शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १५

← अध्यायः १४ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

नन्दीश्वर उवाच।।
विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम्।।
तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम् ।।१।।
हा हतोस्मीति वचसा हृदयं समताडयत् ।।
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ।। २ ।।
शुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ।।
अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ।।३।।
श्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत्।।
उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः ।। ४ ।।
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ।।
स्मित्वोवाच गृहपस्सबालश्शंकरांशजः ।।५।।
गृहपतिरुवाच ।।
हे मातस्तात किं जातं कारणन्तद्वदाधुना ।।
किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक्कुतो हि वाम् ।। ६ ।।
न मां कृतवपुस्त्राणम्भवच्चरणरेणुभिः ।।
कालः कलयितुं शक्तो वराकीं चिञ्चलाल्पिका ।।७।।
प्रतिज्ञां शृणुतान्तातौ यदि वान्तनयो ह्यहम् ।।
करिष्येहं तथा येन मृत्युस्त्रस्तो भविष्यति ।। ८ ।।
मृत्युंजयं समाराध्य गर्वज्ञं सर्वदं सताम् ।।
जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम्।।९।।
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती।।
अकालमृतवर्षौघैर्गततापौ तदोचतुः ।।3.15.१०।।
द्विजदम्पती ऊचतुः ।।
पुनर्ब्रूहि पुनर्ब्रूहि कीदृक्कीदृक् पुनर्वद ।।
कालः कलयितुन्नालं वराकी चञ्चलास्ति का।।११।।
आवयोस्तापनाशाय महोपायस्त्वयेरितः ।।
मृत्युंजयाख्यदेवस्य समाराधनलक्षणः।।१२।।
तद्वच्च शरणं शम्भोर्नातः परतरं हि तत्।।
मनोरथपथातीत कारिणः पापहारिणः ।।१३।।
किन्न श्रुतन्त्वया तात श्वेतकेतुं यथा पुरा ।।
पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ।। १४ ।।
शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ।।
शिवो निजजनञ्चक्रे नन्दिनं विश्वनंदिनम् ।। १५ ।।
क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ।।
पीत्वा हलाहलं घोरमरक्षद्भुवनत्रयम् ।। १६ ।।
जलंधरं महादर्पं हृतत्रैलोक्यसम्पदम् ।।
रुचिरांगुष्ठरेखोत्थ चक्रेण निजघान यः ।। १७ ।।
य एकेषु निपातोत्थज्वलनैस्त्रिपुरम्पुरा ।।
त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना ।। १८ ।।
कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ।।
निनायानंगपदवीं वीक्ष्यमाणेष्वजादिषु ।।१९।।
तम्ब्रह्माद्यैककर्तारम्मेघवाहनमच्युतम् ।।
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ।।3.15.२०।।
नन्दीश्वर उवाच ।।
पित्रोरनुज्ञाम्प्राप्येति प्रणम्य चरणौ तयोः ।।
प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ ।। २१ ।।
सम्प्राप्य काशीं दुष्प्रापाम्ब्रह्मनारायणादिभिः ।।
महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम् ।। २२ ।।
स्वर्धुन्या हारयष्ट्येव राजिता कण्ठभूमिषु ।।
विचित्रगुणशालिन्या हरपत्न्या विराजिताम् ।।२३।।
तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ।।
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरम्प्रभुम् ।।२४।।
साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितस्सुधीः ।।
त्रैलोक्यप्राणसन्त्राणकारिणम्प्रणनाम ह ।। २५ ।।
आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ।।
परमानंदकंदाढ्यं स्फुटमेतन्न संशयः ।। २६ ।।
अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ।।
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ।। २७ ।।
मम भाग्योदयायैव नारदेन महर्षिणा ।।
पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः ।। २८ ।।
नन्दीश्वर उवाच ।।
इत्यानन्दामृतरसैर्विधाय स हि पारणम् ।।
ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम् ।। २९ ।।
जग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ।।
अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः ।। 3.15.३० ।।
संस्नाप्य वाससा पूतः पूतात्मा प्रत्यहं शिवम् ।।
नीलोत्पलमयीम्मालां समर्पयति सोऽन्वहम् ।। ३१ ।।
अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ।।
स पक्षे वाथ वा मासे कन्दमूलफलाशनः ।। ३२ ।।
शीर्णपर्णाशनैर्धीरः षण्मासं सम्बभूव सः ।।
षण्मासं वायुभक्षोऽभूत्षण्मासं जल बिन्दुभुक् ।। ३३ ।।
एवं वर्षवयस्तस्य व्यतिक्रान्तं महात्मनः ।।
शिवैकमनसो विप्रास्तप्यमानस्य नारद ।। ३४ ।।
जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ।।
सत्यं करिष्यन्निव तमभ्यगात्कुलिशायुधः ।। ३५ ।।
उवाच च वरं ब्रूहि दद्मि त्वन्मनसि स्थितम् ।।
अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ।। ।।। ३६ ।।
नन्दीश्वर उवाच ।।
इत्याकर्ण्य महेन्द्रस्य वाक्यम्मुनिकुमारकः ।।
उवाच मधुरन्धीरः कीर्तयन्मधुराक्षरम् ।। ३७ ।।
गृहपतिरुवाच ।।
मघवन् वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ।।
नाहं वृणे वरन्त्वत्तश्शंकरो वरदोऽस्ति मे ।। ३८ ।।
इन्द्र उवाच ।।
न मत्तश्शङ्करस्त्वन्यो देवदेवोऽस्म्यहं शिशो ।।
विहाय बालिशत्वं त्वं वरं याचस्व मा चिरम् ।।३९।।
गृहपतिरुवाच ।।
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ।।
न प्रार्थये पशुपतेरन्यं देवान्तरं स्फुटम् ।। 3.15.४० ।।
नन्दीश्वर उवाच ।।
इति तस्य वचः श्रुत्वा क्रोध संरक्तलोचनः ।।
उद्यम्य कुलिशं घोरम्भीषयामास बालकम् ।। ४१ ।।
स दृष्ट्वा बालको वज्रं विद्युज्ज्वाला समाकुलम् ।।
स्मरन्नारद वाक्यं च मुमूर्च्छ भयविह्वलः ।। ४२ ।।
अथ गौरीपतिश्शम्भुराविरासीत्तपोनुदः ।।
उत्तिष्ठोत्तिष्ठ भद्रन्ते स्पर्शैस्संजीवयन्निव ।। ४३ ।।
उन्मील्य नेत्रकमले सुप्ते इव दिनक्षये ।।
अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम् ।।४४।।
भाले लोचनमालोक्य कण्ठे कालं वृषध्वजम्।।
वामाङ्गसन्निविष्टाद्रितनयं चन्द्रशेखरम्।।४५।।
कपर्द्देन विराजन्तं त्रिशूलाजगवायुधम्।।
स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम्।।४६।।
परिज्ञाय महादेवं गुरुवाक्यत आगमात्।।
हर्षबाष्पाकुलासन्नकण्ठरोमाञ्चकञ्चुकः ।।४७।।
क्षणं च गिरिवत्तस्थौ चित्रकूटत्रिपुत्रकः ।।
यथा तथा सुसम्पन्नो विस्मृत्यात्मानमेव च।।४८।।
न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तिमेव च ।।
यदा स न शशाकालं तदा स्मित्वाह शङ्करः ।। ४९ ।।
ईश्वर उवाच ।।
शिशो गृहपते शक्राद्वज्रोद्यतकरादहो ।।
ज्ञात भीतोऽसि मा भैषीर्जिज्ञासा ते मया कृता ।। 3.15.५० ।।
मम भक्तस्य नो शक्रो न वज्रं चान्तकोऽपि च ।।
प्रभवेदिन्द्ररूपेण मयैव त्वम्विभीषितः ।।५१।।
वरन्ददामि ते भद्र त्वमग्निपदभाग्भव ।।
सर्वेषामेव देवानां वरदस्त्वं भविष्यसि ।।५२।।
सर्वेषामेव भूतानां त्वमग्नेऽन्तश्चरो भव।।
धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि।।५३।।
त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति।।
अग्नीश्वर इति ख्यातं सर्वतेजोविबृंहणम् ।।५४।।
अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निभिः ।।
अग्निमांद्यभयं नैव नाकालमरणं क्वचित् ।। ५५ ।।
अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ।।
अन्यत्रापि मृतो दैवाद्वह्निलोके महीयते ।।५६।।
नन्दीश्वर उवाच ।।
इत्युक्तानीय तद्बन्धून्पित्रोश्च परिपश्यतोः।।
दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोऽविशत् ।।५७।।
इत्थमग्न्यवतारस्ते वर्णितो मे जनार्दनः ।।
नाम्ना गृहपतिस्तात शंकरस्य परात्मनः ।।५८।।
चित्रहोत्रपुरी रम्या सुखदार्चिष्मती वरा ।।
जातवेदसि ये भक्ता ते तत्र निवसन्ति वै ।। ५९ ।।
अग्निप्रवेशं ये कुर्य्युर्दृढसत्त्वा जितेन्द्रियाः ।।
स्त्रियो वा सत्त्वसम्पन्नास्ते सर्व्वेप्यग्नितेजसः ।।3.15.६०।।
अग्निहोत्ररता विप्राः स्थापिता ब्रह्मचारिणः ।।
पश्चानिवर्त्तिनोऽप्येवमग्निलोकेग्निवर्चसः ।।६१।।
शीते शीतापनुत्त्यै यस्त्वेधोभारान्प्रयच्छति ।।
कुर्य्यादग्नीष्टिकां वाथ स वसेदग्निसन्निधौ ।। ६२ ।।
अनाथस्याग्निसंस्कारं यः कुर्य्याच्छ्रद्धयान्वितः ।।
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते ।। ६३ ।।
अग्निरेको द्विजातीनां निश्श्रेयसकरः परः ।।
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ।। ६४ ।।
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ।।
पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः।।६५।।
अन्तरात्मा ह्ययं साक्षान्निश्चयो ह्याशुशुक्षणिः ।।
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ।।६६।।
तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका ।।
कर्त्री हर्त्री पालयित्री विनैतां किं विलोक्यते ।।६७।।
चित्रभानुरयं साक्षान्नेत्रन्त्रिभुवनेशितुः ।।
अन्धे तमोमये लोके विनैनं कः प्रकाशनः ।। ६८ ।।
धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ।।
एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः ।।६९।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम पञ्चदशोऽध्यायः ।। १५ ।।