।६।।
इत्युक्त्वा कृत्तिकास्सर्वाः कृत्वा वक्षसि कार्त्तिकम्।।
द्रुतं मूर्च्छामवापुस्तास्सुतविच्छेदकारणात्।।७।।
ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ।।
ताभिश्च पार्षदैस्सार्द्धमारुरोह रथं मुने ।।८।।
दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै ।।
कुमारः पार्षदैस्सार्द्धं जगाम पितृमन्दिरम् ।।९।।
दक्षेण नंदियुक्तश्च मनोयायिरथेन च ।।
कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके।।2.4.5.१०।।
तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह।।
कुमारश्शांकरिः प्रीतो नानालीलाविशारदः ।।११।।
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ।।
विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम्।।१२।।
तदा दृष्ट्वा च गांगेयं ययौ प्रमुदितश्शिवः ।
अन्यैस्समेतो हरिणा ब्रह्मणा च सुरर्षिभिः ।।१३।।
शंखाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ।।
उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ।।१४।।
तदानीमेव तं सर्वे वीरभद्रादयो गणाः ।।
कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ।। १५ ।।
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ।।
जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः।। १६ ।।
द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् ।।१७।।
पार्वती मंगलं चक्रे राजमार्गं मनोहरम् ।।
पद्मरागादिमणिभिस्संस्कृतं परितः पुरम् ।।१८।।
पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विता ।।
लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ।।१९।।
रम्भाद्यप्सरसो दिव्यास्स स्मिता वेषसंयुताः ।।
संगीतनर्तनपरा बभूवुश्च शिवाज्ञया ।।2.4.5.२०।।
ये तं समीक्षयामासुर्गागेयं शंकरोपमम् ।।
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ।।२१।।
तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ।।
ववंदिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ।। २२ ।।
जहुर्षुर्विनतस्कंधा नमश्शब्दरतास्तदा ।।
परिवार्योपतस्थुस्ते वामदक्षिणमागताः ।।२३।।
अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ।।
दण्डवत्पतिता भूमौ परिवार्य्य कुमारकम् ।।२४।।
एतस्मिन्नन्तरे शंभुर्गिरिजा च मुदान्विता ।।
महोत्सवं समागम्य ददर्श तनयं मुदा ।।२५।।
पुत्रं निरीक्ष्य च तदा जगदेकबंधुः प्रीत्यान्वितः परमया परया भवान्या ।।
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः परेशः २६।।
अथ शक्तिधरः स्कन्दौ दृष्ट्वा तौ पार्वतीशिवौ ।।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ।।२७।।
उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः ।।
जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ।।२८।।
उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा ।।
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ।।२९।।
तदा नीराजितो देवैस्सकलत्रैर्मुदान्वितैः ।।
जयशब्देन महता व्याप्तमासीन्नभस्तलम् ।। 2.4.5.३० ।।
ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ।।
वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ।।३१।।
स्वमंकमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् ।।
बभौ भवानीपतिरेव साक्षाच्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ।।३२।।
कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ।।
शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी ।। ३३ ।।
दंपती तौ तदा तत्रैकपद्येन विरेजतुः ।।
विवंद्यमानावृषिभिरावृतौ सुरसत्तमैः ।। ३४ ।।
कुमारः क्रीडयामास शिवोत्संगे मुदान्वितः ।।
वासुकिं शिवकंठस्थं पाणिभ्यां समपीडयत् ।। ३५ ।।
प्रहस्य भगवाञ् शंभुश्शशंस गिरिजां तदा ।।
निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ।।३६।।
मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः ।।
प्रेम्णा स गद्गदगिरो जगदेकबंधुर्नोवाच किंचन विभुर्भुवनैकभर्त्ता।। ३७ ।।
अथ शंभुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ।।
रत्नसिंहासने रम्ये वासयामास कार्त्तिकम्।।३८।।
वेदमंत्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ।।
सद्रत्नकुंभशतकैः स्नापया मास तं मुदा ।। ३९ ।।
सद्रत्नसाररचितकिरीटमुकुटांगदम्।।
वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ।।2.4.5.४०।।
शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् ।।
संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ।।४१।।
अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ।।
कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ।। ४२ ।।
गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ।।
श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ।।४३।।
मनोयायिरथं सूर्यस्सन्नाहं च महाचयम् ।।
यमदंडं यमश्चैव सुधाकुंभं सुधानिधिः ।।४४।।
हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ।।
ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ।।४५।।
गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ।।
नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ।।४६।।
कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ।।
गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ।।४७।।
क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम्।।
हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ।। ४८ ।।
चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ।।
अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम्।।४९।।
पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ।।
ददौ तस्मै महाप्रीत्या चिरंजीवित्वमेव च ।।2.4.5.५०।।
लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् ।।
सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ।।५१।।
अन्याश्चापि मुने देव्यो यायास्तत्र समागताः ।।
स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ।। ५२ ।।
महामहोत्सवस्तत्र बभूव मुनिसत्तम ।।
सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ।। ५३ ।।
एतस्मिन्नंतरे काले प्रोवाच प्रहसन् मुदा।।
मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान्।। ५४ ।।
शिव उवाच ।।
हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ।। ।।
सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ।। ५५ ।।
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं शंभोर्मुनेविष्ण्वादयस्सुराः ।।
सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ।। ५६ ।।
कुमारेण हतो ह्येष तारको भविता प्रभो ।।
तदर्थमेव संजातमिदं चरितमुत्तमम् ।। ५७ ।।
तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता ।।
आज्ञां देहि कुमाराय स तं हंतुं सुखाय नः ।। ५८ ।।
।। ब्रह्मोवाच ।।
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ।।
देवेभ्यस्तारकं हंतुं कृपया परिभावितः ।। ५९ ।।
शिवाज्ञया सुरास्सर्वे ब्रह्मविष्णुमुखास्तदा ।।
पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ।।2.4.5.६०।।
बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः ।।
विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ।। ६१ ।।
तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् ।।
गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ।।६२।।
तदा हरिस्सुधीर्भक्त्या कारयामास मंगलम् ।।
कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैस्सुरैः ।। ६३ ।।
सर्वथा समलंकृत्य वासयामास संग्रहम् ।।
कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ।। ६४ ।। ।।
ब्राह्मांडाधिपतित्वं हि ददौ तस्मै मुदा हरिः ।।
चकार तिलकं तस्य समानर्च सुरैस्सह ।। ६५ ।।
प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिस्सह ।।
तुष्टाव विविधस्स्तोत्रैः शिवरूपं सनातनम्।।६६।।
वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः ।।
स्वामिभावं समापन्नो ब्रह्मांडस्यासि पालकः ।। ६७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पंचमोऽध्यायः ।।५।।