शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः १९

← अध्यायः १८ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः १९
वेदव्यासः
अध्यायः २० →

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ नारदे हि गते दिवि ।।
दैत्यराट् किमकार्षीत्स तन्मे वद सुविस्तरात् ।। १ ।।
सनत्कुमार उवाच ।।
तमामंत्र्य गते दैत्यं नारदे दिवि दैत्यराट् ।।
तद्रूपश्रवणादासीदनंगज्वरपीडितः ।।२।।
अथो जलंधरो दैत्यः कालाधीनः प्रनष्टधीः।।
दूतमाह्वाय यामास सैंहिकेयं विमोहितः ।। ३ ।।
आगतं तं समालोक्य कामाक्रांतमनास्स हि ।।
सुसंबोध्य समाचष्ट सिंधुपुत्रो जलंधरः ।।४।।
जलंधर उवाच ।।
भोभो दूतवरश्रेष्ठ सर्वकार्यप्रसाधक ।।
सैंहिकेय महाप्राज्ञ कैलासं गच्छ पर्वतम् ।। ५ ।।
तत्रास्ति योगी शंभ्वाख्य स्तपस्वी च जटाधरः ।।
भस्मभूषितसर्वाङ्गो विरक्तो विजितेन्द्रियः।।५।
तत्र गत्वेति वक्तव्यं योगिनं दूत शंकरम् ।।
जटाधरं विरक्तं तं निर्भयेन हृदा त्वया ।। ७ ।।
हे योगिंस्ते दयासिन्धो जायारत्नेन किं भवेत् ।।
भूतप्रेतपिशाचादिसेवितेन वनौकसा ।। ८ ।।
मन्नाथे भुवने योगिन्नोचिता गतिरीदृशी ।।
जायारत्नमतस्त्वं मे देहि रत्नभुजे निजम् ।।९।।
यानियानि सुरत्नानि त्रैलोक्ये तानि संति मे ।।
मदधीनं जगत्सर्वं विद्धि त्वं सचराचरम् ।।2.5.19.१०।।
इन्द्रस्य गजरत्नं चोच्चैःश्रवोरत्नमुत्तमम् ।।
बलाद्गृहीतं सहसा पारिजा ततरुस्तथा।।११।।
विमानं हंससंयुक्तमंगणे मम तिष्ठति ।।
रत्नभूतं महादिव्यमुत्तमं वेधसोद्भुतम् ।। १२ ।।
महापद्मादिकं दिव्यं निधिरत्नं स्वदस्य च ।।
छत्रं मे वारुणं गेहे कांचनस्रावि तिष्ठति ।।१३।।
किञ्जल्किनी महामाला सर्वदाऽम्लानपंकजा ।।
मत्पितुस्सा ममैवास्ति पाशश्च कंपतेस्तथा ।।१४।।
मृत्योरुत्क्रांतिदा शक्तिर्मया नीता बलाद्वरा।।
ददौ मह्यं शुचिर्दिव्ये शुचिशौचे च वाससी ।।।१५।।
एवं योगीन्द्र रत्नानि सर्वाणि विलसंति मे ।।
अतस्त्वमपि मे देहि स्वस्त्रीरत्नं जटाधर ।। १६ ।। ।।
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य नन्दिना स प्रवेशितः।।
जगामोग्रसभां राहुर्विस्मयोद्भुतलोचनः।।१७।।
तत्र गत्वा शिवं साक्षाद्देवदेवं महाप्रभुम्।।
स्वतेजोध्वस्ततमसं भस्मलेपविराजितम्।।१८।।
महाराजोपचारे विलसंतं महाद्भुतम्।।
सर्वाङ्गसुन्दरं दिव्यभूषणैर्भूषितं हरम्।।१९।।
प्रणनाम च तं गर्वात्तत्तेजः क्रांतविग्रहः।।
निकटं गतवाञ्छंभोस्स दूतो राहुसंज्ञकः।।2.5.19.२०।।
अथो तदग्र आसीनो वक्तुकामो हि सैंहिकः।।
त्र्यंबकं स तदा संज्ञाप्रेरितो वाक्यमब्रवीत् ।।२१।।
दैत्यपन्नगसेव्यस्य त्रैलोक्याधिपतेस्सदा ।।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ।।२२।।
।। राहुरुवाच ।।
जलंधरोब्धितनयस्सर्वदैत्यजनेश्वरः ।।
त्रैलोक्यस्येश्वरस्सोथाभवत्सर्वाधिनायकः ।।२३।।
स दैत्यराजो बलवान्देवानामंतकोपमः ।।
योगिनं त्वां समुद्दिश्य स यदाह शृणुष्व तत् ।। २४ ।।
महादिव्यप्रभावस्य तस्य दैत्यपतेः प्रभोः ।।
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ।। २५ ।।
श्मशानवासिनो नित्यमस्थिमालाधरस्य च ।।
दिगंबरस्य ते भार्या कथं हैमवती शुभम् ।।२६।।
अहं रत्नाधिनाथोस्मि सा च स्त्रीरत्नसंज्ञिता ।।
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ।।२७।।
मम वश्यास्त्रयो लोका भुंजेऽहं मखभागकान् ।।
यानि संति त्रिलोकेस्मिन्रत्नानि मम सद्मनि ।। २८ ।।
वयं रत्नभुजस्त्वं तु योगी खलु दिगम्बरः ।।
स्वस्त्रीरत्नं देहि मह्यं राज्ञस्सुखकराः प्रजाः ।।२९।।
सनत्कुमार उवाच ।।
वदत्येवं तथा राहौ भ्रूमध्याच्छूलपाणिनः ।।
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ।। 2.5.19.३० ।।
सिंहास्यप्रचलजिह्वस्सज्ज्वालनयनो महान् ।।
ऊर्द्ध्वकेशश्शुष्कतनुर्नृसिंह इव चापरः ।। ३१ ।।
महातनुर्महाबाहुस्तालजंघो भयंकरः ।।
अभिदुद्राव वेगेन राहुं स पुरुषो द्रुतम् ।।३२।।
स तं खादितु मायान्तं दृष्ट्वा राहुर्भयातुरः ।।
अधावदात वेगेन बहिस्तस्य च दधार तम् ।।३३।।
राहुरुवाच ।।
देवदेव महेशान पाहि मां शरणा गतम् ।।
सुराऽसुरैस्सदा वन्द्यः परमैश्वर्यवान् प्रभुः ।।३४।।
ब्राह्मणं मां महादेव खादितुं समुपागतः ।।
पुरुषोयं तवेशान सेवकोतिभयंकरः ।। ३५ ।।
एतस्माद्रक्ष देवेश शरणागतवत्सलः ।।
न खादेत यथायं मां नमस्तेऽस्तु मुहुर्मुहुः ।। ३६ ।।
सनत्कुमार उवाच ।।
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदा मुने ।।
अब्रवीत्स्वगणं तं वै दीनानाथप्रियः प्रभुः ।। ३७ ।।
महादेव उवाच ।।
प्रभुं च ब्राह्मणं दूतं राह्वाख्यं शरणागतम् ।।
शरण्या रक्षणीया हि न दण्ड्या गणसत्तम ।।३८।।
सनत्कुमार उवाच ।।
इत्युक्तौ गिरिजेशेन सगणः करुणात्मना ।।
राहुं तत्याज सहसा ब्राह्मणेति श्रुताक्षरः ।। ३९ ।।
राहुं त्यक्त्वाम्बरे सोथ पुरुषो दीनया गिरा ।।
शिवोपकंठमागत्य महादेवं व्यजिज्ञपत् ।। 2.5.19.४० ।।
पुरुष उवाच ।।
देवदेव महादेव करुणाकर शंकर ।।
त्याजितं मम भक्ष्यं ते शरणागतवत्सलः ।। ४१ ।।
क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा ।।
किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो ।। ४२ ।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य पुरुषस्य महाप्रभुः ।।
प्रत्युवाचाद्भुतोतिः स कौतुकी स्वहितंकरः ।। ४३ ।।
महेश्वर उवाच ।।
बुभुक्षा यदि तेऽतीव क्षुधा त्वां बाधते यदि ।।
संभक्षयात्मनश्शीघ्रं मांसं त्वं हस्तपादयोः ।। ४४ ।।
सनत्कुमार उवाच ।।
शिवेनैवमाज्ञप्तश्चखाद पुरुषस्स्वकम् ।।
हस्तपादोद्भवं मांसं शिरश्शेषोऽ भवद्यथा ।। ४५ ।।
दृष्ट्वा शिरोवशेषं तु सुप्रसन्नस्सदाशिवः ।।
पुरुषं भीमकर्माणं तमुवाच सविस्मयः ।। ४६ ।।
शिव उवाच ।।
हे महागण धन्यस्त्वं मदाज्ञाप्रतिपालकः ।।
संतुष्टश्चास्मि तेऽतीव कर्मणानेन सत्तम ।। ४७ ।।
त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारकस्सदा ।।
महागणो महावीरस्सर्वदुष्टभयंकरः ।।४८।।
मत्प्रियस्त्वं मदर्चायां सदा पूज्योऽहि मज्जनैः ।।
त्वदर्चां ये न कुर्वंति नैव ते मत्प्रियंकराः ।। ४९ ।।
सनत्कुमार उवाच ।।
इति शंभोर्वरं प्राप्य पुरुषः प्रजहर्ष सः ।।
तदाप्रभृति देवेश द्वारे कीर्तिमुखः स्थितः ।।2.5.19.५०।।
पूजनीयो विशेषेण स गणश्शिवपूजने ।।
नार्चयंतीह ये पूर्वं तेषामर्चा वृथा भवेत् ।।५१।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने दूतसंवादो नाम एकोनविंशोऽध्यायः।।१९।।