शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ०४

← अध्यायः ०३ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा ।।
रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ।। १ ।।
शिव उवाच ।।
सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ।।
कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः ।। २ ।।
मर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति।।
तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ।।३।।
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च।।
उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ।। ४ ।।
युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ।।
द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः ।।५।।
तदाहं ब्राह्मणार्थाय कलौ तस्मिन्युगान्तिके।।
भविष्यामि शिवायुक्तः श्वेतो नाम महामुनिः ।।६।।
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे।।
तदा शिष्याः शिखायुक्ता भविष्यन्ति विधे मम ।।७।।
श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।।
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम।।८।।
ततो भक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम्।।
जन्ममृत्युजराहीनाः परब्रह्मसमाधयः ।। ९ ।।
द्रष्टुं शक्यो नरैर्नाहमृते ध्यानात्पितामह ।।
दानधर्मादिभिर्वत्स साधनैः कर्महेतुभिः ।।3.4.१०।।
द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ।।
यदा तदा भविष्यामि सुतारो नामतः कलौ ।। ११ ।।
तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ।।
दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ।।१२।।
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ।।
ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ।। १३ ।।
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ।।
तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ।।१४।।
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ।।
विशोकश्च विशेषश्च विपापः पापनाशनः ।। १५ ।।
शिष्यैः साहाय्यं व्यासस्य करिष्ये चतुरानन ।।
निवृत्तिमार्गं सुदृढं वर्त्तयिष्ये कलाविह ।।१६।।
चतुर्थे द्वापरे चैव यदा व्यासोंऽगिराः स्मृतः ।।
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ।।१७।।
तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।।
भविष्यंति महात्मानस्तन्नामानि ब्रुवे विधे।।१८।।
सुमुखो दुर्मुखश्चैव दुदर्भो दुरतिक्रमः ।।
शिष्यैः साहाय्यं व्यासस्य करिष्येऽहं तदा विधे ।। १९ ।।
पञ्चमे द्वापरे चैव व्यासस्तु सविता स्मृतः ।।
तदा योगी भविष्यामि कंको नाम महातपाः ।।3.4.२०।।
तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।।
भविष्यन्ति महात्मानस्तन्नामानि शृणुष्व मे ।। २१ ।।
सनकः सनातनश्चैव प्रभुर्यश्च सनन्दनः ।।
विभुः सनत्कुमारश्च निर्मलो निरहंकृतिः ।।२२।।
तत्रापि कंकनामाहं साहाय्यं सवितुर्विधे ।।
व्यासस्य हि करिष्यामि निवृत्तिपथवर्द्धकः ।। २३ ।।
परिवर्ते पुनः षष्ठे द्वापरे लोककारकः ।।
कर्ता वेदविभागस्य मृत्युर्व्यासो भविष्यति ।।२४।।
तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।।
व्यासस्य सुसाहा य्यार्थं निवृत्तिपथवर्द्धनः ।। २५ ।।
तत्रापि शिष्याश्चत्वारो भविष्यन्ति दृढव्रताः ।।
सुधामा विरजाश्चैव संजयो विजयस्तथा ।। २६ ।।
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ।।
तदाप्यहं भविष्यामि जैगीषव्यो विभुर्विधे ।। २७ ।।
योगं संद्रढयिष्यामि महायोगविचक्षणः ।।
काश्यां गुहान्तरे संस्थो दिव्यदेशे कुशास्तरिः ।। २८ ।।
साहाय्यं च करिष्यामि व्यासस्य हि शतक्रतोः ।।
उद्धरिष्यामि भक्तांश्च संसारभयतो विधे ।।२९।।
तत्रापि मम चत्वारो भविष्यन्ति सुता युगे ।।
सारस्वतश्च योगीशो मेघवाहः सुवाहनः ।।3.4.३०।।
अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ।।
कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ।।३१।।
तत्राप्यहं भविष्यामि नामतो दधिवाहनः ।।
व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ।। ३२ ।।
कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ।।
चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ।। ३३ ।।
नवमे परिवर्ते तु तस्मिन्नेव युगे विधे ।।
भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ।।३४।।
व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ।।
तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ।।३५।।
पराशरश्च गर्गश्च भार्गवो गिरिशस्तथा ।।
चत्वारस्तत्र शिष्या मे भविष्यन्ति सुयोगिनः ।।३६।।
तैः साकं द्रढयिष्यामि योगमार्गं प्रजापते ।।
करिष्यामि साहाय्यं वै वेदव्यासस्य सन्मुने ।।३७।।
तेन रूपेण भक्तानां बहूनां दुःखिनां विधे ।।
उद्धारं भवतोऽहं वै करिष्यामि दयाकरः ।। ३८ ।।
सोऽवतारो विधे मे हि ऋषभाख्यस्सुयोगकृत् ।।
सारस्वतव्यासमनः कर्त्ता नानोतिकारकः ।।३९।।
अवतारेण मे येन भद्रायुर्नृपबालकः ।।
जीवितो हि मृतः क्ष्वेडदोषतो जनकोज्झितः ।।3.4.४०।।
प्राप्तेऽथ षोडशे वर्षे तस्य राजशिशोः पुनः ।।
ययौ तद्वेश्म सहसा ऋषभः स मदात्मकः ।। ४१।।
पूजितस्तेन स मुनिः सद्रूपश्च कृपानिधिः ।।
उपादिदेश तद्धर्मान्राज्ययोगान्प्रजापते ।।४२।।
ततः स कवचं दिव्यं शंखं खङ्गं च भास्वरम् ।।
ददौ तस्मै प्रसन्नात्मा सर्वशत्रुविनाशनम् ।।४३।।
तदङ्ग भस्मनामृश्य कृपया दीनवत्सलः ।।
स द्वादशसहस्रस्य गजानां च बलं ददौ ।।४४।।
इति भद्रायुषं सम्यगनुश्वास्य समातृकम्।।
ययौ स्वैरगतस्तस्यां पूजितस्त्वृषभः प्रभुः ।। ४५ ।।
भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ।।
राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ।। ४६ ।।
इत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ।।
सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ।। ४७ ।।
ऋषभस्य चरित्रं हि परमं पावनं महत् ।।
स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ।। ४८ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामृषभचरित्रवर्णनं नाम चतुर्थोऽध्यायः ।। ४ ।।