शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः १५

← अध्यायः १४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

।। सनत्कुमार उवाच ।।
एकदा वारिधिसुतो वृन्दापति रुदारधीः।।
सभार्य्यस्संस्थितो वीरोऽसुरैस्सर्वैः समन्वितः ।।१।।
तत्राजगाम सुप्रीतस्सुवर्चास्त्वथ भार्गवः।।
तेजः पुंजो मूर्त इव भासयन्सकला दिशः ।।२।।
तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ।।
प्रणेमुः प्रीतमनसस्सिंधुपुत्रोऽपि सादरम्।।३।।
दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ।।
निषसादासने रम्ये संतस्थुस्तेऽपि पूर्ववत् ।। ४ ।।
अथ सिंध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् ।।
जलंधरः प्रसन्नोऽभूदनष्टवरशासनः ।। ५ ।।
तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् ।।
पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ।।६।।
जलंधर उवाच ।।
केनेदं विहितं राहोश्शिरच्छेदनकं प्रभो ।।
तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ।।७।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।।
स्मृत्वा शिवपदांभोजं प्रत्युवाच यथार्थवत् ।।८।।
शुक्र उवाच।।
जलंधर महावीर सर्वासुरसहायक ।।
शृणु वृत्तांतमखिलं यथावत्कथयामि ते ।।९ ।।
पुराभवद्बलिर्वीरो विरोचनसुतो बली ।।
हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः ।।2.5.15.१०।।
पराजितास्सुरास्तेन रमेशं शरणं ययुः ।।
सवासवास्स्ववृत्तांतमाचख्युः स्वार्थसाधकाः।।११।।
तदाज्ञया सुरैः सार्द्धं चक्रुस्संधिमथो सुराः ।।
स्वकार्यसिद्धये तातच्छलकर्मविचक्षणाः ।। १२ ।।
अथामृतार्थे सिंधोश्च मंथनं चक्रुरादरात् ।।
विष्णोस्सहायिनस्ते हि सुरास्सर्वेऽसुरैस्सह।।१३।।
ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ।।
जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ।।१४।।
ततः पराभवं चक्रुरसुराणां सहायतः ।।
विष्णोस्सुरास्सचक्रास्तेऽमृतापानाद्बलान्विताः ।।१५।।
शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ।।
राहोर्देवसभां हि पक्षपाती हरेस्सदा ।। १६ ।।
सनत्कुम्रार उवाच ।।
एवं कविस्तस्य शिरश्छेदं राहोश्शशंस च ।।
अमृतार्थे समुद्रस्य मंथनं देवकारितम् ।। १७ ।।
रत्नोपहरणं चैव दैत्यानां च पराभवम् ।।
देवैरमृतपानं च कृतं सर्वं च विस्तरात् ।।१८।।
तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् ।।
चुक्रोध क्रोधरक्ताक्षस्स्वपितुर्मंथनं तदा ।।१९।।
अथ दूतं समाहूय घस्मराभिधमुत्तमम् ।।
सर्वं शशंस चरितं यदाह गुरुरात्मवान् ।। 2.5.15.२० ।।
अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ।।
संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ।।२१।।
दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ।।
घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम् ।।२२।।
तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ।।
गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ।। २३ ।।
घस्मर उवाच ।।
जलंधरोऽब्धि तनयस्सर्वदैत्यजनेश्वरः ।।
सुप्रतापी महावीरस्स्वयं कविसहायवान् ।। २४ ।।
दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ।।
प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ।।२५।।
अव्याहताज्ञस्वर्वत्र जलंधर उदग्रधीः ।।
निर्जिताखिलदैत्यारिस्स यदाह शृणुष्व तत् ।। २६ ।।
जलंधर उवाच ।।
कस्मात्त्वया मम पिता मथितस्सागरोऽद्रिणा ।।
नीतानि सर्वरत्नानि पितुर्मे देवताधम ।। २७ ।।
उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे ।।
ममायाहि विचार्येत्थं शरणं दैवतैस्सह ।। २८ ।।
अन्यथा ते भयं भूरि भविष्यति सुराधम ।।
राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम् ।।२९।।
सनत्कुमार उवाच ।।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ।।
उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः ।। 2.5.15.३० ।।
अद्रयो मद्भयात्त्रस्तास्स्वकुक्षिस्था यतः कृताः ।।
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ।।३१।।
तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल ।।
न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम् ।।३२।।
शंखोप्येव पुरा दैत्यो मां द्विषन्सागरात्मजः ।।
अभवन्मूढचित्तस्तु साधुसंगात्समुज्झित।।३३।।
ममानुजेन हरिणा निहतस्य हि पापधीः ।।
हिंसकस्साधुसंधस्य पापिष्ठस्सागरोदरे ।।३४।।
तद्गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः ।।
अब्धिपुत्रस्य सर्वं हि सिंधोर्मंथनकारणम् ।।३५।।
सनत्कुमार उवाच ।।
इत्थं विसर्जितो दूतो घस्मराख्यस्सुबुद्धिमान् ।।
तदेन्द्रेणागमत्तूर्ण्णं यत्र वीरो जलंधरः ।।३६।।
तदिदं वचनं दैत्यराजो हि तेन धीमता ।।
कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा ।।३७।।
तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः ।।
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ।।३८।।
तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा ।।
दितिजाः प्रत्यपद्यंत कोटिशःकोटिशस्तथा ।।३९।।
अथ शुंभनिशुंभाद्यै बलाधिपतिकोटिभिः ।।
निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान् ।।2.5.15.४०।।
प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः ।।
दध्मौ शंखं जलधिजो नेदुर्वीराश्च सर्वतः ।।४१।।
गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ।।
सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम् ।।४२।।
पुरमावृत्य तिष्ठत्तद्दृष्ट्वा सैन्यबलं महत्।।
निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ।।।।४३।।
ततस्समभवद्युद्धं देवदानवसेनयोः ।।
मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ।।४४।।
तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ।।
क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ।। ४५ ।।
पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ।।
व्यराजत रणे भूमिस्संध्याभ्रपटलैरिव ।। ४६ ।।
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् ।।
विद्ययामृतजीविन्या मंत्रितैस्तोयबिन्दुभिः ।। ४७ ।।
देवानपि तथा युद्धे तत्राजीवयदंगिराः ।।
दिव्यौषधैस्समानीय द्रोणाद्रेस्स पुनःपुनः ।। ४८ ।।
दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् ।।
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ।।४९।।
जलंधर उवाच ।।
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ।।
ततः संजीविनी विद्या नैवान्यत्रेति वै श्रुता ।। 2.5.15.५० ।।
सनत्कुमार उवाच।।
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।।
प्रत्युवाच प्रसन्नात्मा गुरुश्शुक्रो जलंधरम् ।। ५१ ।।
शुक्र उवाच ।।
दिव्यौषधीस्समानीय द्रोणाद्रेरंगिरास्सुरान् ।।
जीवयत्येष वै तात सत्यं जानीहि मे वचः ।। ५२ ।।
जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् ।।
ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर ।। ५३ ।।
।।सनत्कुमार उवाच ।।
इत्युक्तस्स तु दैत्येन्द्रो गुरुणा भार्गवेण ह ।।
द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः ।।५४।।
भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा।।
प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि ।।५५।।
 पुनरायान्महावीरस्सिन्धुपुत्रो महाहवम्।।
जघानास्त्रैश्च विविधैस्सुरान्कृत्वा बलं महत् ।। ५६ ।।
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।।
तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः ।। ५७ ।।
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ।।
आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः ।।५८।।
गुरुरुवाच ।।
पलायध्वं सुरास्सर्वे द्रोणो नास्ति गिरिर्महान् ।।
ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि।।५९।।
जलंधरो महादैत्यो नायं जेतुं क्षमो यतः ।।
रुद्रांशसंभवो ह्येष सर्वामरविमर्दनः ।। 2.5.15.६० ।।
मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः ।।
शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम् ।।६१।।
सनत्कुमार उवाच ।।
श्रुत्वा तद्वचनं देवास्सुराचार्यप्रकीर्तितम्।।
जयाशां त्यक्तवंतस्ते भयविह्वलितास्तथा ।।६२।।
दैत्यराजेन तेनातिहन्यमानास्समंततः ।।
धैर्यं त्यक्त्वा पलायंत दिशो दश सवासवाः ।। ६३ ।।
देवान्विद्रावितान्दृष्ट्वा दैत्यस्सागरनंदनः ।।
शंखभेरी जयरवैः प्रविवेशामरावतीम्।।६४।।
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ।।
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः।।६५।।
तदैव सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां विनिवेश्य सम्यक्।।
शुंभादिकान्दैत्यवरान् पृथक्पृथक्स्वयं सुवर्णादिगुहां व्यगान्मुने।।६६।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवजलंधरयुद्धवर्णनं नाम पंचदशोऽध्यायः।।१५।।