शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ५५

← अध्यायः ५४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ५५
वेदव्यासः
अध्यायः ५६ →

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ।।
अद्भुतेयं कथा तात श्राविता मे त्वया मुने ।। १ ।।
जृंभिते जृंभणास्त्रेण हरिणा समरे हरे ।।
हते बाणबले बाणः किमकार्षीच्च तद्वद ।। २ ।।
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः ।।
प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः ।।।६।।
सनत्कुमार उवाच।।
शृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् ।।
कृष्णशंकरयोस्तात लोकलीलानुसारिणोः।।४।।
शयिते लीलया रुद्रे सपुत्रे सगणे सति ।।
बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट् ।। ५ ।।
कुंभांडसंगृहीताश्वो नानाशस्त्रास्त्रधृक् ततः ।।
चकार युद्धमतुलं बलिपुत्रो महाबलः ।। ६ ।।
दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः ।।
चकार युद्धमतुलं बलि पुत्रो महाबलः ।।७।।
श्रीकृष्णोपि महावीरो गिरिशाप्तमहाबलः ।।
उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम् ।। ८ ।।
धनुष्टंकारयामास शार्ङ्गाख्यं निजमद्भुतम् ।।
त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर ।। ९ ।।
तेन नादेन महता धनुष्टंकारजेन हि ।।
द्यावाभूम्योरंतरं वै व्याप्तमासीदनंतरम् ।। 2.5.55.१० ।।
चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः ।।
कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान् ।। ११ ।।
आयातांस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः ।।
अप्राप्तानेव चिच्छेद स्वशरैस्स्वधनुश्च्युतैः।। १२ ।।
पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः ।।
तत्रसुर्वृष्णयस्सर्वे कृष्णात्मानो विचेतसः ।। १३ ।।
स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान्।।
स कृष्णायातिशूराय महागर्वो बलेस्सुतः ।।१४।।
कृष्णोपि तानसंप्राप्तानच्छिनत्सशरैर्द्रुतम् ।।
स्मृत्वा शिवपदाम्भोजममरारि महाबलः ।। १५ ।।
रामादयो वृष्णयश्च स्वंस्वं योद्धारमाहवे ।।
निजघ्नुर्बलिनस्सर्वे कृत्वा क्रोधं समाकुलाः ।। १६ ।।
इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि ।।
बभूव तुमुलं युद्धं शृण्वतां विस्मयावहम् ।। १७ ।।
तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽतिपक्षिराट् ।।
बाणासुरबलं सर्वं पक्षाघातैरमर्दयत् ।। १८ ।।
मर्दितं स्वबलं दृष्ट्वा मर्दयंतं च तं बली ।।
चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः ।। १९ ।।
स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् ।।
महत्पराक्रमं चक्रे वैरिणां दुस्सहं स वै ।। 2.5.55.२० ।।
चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा ।।
कृष्णादिसर्वयदुषु गरुडे च पृथक्पृथक् ।। २१ ।।
जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा ।।
बलमेकेन च मुने परानपि तथा बली ।। २२ ।।
ततः कृष्णो महावीर्यो विष्णुरूपस्सुरारिहा ।।
चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः ।। २३ ।।
जघान बाणं तरसा शार्ङ्गनिस्सृतसच्छरैः ।।
अति तद्बलमत्युग्रं युगपत्स्मृतशंकरः ।। २४ ।।
चिच्छेद तद्धनुश्शीघ्रं छत्रादिकमना कुलः ।।
हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः ।। २५ ।।
बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह ।।
कृष्णं जघान गदया सोऽपतद्धरणीतले ।। २६ ।।
उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा ।।
शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः ।। २७ ।।
एवं द्वयोश्चिरं काल बभूव सुमहान्रणः ।।
शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली ।। २८ ।।
कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान्।।
शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वरः ।।२९।।
ततस्सुदर्शनेनाशु कृष्णो बाणभुजान्बहून् ।।
चिच्छेद भगवाञ्शंभु शासनात्परवीरहा ।। 2.5.55.३० ।।
अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः ।।
गतव्यथो बभूवाशु शंकरस्य प्रसादतः ।। ३१ ।।
गतस्मृतिर्यदा बाण शिरश्छेत्तुं समुद्यतः ।।
कृष्णो वीरत्वमापन्नस्तदा रुद्रस्समुत्थितः ।। ३२ ।।
रुद्र उवाच ।।
भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा ।।
तत्कृतं च त्वया विप्र मदाज्ञाकारिणा सदा ।। ३३ ।।
मा बाणस्य शिरश्छिंधि संहरस्व सुदर्शनम् ।।
मदाज्ञया चक्रमिदं स्यान्मोघं मज्जने सदा ।। ३४ ।।
दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव ।।
चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः ।। ३५ ।।
दधीचे रावणे वीरे तारकादिपुरेष्वपि ।।
विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा ।। ३६ ।।
त्वं तु योगीश्वरस्स्साक्षात्परमात्मा जनार्दन ।।
विचार्यतां स्वमनसा सर्वभूतहिते रतः ।। ३७ ।।
वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै ।।
तन्मे वचस्सदा सत्यं परितुष्टोस्म्यहं तव ।।३८।।
पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् ।।
भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे ।। ३९ ।।
तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति ।।
अचिरेणातिकालेन गतगर्वो भविष्यसि ।। 2.5.55.४० ।।
मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै ।।
निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः ।। ४१ ।।
इत्युक्तः स तयोमैत्रीं कारयित्वा महेश्वरः ।।
तममुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ ।। ४२ ।।
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभोस्संहृत्य च सुदर्शनम् ।।
अक्षतांगस्तु विजयी तत्कृष्णोंतःपुरं ययौ ।। ४३ ।।
अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः ।।
जग्राह रत्नसंघातं बाणदत्तमनेकशः ।। ४४ ।।
तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् ।।
प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया ।। ४५ ।।
हृदा प्रणम्य गिरिशमामंत्र्य च बलेस्तुतम् ।।
परिवारसमेतस्तु जगाम स्वपुरीं हरिः ।। ४६ ।।
पथि जित्वा च वरुणं विरुद्धं तमनेकधा ।।
द्वारकां च पुरीं प्राप्तस्समुत्सवसमन्वितः ।। ४७ ।।
विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च ।।
द्वारकायां ततो दृष्ट्वा कामचारी चचार ह ।। ४८ ।। ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे बाणभुजकृंतनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः ।। ५५ ।।