शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/विषयानुक्रमणिका
अथ द्वितीयाया रुद्रसंहितायाः पञ्चमो युद्धखण्डः ॥ ५ ॥
१ त्रिपुरात्मजतारकविद्युन्मालिकमलाक्षतप:प्रीत ब्रह्मणा वरं याचध्वमित्युक्ते तैः सर्वामरप्रधानत्वमयाचि । नायं वरः समुचितोऽन्यं प्रार्थयतेति तेनोक्ते हैमवज्राय सराजतानि पुरत्रयाणि नो देहीत्युक्त ब्रह्मणा तन्निर्माणाय विश्वकर्मणे निदेशः ।
२ तारकाद्यर्दितदेवानां तद्वधाय शिवस्तुतिः ।
३ शिवोपदेशाद्देवानां विष्णुप्रार्थनं तेन यज्ञेभ्यस्तेभ्यो भूतसृष्टिस्ततश्च शिवार्चकत्रिपुरस्य नाशोऽशक्यः । प्रयत्नतस्तेषां शिवपूजाविघ्नसम्पादनविचार:। ।
४ त्रिपुरमोहनार्थं विष्णुना जिनस्योत्पादनन्तद्वारार्हत्या दीक्षया त्रिपुरस्यर्हद्धर्मानुगीकरणम् ।
५ जिनधर्मकथनप्रसङ्गेन देवानां ग्राम्यधर्माद्यनियमवर्णनम् ।
६ विष्णुब्रह्मप्रभृतिसुरैस्त्यक्तशिवधर्मः तारकासुरस्य इति शिवाय सस्तुतिनिवेदनम् ।
७।८ त्रिपुरघाताय शिवाज्ञया विश्वकर्मणा सर्वदेवमयरथनिर्माणम् ।
९ श्रीशिवस्य युद्धयात्रावर्णनम् ।
१० त्रिपुरदाहवर्णनम् ।
११ त्रिपुरासुरे दग्धे शिवस्य रौद्रीं मूर्ति विलोक्य विष्ण्वादिदेवैः शम्भुस्तुतः ।
१२ त्रिपुरदाहावशिष्टमयस्य शम्भुशरणगमनं, तस्मै शम्भुना वितललोकवासदानपूर्वकं स्वभक्तिर्दत्ता जैनाचार्य्येभ्यः कलौ त्वन्मतं प्रसरिष्यतीति निदेशपूर्वकं विष्ण्वादिदेवविसर्जनम् ।
१३ तपस्विरूपेण गच्छति शिवे शक्रेण तदवमानाच्छम्भुना तद्भस्मीकरणं बृहस्पतिप्रार्थनया पुनरुज्जीवनम् ।
१४ रुद्रनेत्रोत्थवह्निना समुद्राज्जलन्धरोत्पत्तिः, कालनेमिदुहित्रा वृन्दया तत्परिणयनम् ।
१५ स्वसदसि छिन्नशिरसं राहुमवलोक्य सुधामन्थनसामयिकदेववैरं स्मृत्वा जलंधरस्य शक्रेण युद्धं देवानां तत्कर्तृकपराजयश्च।
१६ स्वर्गं विहाय विद्रुतेषु सुरेषु जलन्धरेण तदनुसरणं देवसहायार्थं विष्णोः संग्रामकरणञ्च।
१७ विष्णुजलन्धरयुढे जलन्धरपराक्रमतुष्टविष्णोर्वरदानेन तन्नगर सलक्ष्मीकहरेर्निवासः ।
१८शक्रादिदेवैस्संप्रेषितो नारदो जलन्धरमागत्य पार्वतीरूपलावण्यलक्ष्मीं प्रशशंस तस्यां जातानुरागः स दैत्यो मारशराहतो बभूव ।
१९ शिवसन्निधौ पार्वतीं मह्यं देहीति दूतप्रेषणन्तदाकर्ण्य रुषाभीमस्य पुरुषस्योत्पत्तिः शम्भुदेहात् ।
२०-२१ शिवगणजलन्धरसैन्ययुद्धवर्णनम् ।
२२ श्रीशिवजलन्धरयोर्युद्धे नानामायाः संविधाय तत्र प्रवृत्ते हरे पार्वतीरिरंसया जलन्धरस्य शिवरूपेण पार्वत्यन्तिकं गमनम् । तन्मायामालोक्य भवान्या विष्णोः स्मरणं दुष्टजलन्धरदैत्यस्य पत्न्या वृन्दायाः सतीत्वमपाकुर्वित्यामन्त्रणम् ।
२३ विष्णुना जलन्धरपत्न्या दुःस्वप्नान्दर्शयित्वा भयोत्पादनं स्वयं मायाजलन्धरवपुषा तया सह विहरणम्। विदितविष्णुच्छलाया वृन्दाया जन्मान्तरे तव पत्नीहरणं भवत्विति विष्णुशापदानपूर्वकं चिताप्रवेशः ।
२४ श्रीशिवद्वारा जलन्धरवध: ।
२५ तत्तद्भक्तभुक्तिमुक्त्यादिप्रदानात्मक शम्भुयशः स्तवनम् ।
२६ वृन्दाचिताभूमौ समाधिस्थस्य हरे: प्रवृत्तिं सूचयितुं शम्भवे देवानां निवेदनं यूयं सर्वे पार्वतीसविधं गत्वा स्वप्रार्थितं प्राप्स्वयेति शम्भुवचसा देवानां शिवास्तुतिपूर्वकं तत्प्रार्थनम्। तया च वृन्दाचिताभूमौ वपनार्थ बीजदानन्ततश्च तेभ्यो धात्रीमालतीतुलसीनामुत्पत्तिस्ताः प्राप्य विष्णुमोहापगमः ।
२७ दम्भासुरस्य पुत्रार्थं तपश्चरणम् । तत्तपस्तुष्टविष्णुप्रसादात्तस्य शंखचूड़ाह्वपुत्रोत्पत्तिः ।
२८ शंखचूडस्य तपश्चरणं ब्रह्मनिदेशात्तुलस्या सह विवाहश्च ।
२९ शंखचूडवधोपक्रमे तद्राज्यकरणवर्णनपूर्वकं यत्पूर्वभववृत्ताभिधानम् ।
३० त्वदृते दृप्तशंखचूडस्य वधोऽसंभाव्य इति हरिब्रह्मप्रमुखदेवैः शिवस्तुतिकरणम् ।
३१ शंखचूडवधार्थं याचमानेभ्यो देवेभ्यः शिवोपदेহা: ।
३२ देवेभ्यो राज्यं देहि नो चेद्युद्धयस्वेति शंखचूड सविधं शिवेन पुष्पदन्तदूतप्रेषणम् ।
३३ वीरभद्रनन्दिकाल्यष्टभैरवाद्यनेक शिवगणानां तत्सैन्यसंख्याभिदानपुरस्सरं युद्धयात्रा वर्णनम् ।
३४ भार्यां तुलसीं समाश्वास्य पुत्रे राज्यं समर्प्य शंखचूडस्य युद्धयात्रोपक्रमः ।
३५ मरीचिपुत्रकश्यपाद्दानवोत्पतिः, पूर्वदेवास्त इत्यादिकुलीनतां प्रकटनपुरस्सरं जातिभिर्युद्धमनर्थहेतुरित्यादिशिवोपदेशो दूतं प्रति। देवाः सदैव स्वकार्यसाधकास्तैर्योद्धव्यमेवेति शंखचूडाशयकथनपूर्वकं दूतवचनम् ।
३६ देवदानवानां रोमहर्षणयुद्धवर्णनम् ।
३७ शंखचूडेन कार्तिकेयादिमहावीराणां निरुपम युद्धवर्णनम् ।
३८ ब्रह्मपाशुपतास्त्रप्रयोगपूर्वकं श्रीकालिचन्द्रचूडयोर्युद्धवर्णनम् ।
३९ अशारीरिण्या वाचा श्रीशड्करादृतेऽसम्भावी शंखचूडवध इत्युक्ते शिवशंखचूडयोरत्युत्कटयुद्धवर्णनम् । कालीभैरवनन्द्यादिद्वारा शंख चूडसैनिकानामसंख्यानां वध: ।
४० श्रीशिवशंखचूडयोस्तुमुले युद्धे धृतनारायणकवचस्य शंखचूडस्य वधो नारायणप्रार्थनां विना दुर्घट इत्याकाशवाण्याभिहिते शिवेन नारायणप्रार्थनं नारायणस्य वृद्धब्राह्मणरूपेण शंखचूडाद्वर्मयाञ्चा, शिवद्वारा शंखचूडवधश्च ।
४१ त्वं शिला भवेति विष्णवे तुलसीशापः, तस्याश्च गण्डकीनदीरूपता, तयोश्चिरकालिका: संगम: ।
४२ श्रीपार्वतीप्रस्वेदतोऽन्धकस्य जन्म, पुत्रार्थं तपस्यते हिरण्याक्षाय शिवद्वारा तस्य दानम् । हिरण्याक्षे भूमिमपहृत्य पाताल गते वराहरूपिविष्णुना तद्वधपुरस्सरं भूम्यानयम्।
४३ हिरण्याक्षे निहते सकोपं हिरण्यकशिपोर्घोरतपश्चरणं, तत्तपोभीतदेवानां क्षीरसागरशायिविष्णुशरणगमनं, तेन च तं दुष्टदैत्यं हनिष्यामीत्यभयदानं, कालान्तरे नृसिंहरूपेणितद्वधः ।
४४ प्राप्तस्वपितृराज्यस्यान्धकस्य त्रिलोकीविद्रावणपार्वतीलावण्यश्रवणसञ्जाततृष्णस्य योगीरूपधारिशिवसमीपे पार्वतीयाञ्चर्थं दूतप्रेषणम् । शम्भोश्च तद्विपरीतोत्तरदानेनान्धकस्य युद्धोद्योगः ।
४५-४६ अन्धकासुरशिवसैन्य घोरयुद्धवर्णनं वीरभद्रादीनां युद्धपराजयः शिवस्याधिकबलसम्पादनार्थन्तपश्चरणम् ।
४७ अन्धकप्रार्थनया युद्धहतवीराणां शुक्रेण सञ्जीविन्योज्जीवनम् ।
४८ पिनाकिनिदेशान्नंदिना दैत्यगुरोग्रहणं शिवद्वारा तन्निगीर्णनमन्धकवधसमये कोलाहलेन शिवशुक्रद्वारा शुक्रनिस्सरणं तस्मै शिवानुग्रहश्च ।
४९ शिवशूलाग्रप्रोतान्धकस्य त्रिसहस्रवर्षपर्यंतं तपश्चरणं तत्कर्मणा प्रीतेन शिवेन तत्सैन्यजीवितप्रदानपूर्वकन्तस्मै गाणपत्यप्रदानम् ।
५० तपस्तुष्टशिवाच्छुक्रस्य सञ्जीवनीविद्यालाभ: ।
५१ ऊषाचरितवर्णनं शिवशिवाविहारवर्णनश्च ।
५२ बाणासुरस्य गर्व्वोक्त्याचिरात्वद् जकण्डूनिवृत्तिर्भवित्रीति शिवोक्तिः, ततः श्रीगौरीप्रेषितसख्यानीताऽनिरुद्धेन सहोषारतिश्चित्रलेखासाहाय्येनानिरुद्धस्य पुनस्तदन्तःपुरे ऊषा विहारः ।
५३ कन्यान्तःपुरदूषकस्यानिरुद्धस्य निग्रहार्थं ससैन्यबाणासुरस्य घोरयुद्धवर्णनम् तस्यामानुष कर्म्म विलोक्य तद्वधाय स्वमन्त्रिणे निर्देशो नभोवाण्या तन्निवारणं नागपाशैस्तद्बन्धनमनिरुद्धस्तवेन काल्या नागपाशच्छेदोऽनिरुद्धस्य चोषया सुखेन विहार:
५४-५५ अनिरुद्धेऽदर्शनं याते तन्मात्रादीनां चिxता नारदानुग्रहादवगतवृत्तस्य श्रीकृष्णस्य तदानयनाय पातालगमनन्तत्र बाणेनातिभयङकरयुद्धं, शम्भुनाथस्य तस्य पराजयेऽमोघवीर्यत्वं शिवानुग्रहात्पुनस्तस्य भुजराजिकृन्तनपूर्वकं पराजयकरणम् । ऊषानिरुद्धयोर्विवाहो द्वारकागमनञ्च ।
५६ रणे स्वमानभंगसंजातिनिर्वेदस्य बाणासुरस्य शम्भुप्रेषितनंदिना सान्त्वनं बाणस्येशप्रीतये नृत्यकरणन्ततो हृष्टशिवेन तस्मै गाणपत्यप्रदानम् ।
५७ महिषासुरपुत्रगजासुरस्य महेश्वरद्वारा वधस्तदाख्यया कृत्तिवासेश्वरलिंगस्थापनं तत्कृत्तिवसन धारणश्च ।
५८ दुन्दुभिनिर्ह्राददैत्यवधाय धृत्व्याघ्ररूपिणः स्मरहरस्य मुनिप्रार्थनया व्याघ्रेशाख्यलिंग तत्रे वावस्थानम् ।
५९ गौरीद्वारा वदलोत्पलदैत्यवधवर्णनम् ।
इति द्वितीया रुद्रसंहिताया: पञ्चमो युद्धखण्ड।५।।
इति द्वितीया रुद्रसंहिता ।२।