शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ४०

← अध्यायः ३९ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

सनत्कुमार उवाच ।।
स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः ।।
तथा वीरान् प्राणसमान् चुकोपातीव दानवः ।। १ ।।
उवाच वचनं शंभुं तिष्ठाम्याजौ स्थिरो भव।।
किमेतैर्निहतैर्मेद्य संमुखे समरं कुरु ।। २ ।।
इत्युक्त्वा दानवेन्द्रोसौ सन्नद्धस्समरे मुने ।।
अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ।। ३ ।।
दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ।।
चकार शरवृष्टिञ्च तोयवृष्टिं यथा घनः ।। ४ ।।
मायाश्चकार विविधा अदृश्या भयदर्शिताः ।।
अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ।।५।।
ता दृष्ट्वा शंकरस्तत्र चिक्षे पास्त्रं च लीलया ।।
माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ।। ६ ।।
तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ।।
दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ।। ७ ।।
अथ युद्धे महेशानस्तद्वधाय महाबलः ।।
शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ।। ८ ।।
तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ।।
क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ।। ९ ।।
सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ।।
किमेकदानवस्येश शङ्खचूडस्य सांप्रतम् ।। 2.5.40.१० ।।
तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ।।
तां शृणुष्व महादेव सफलं कुरु सत्यतः ।। ११ ।।
यावदस्य करेऽत्युग्रं कवचं परमं हरेः ।।
यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ।। १२ ।।
तावदस्य जरामृत्युश्शंखचूडस्य शंकर ।।
नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ।। १३ ।।
इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ।।
हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ।। १४ ।।
वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ।।
शङ्खचूडोपकंठं च गत्वोवाच स तं तदा ।। १५ ।।
वृद्धब्राह्मण उवाच।।
देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय सांप्रतम् ।। १६ ।।
नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ।।
पश्चात्त्वां कथयिष्यामि पुनस्सत्यं करिष्यसि ।। १७ ।।
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।।
कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ।। १८ ।।
तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ।।
तद्ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ।।१९।।
मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ।।
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ।। 2.5.40.२० ।।
गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ।।
वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ।। २१ ।।
एतस्मिन्नंतरे शंभुमीरयन् स्ववचः प्रभुः ।।
शंखचूडवधार्थाय शूलं जग्राह प्रज्वलत् ।।२२।।
तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ।।
सञ्चकाशे दिशस्सर्वा रोदसी संप्रकाशयन् ।। २३।।
कोटिमध्याह्नमार्तंडप्रलयाग्निशिखोपमम्।।
दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ।।२४।।
तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम्।।
सुरासुराणां सर्वेषां दुस्सहं च भयंकरम् ।।२५।।
संहर्तुं सर्वब्रह्माडमवलंब्य च लीलया ।।
संस्थितं परमं तत्र एकत्रीभूय विज्वलत्।। ।। २६ ।।
धनुस्सहस्रं दीर्घेण प्रस्थेन शतहस्तकम्।।
जीवब्रह्मास्वरूपं च नित्यरूपमनिर्मितम् ।।२७।।
विभ्रमद् व्योम्नि तच्छूलं शंख चूडोपरि क्षणात् ।।
चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ।। २८ ।।
अथ शूलं महेशस्य द्रुतमावृत्य शंकरम।।
ययौ विहायसा विप्रमनोयायि स्वकार्यकृत् ।।२९।।
नेदुर्दुंदुभयस्स्वर्गे जगुर्गंधर्वकिन्नराः ।।
तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ।।2.5.40.३०।।
बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ।।
प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ।। ३१ ।।
शंखचूडो दानवेन्द्रः शिवस्य कृपया तदा ।।
शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ।। ३२ ।।
अस्थिभिश्शंखचूडस्य शंखजातिर्बभूव ह ।।
प्रशस्तं शंखतोयं च सर्वेषां शंकरं विना ।। ३३ ।।
विशेषेण हरेर्लक्ष्म्याः शंखतोयं महाप्रियम् ।।
संबंधिनां च तस्यापि न हरस्य महामुने ।। ३४ ।।
तमित्थं शंकरो हत्वा शिवलोकं जगाम सः।।
सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः।।३५।।
हरिर्जगाम वैकुंठं कृष्णस्स्ववस्थो बभूव ह।।
सुरास्स्वविषयं प्रापुः परमानन्दसंयुताः।।३६।।
जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम्।।
निर्मलं चाभवद्व्योम क्षितिस्सर्वा सुमंगला ।।३७।।
इति प्रोक्तं महेशस्य चरितं प्रमुदावहम्।।
सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम्।।३८।।
धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम्।।
भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम्।।३९।।
य इदं शृणुयान्नित्यं चरितं शशिमौलिनः।।
श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः।।2.5.40.४०।।
धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः।।
सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः।।४१।।
इदमाख्यानमतुलं सर्वोपद्रवनाशनम्।।
परमज्ञानजननं शिवभक्तिविवर्द्धनम्।।४२।।
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत्।।
धनाढ्यो वैश्यजश्शूद्रश्शृण्वन् सत्तमतामियात्।।४३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शंखचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ।।४०।।