शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ४४

← अध्यायः ४३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ४४
वेदव्यासः
अध्यायः ४५ →

सनत्कुमार उवाच ।।
ततो हिरण्याक्षसुतः कदाचित्संश्रावितो नर्मयुतैर्मदांधैः।।
तैर्भ्रातृभिस्संप्रयुतो विहारे किमंध राज्येन तवाद्य कार्यम् ।। १ ।।
हिरण्यनेत्रस्तु बभूव मूढः कलिप्रियं नेत्रविहीनमेव ।।
यो लब्धवांस्त्वां विकृतं विरूपं घोरैस्तपोभिर्गिरिशं प्रसाद्य ।। २ ।।
स त्वं न भागी खलु राज्यकस्य किमन्यजातोऽपि लभेत राज्यम् ।।
विचार्यतां तद्भवतैव नूनं वयं तु तद्भागिन एव सत्यम् ।। ३ ।।
सनत्कुमार उवाच ।।
तेषां तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयमेव दीनः ।।
ताञ्छांतयित्वा विविधैर्वचोभिर्गतस्त्वरण्यं निशि निर्जनं तु ।। ४ ।।
वर्षायुतं तत्र तपश्चचार जजाप जाप्यं विधृतैकपादः ।।
आहारहीनो नियमोर्द्ध्वबाहुः कर्त्तुं न शक्यं हि सुरा सुरैर्यत् ।। ५ ।।
प्रजाल्य वह्निं स्म जुहोति गात्रमांसं सरक्तं खलु वर्षमात्रम् ।।
तीक्ष्णेन शस्त्रेण निकृत्य देहात्समंत्रकं प्रत्यहमेव हुत्वा ।। ६ ।।
स्नाय्वस्थिशेषं कुणपं तदासौ क्षयं गतं शोणितमेव सर्वम् ।।
यदास्य मांसानि न संति देहं प्रक्षेप्तुकामस्तु हुताशनाय ।। ७ ।।
ततः स दृष्टस्त्रिदशालयैर्जनैः सुविस्मितैर्भीतियुतैस्समस्तैः ।।
अथामरैश्शीघ्रतरं प्रसादितो बभूव धाता नुतिभिर्नुतो हि ।। ८ ।।
निवारयित्वाथ पितामहस्तं ह्युवाच तं चाद्यवरं वृणीष्व ।।
यस्याप्तिकामस्तव सर्वलोके सुदुर्लभं दानव तं गृहाण ।।९।।
स पद्मयोनेस्तु वचो निशम्य प्रोवाच दीनः प्रणतस्तु दैत्यः ।।
यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं प्रह्रादमुख्या मम संतु भृत्याः ।। 2.5.44.१० ।।
अंधस्य दिव्यं हि तथास्तु चक्षुरिन्द्रादयो मे करदा भवंतु।।
मृत्युस्तु माभून्मम देवदैत्यगंधर्वयक्षोरगमानुषेभ्यः ।।११।।
नारायणाद्वा दितिजेन्द्रशत्रोस्सर्वाज्जनात्सर्वमयाच्च शर्वात्।।
श्रुत्वा वचस्तस्य सुदारुणं तत्सुशंकितः पद्मभवस्तमाह ।।१२।।
ब्रह्मोवाच ।।
दैत्येन्द्र सर्वं भविता तदेतद्विनाशहेतुं च गृहाण किंचित् ।।
यस्मान्न जातो न जनिष्यते वा यो न प्रविष्टो मुखमंतकस्य ।।१३।।
अत्यन्तदीर्घं खलु जीवितं तु भवादृशास्सत्पुरुषास्त्यजंतु।।
एतद्वचस्सानुनयं निशम्य पितामहात्प्राह पुनस्तस्य दैत्यः ।।१४।।
अंधक उवाच।।
कालत्रये याश्च भवंति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः ।।
तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित् ।। १५ ।।
कायेन वाचा मनसाप्यगम्या नारी नृलोकस्य च दुर्लभाय ।।
तां कामयानस्य ममास्तु नाशो दैत्येन्द्रभावाद्भगवान्स्वयंभूः ।।१६।।
वाक्यं तदाकर्ण्य स पद्मयोनिः सुविस्मितश्शंकरपादपद्ममम् ।।
सस्मार संप्राप्य निर्देशमाशु शंभोस्तु तं प्राह ततोंधकं वै ।। १७।।
ब्रह्मोवाच।।
यत्कांक्षसे दैत्यवरास्तु ते वै सर्वं भवत्येव वचस्सकामम्।।
उत्तिष्ठ दैत्येन्द्र लभस्व कामं सदैव वीरैस्तु कुरुष्व युद्धम्।।१८।।
श्रुत्वा तदेतद्वचनं मुनीश विधातुराशु प्रणिपत्य भक्त्या ।।
लोकेश्वरं हाटकनेत्रपुत्रः स्नाय्वस्थिशेषस्तु तमाह देवम्।।१९।।
अंधक उवाच ।।
कथं विभो वैरिबलं प्रविश्य ह्यनेन देहेन करोमि युद्धम् ।।
स्नाय्वस्थिशेषं कुरु मांसपुष्टं करेण पुण्ये न च मां स्पृशाद्य ।। 2.5.44.२० ।।
 ।। सनत्कुमार उवाच ।।
श्रुत्वा वचस्तस्य स पद्मयोनिः करेण संस्पृश्य च तच्छरीरम् ।।
गतस्सुरेन्द्रैस्सहितः स्वधाम संपूज्यमानो मुनिसिद्धसंघैः ।।२१।।
संस्पृष्टमात्रस्स च दैत्यराजस्संपूर्णदेहो बलवान्बभूव ।।
संजातनेत्रस्सुभगो बभूव हृष्टस्स्वमेव नगरं विवेश ।। २२ ।।
उत्सृज्य राज्यं सकलं च तस्मै प्रह्लादमुख्यास्त्वथ दानवेन्द्राः ।।
तमागतं लब्धवरं च मत्वा भृत्या बभूवुर्वश गास्तु तस्य ।।२३।।
ततोन्धकः स्वर्गमगाद्विजेतुं सेनाभियुक्तस्सहभृत्यवर्गः ।।
विजित्य लेखान्प्रधने समस्तान्करप्रदं वज्रधरं चकार ।। २४ ।।
नागान्सुपर्णान्वरराक्षसांश्च गंधर्वयक्षानपि मानुषांस्तु ।।
गिरीन्द्रवृक्षान्समरेषु सर्वांश्चतुष्पदः सिंहमुखान्विजिग्ये ।।२५।।
त्रैलोक्यमेतद्धि चराचरं वै वशं चकारात्मनि संनियोज्य ।।
स ??कूलानि सुदर्शनानि नारीसहस्राणि बहूनि गत्वा ।। २६।।
रसातले चैव तथा धरायां त्रिविष्टपे याः प्रमदाः सुरूपाः ।।
ताभिर्युतोऽन्येषु सपर्वतेषु रराम रम्येषु नदीतटेषु ।। २७ ।।
क्रीडायमानस्स तु मध्यवर्ती तासां प्रहर्षादथ दानवेन्द्रः ।।
तत्पीतशिष्टानि पिबन्प्रवृत्त्यै दिव्यानि पेयानि सुमानुषाणि ।। २८ ।।
अन्यानि दिव्यानि तु यद्रसानि फलानि मूलानि सुगंधवंति ।।
संप्राप्य यानानि सुवाहनानि मयेन सृष्टानि गृहोत्तमानि ।। २९ ।।
पुष्पार्घधूपान्नविलेपनैश्च सुशोभितान्यद्भुतदर्शनैश्च ।।
संक्रीडमानस्य गतानि तस्य वर्षायुतानीह तथांधकस्य ।। 2.5.44.३० ।।
जानाति किंचिन्न शुभं परत्र यदात्मनस्सौख्यकरं भवेद्धि ।।
सदान्धको दैत्यवरस्स मूढो मदांधबुद्धिः कृतदुष्टसंगः ।। ३१ ।।
ततः प्रमत्तस्तु सुतान्प्रधानान्कुतर्कवादैरभिभूय सर्वान् ।।
चचार दैत्यैस्सहितो महात्मा विनाशयन्वैदिकसर्वधर्मान्।। ३२ ।।
वेदान्द्विजान्वित्त मदाभिभूतो न मन्यते स्माप्यमरान्गुरूंश्च ।।
रेमे तथा दैवगतो हतायुः स्वस्यैरहोभिर्गमयन्वयश्च ।। ३३ ।।
ततः कदाचिद्गतवान्ससैन्यो बहुप्रयाता पृथिवीतलेऽस्मिन् ।।
अनेकसंख्या अपि वर्षकोट्यः प्रहर्षितो मंदरपर्वतं तु ।। ३४ ।।
स्वर्णोपमां तत्र निरीक्ष्य शोभां बभ्राम सैन्यैस्सह मानमत्तः ।।
क्रीडार्थमासाद्य च तं गिरीन्द्रं मतिं स वासाय चकार मोहात् ।। ३५ ।।
शुभं दृढं तत्र पुरं स कृत्वा मुदास्थितो दैत्यपतिः प्रभावात् ।।
निवेशयामास पुनः क्रमेण अत्यद्भुतं मन्दरशैलसानौ ।।३६।।
दुर्योधनो वैधसहस्तिसंज्ञौ तन्मंत्रिणौ दानवसत्तमस्य ।।
ते वै कदाचिद्गिरिसुस्थले हि नारीं सुरूपां ददृशुस्त्रयोऽपि ।।३७।।
ते शीघ्रगा दैत्यवरास्तु हर्षाद्द्रुतं महादैत्यपतिं समेत्य ।।
ऊचुर्यथादृष्टमतीव प्रीत्या तथान्धकं वीरवरं हि सर्वे ।।३८।।
मंत्रिणः ऊचुः ।।
गुहांतरे ध्याननिमीलिताक्षो दैत्येन्द्र कश्चिन्मुनिरत्र दृष्टः ।।
रूदान्वितश्चन्द्रकलार्द्धचूडः कटिस्थले बद्धगजेन्द्रकृत्तिः ।। ३९ ।।
नागेन्द्रभोगावृतसर्वगात्रः कपालमालाभरणो जटालः ।।
स शूलहस्तश्शरतूणधारी महाधनुष्मान्विवृताक्षसूत्रः ।। 2.5.44.४० ।।
खड्गी त्रिशूली लकुटी कपर्दी चतुर्भुजो गौरतराकृतिर्हि ।।
भस्मानुलिप्तो विलसत्सुतेजास्तपस्विवर्योऽद्भुतसर्ववेशः ।। ४१ ।।
तस्याविदूरे पुरुषश्च दृष्टस्स वानरो घोरमुखःकरालः ।।
सर्वायुधो रूक्षकरश्च रक्षन्स्थितो जरद्गोवृषभश्च शुक्लः ।।४२।।
तस्योपविष्टस्य तपस्विनोपि सुचारुरूपा तरुणी मनोज्ञा ।।
नारी शुभा पार्श्वगता हि तस्य दृष्टा च काचिद्भुवि रत्नभूता ।।४३।।
प्रवालमुक्तामणि हेमरत्नवस्त्रावृता माल्यशुभोपगूढा ।।
सा येन दृष्टा स च दृष्टिमान्स्याद् दृष्टेन चान्येन किमत्र कार्यम् ।।४४।।
मान्या महेशस्य च दिव्यनारी भार्य्या मुनेः पुण्यवतः प्रिया सा ।।
योग्या हि द्रष्टुं भवतश्च सम्यगानाय्य दैत्येन्द्र सुरत्नभोक्तः ।। ४५ ।।
।। सनत्कुमार उवाच ।।
श्रुत्वेति तेषां वचनानि तानि कामातुरो घूर्णितसर्वगात्रः ।।
विसर्जयामास मुनैस्सकाशं दुर्योधनादीन्सहसा स दैत्यः।।४६।।
आसाद्य ते तं मुनिमप्रमेयं बृहद्व्रतं मंत्रिवरा हि तस्य ।।
सुराजनीतिप्रवणा मुनीश प्रणम्य तं दैत्यनिदेशमाहुः ।।४७।।
मंत्रिण ऊचुः।।
हिरण्यनेत्रस्य सुतो महात्मा दैत्याधिराजोऽन्धकनामधेयः ।।
त्रैलोक्यनाथो भवकृन्निदेशादिहोपविष्टोऽद्य विहारशाली ।। ४८ ।।
तन्मंत्रिणो वै वयमंगवीरास्तवोपकंठं च समागताः स्मः ।।
तत्प्रेषितास्त्वां यदुवाच तद्वै शृणुष्व संदत्तमनास्तपस्विन् ।।४९।।
त्वं कस्य पुत्रोऽसि किमर्थमत्र सुखोपविष्टो मुनिवर्य धीमन् ।।
कस्येयमीदृक्तरुणी सुरूपा देया शुभा दैत्यपतेर्मुनीन्द्र ।। 2.5.44.५० ।।
क्वेदं शरीरं तव भस्मदिग्धं कपालमालाभरणं विरूपम् ।।
तूणीरसत्कार्मुकबाणखड्गभुशुंडिशूलाशनितोमराणि ।। ५१ ।।
क्व जाह्नवी पुण्यतमा जटाग्रे क्वायं शशी वा कुणपास्थिखण्डम् ।।
विषानलो दीर्घमुखः क्व सर्पः क्व संगमः पीनपयोधरायाः ।।५२।।
जरद्गवारोहणमप्रशस्तं क्षमावतस्तस्य न दर्शनं च ।।
संध्याप्रणामः क्वचिदेष धर्मः क्व भोजनं लोकविरुद्धमेतत् ।। ५३ ।।
प्रयच्छ नारीं सम सान्त्वपूर्वं स्त्रिया तपः किं कुरुषे विमूढ ।।
अयुक्तमेतत्त्वयि नानुरूपं यस्मादहं रत्नपतिस्त्रिलोके ।। ५४ ।।
विमुंच शस्त्राणि मयाद्य चोक्तः कुरुष्व पश्चात्तव एव शुद्धम् ।।
उल्लंघ्य मच्छासनमप्रधृष्यं विमोक्ष्यसे सर्वमिदं शरीरम् ।। ५५ ।।
मत्वांधकं दुष्टमतिं प्रधानो महेश्वरो लौकिकभावशीलः ।।
प्रोवाच दैत्यं स्मितपूर्वमेवमाकर्ण्य सर्वं त्वथ दूतवाक्यम्।।५६।।
शिव उवाच ।।
यद्यस्मि रुद्रस्तव किं मया स्यात्किमर्थमेवं वदसीति मिथ्या ।।
शृणु प्रभावं मम दैत्यनाथ न्याय्यं न वक्तुं वचनं त्वयैवम् ।। ५७ ।।
नाहं क्वचित्स्वं पितरं स्मरामि गुहांतरे घोरमनन्यचीर्णम् ।।
एतद्व्रतं पशुपातं चरामि न मातरं त्वज्ञतमो विरूपः ।। ५८ ।।
अमूलमेतन्मयि तु प्रसिद्धं सुदुस्त्यजं सर्वमिदं ममास्ति ।।
भार्या ममेयं तरुणी सुरूपा सर्वंसहा सर्वगतस्य सिद्धिः ।।५९।।
एतर्हि यद्यद्रुचितं तवास्ति गृहाण तद्वै खलु राक्षस त्वम् ।।
एतावदुक्त्वा विरराम शंभुस्तपस्विवेषः पुरतस्तु तेषाम् ।।2.5.44.६०।।
सनत्कुमार उवाच ।।
गंभीरमेतद्वचनं निशम्य ते दानवास्तं प्रणिपत्य मूर्ध्ना ।।
जग्मुस्ततो दैत्यवरस्य सूनुं त्रैलोक्यनाशाय कृतप्रतिज्ञम् ।। ६१ ।।
बभाषिरे दैत्यपतिं प्रमत्तं प्रणम्य राजानमदीनसत्त्वाः ।।
ते तत्र सर्वे जयशब्दपूर्वं रुद्रेण यत्तत्स्मितपूर्वमुक्तम् ।।६२।।
मंत्रिण उचुः ।।
निशाचरश्चंचलशौर्यधैर्यः क्व दानवः कृपणस्सत्त्वहीनः ।।
क्रूरः कृतघ्नश्च सदैव पापी क्व दानवः सूर्यसुताद्बिभेति ।।६३।।
राजत्वमुक्तोऽखिलदैत्यनाथस्तपस्विना तन्मुनिना विहस्य ।।
मत्वा स्वबुद्ध्या तृणवत्त्रिलोकं महौजसा वीरवरेण नूनम् ।। ६४ ।।
क्वाहं च शस्त्राणि च दारुणानि मृत्योश्च संत्रासकरं क्व युद्ध ।।
क्व वीरको वानरवक्त्रतुल्यो निशाचरो जरसा जर्जरांगः ।। ६५ ।।
क्वायं स्वरूपः क्व च मंदभाग्यो बलं त्वदीयं क्व च वीरुधो वा ।।
शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं कर्तुं तदा ह्येहि कुरुष्व किंचित् ।। ६६ ।।
वज्राशनेस्तुल्यमिहास्ति शस्त्रं भवादृशां नाशकरं च घोरम् ।।
क्व ते शरीरं मृदुपद्मतुल्यं विचार्य चैवं कुरु रोचते यत् ।।६७।।
मंत्रिण ऊचुः ।।
इत्येवमादीनि वचांसि भद्रं तपस्विनोक्तानि च दानवेश।।
युक्तं न ते तेन सहात्र युद्धं त्वामाह राजन्स्मयमान एव।।६८।।
विवस्तुशून्यैर्बहुभिः प्रलापैरस्माभिरुक्तैर्यदि बुध्यसे त्वम् ।।
तपोभियुक्तेन तपस्विना वै स्मर्तासि पश्चान्मुनिवाक्यमेतत् ।। ६९ ।।
।। सनत्कुमार उवाच ।। ।।
ततस्स तेषां वचनं निशम्य जज्वाल रोषेण स मंदबुद्धिः ।।
आज्यावसिक्तस्त्विव कृष्णवर्त्मा सत्यं हितं तत्कुटिलं सुतीक्ष्णम् ।। 2.5.44.७० ।।
गृहीतखड्गो वरदानमत्तः प्रचंडवातानुकृतिं च कुर्वन् ।।
गंतुं च तत्र स्मरबाणविद्धस्समुद्यतोऽभूद्विप रीतदेवः ।। ७१ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकगाणपत्यलाभोपाख्याने दूतसंवादो नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।