शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः ०७

← अध्यायः ०६ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः ०७
[[लेखकः :|]]
अध्यायः ०८ →

।। ब्रह्मोवाच ।।
हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ।।
सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ।।१।।
वल्गंतः कुर्वतो नादं भाविताश्शिवतेजसा ।।
कुमारन्ते पुरस्कृत्य तारकं हंतुमाययुः ।। २ ।।
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः।।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ।।३।।
देवा दृष्ट्वा समायांतं तारकस्य महाबलम्।।
बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ।।४।।
तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् ।।
शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ।।५।।
।। व्योमवाण्युवाच ।।
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ।।
दैत्यान्विजित्य संग्रामे जयिनोऽथ भविष्यथ ।।६।।
ब्रह्मोवाच।।
वाचं तु खेचरीं श्रुत्वा देवास्सर्वे समुत्सुकाः ।।
वीरशब्दान् प्रकुर्वंतो निर्भया ह्यभवंस्तदा ।।७।।
कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः ।।
योद्धुकामास्सुरा जग्मुर्महीसागरसंगमम् ।।८।।
आजगाम द्रुतं तत्र यत्र देवास्स तारकः ।।
सैन्येन महता सार्द्धं सुरै र्बहुभिरावृत् ।।९।।
रणदुंदुभयो नेदुः प्रलयांबुद्निस्स्वनाः ।।
कर्कशानि च वाद्यानि पराणि च तदागमे ।।2.4.7.१०।।
गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह ।।
कंपयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ।।११।।
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ।।
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ।। १२ ।।
गजमारोप्य देवेन्द्रः कुमारं त्यग्रतोऽभवत् ।।
सुरसैन्येन महता लोकपालैस्समावृतः ।।१३।।
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ।।
वीणावेणुमृदंगानि तथा गंधर्वनिस्स्वनाः ।। १४ ।।
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ।।
अनेकाश्चर्यसंभूतं नानारत्नसमन्वितम् ।।१५।।
विमानमारुह्य तदा महायशास्स शांकरिस्सर्वगुणैरुपेतः ।।
श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः।।१६।।
प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम्।।
धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ।।१७।।
मिलितास्ते तदा सर्वे देवाश्शक्रपुरोगमा ।।
स्वैःस्वैर्बलैः परिवृता युद्धकामा महाबलाः ।।१८।।
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ।।
सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ।। १९ ।।
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ।।
हंतुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ।।2.4.7.२०।।
उभे सेनं तदा तेषामगर्जेतां वनोपमे ।।
भयंकरेऽत्यवीराणामितरेषां सुखावहे ।।२१।।
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम्।।
दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ।। २२ ।।
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ।।
रुण्डमुंडांकितं सर्वं क्षणेन समपद्यत ।। २३ ।।
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ।।
निकृत्तांगा महाशस्त्रैर्निहता वीरसंमताः ।। २४ ।।
केषांचिद्बाहवश्छिन्ना खड्पातैस्सुदारुणैः ।।
केषांचिदूरवश्छिन्ना वीराणां मानिनां मृधे ।।२५।।
केचिन्मथितसर्वांगा गदाभिर्मुद्गरैस्तथा ।।
केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ।।२६।।
केचिद्विदारिताः पृष्ठे कुंतैर्ऋष्टिभिरंकुशैः ।।
छिन्नान्यपि शिरांस्येव पतितानि च भूतले ।। २७ ।।
बहूनि च कबंधानि नृत्यमानानि तत्र वै ।।
वल्गमानानि शतशो उद्यतास्त्रकराणि च ।। २८ ।।
नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ।।
भूतप्रेतादयस्तत्र शतशश्च समागताः ।।२९।।
गोमायवश्शिवा तत्र भक्षयन्तः पलं बहु ।।
तथा गृध्रवटाश्येना वायसा मांसभक्षकाः ।।
बुभुजुः पतितानां च पलानि सुबहूनि वै ।। 2.4.7.३० ।।
एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ।।
सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ।। ३१ ।।
देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् ।।
योद्धुकामं तदा सद्यो ययुश्शक्रादयस्तदा ।।
बभूवाथ महोन्नादस्सेनयोरुभयोरपि ।।३२।।
अथाभूद्द्वंद्वयुद्धं हि सुरासुरविमर्दनम्।।
यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता।।३३।।
तारको युयुधे युद्धे शक्रेण दितिजो बली।।
अग्निना सह संह्रादो जंभेनैव यमः स्वयम् ।।३४।।
महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च ।।
सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ।।३५।।
ईशानेन समं शंभुर्युयुधे रणवित्तमः ।।
शुंभश्शेषेण युयुधे कुंभश्चन्द्रेण दानवः ।। ३६ ।।
कुंबरो मिहिरेणाजौ महाबल पराक्रमः ।।
युयुधे परमास्त्रैश्च नानायुद्धविशारदः ।।३७।।
एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ।।
संगरे युयुधुस्सर्वे बलेन कृतनिश्च याः ।।३८
अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ।।
तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ।। ३९ ।।
तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् ।।
सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ।। 2.4.7.४० ।।
मही महारौद्रतरा विनष्टकैस्सुरासुरैर्वै पतितैरनेकशः ।।
तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ।। ४१ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारंभवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।