शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १९

← अध्यायः १८ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः १९
वेदव्यासः
अध्यायः २० →

नन्दीश्वर उवाच ।।
अथान्यच्चरितं शम्भो श्शृणु प्रीत्या महामुने ।।
यथा बभूव दुर्वासाश्शंकरो धर्महेतवे ।। १ ।।
ब्रह्मपुत्रो बभूवातितपस्वी ब्रह्मवित्प्रभुः ।।
अनसूयापतिर्धीमान्ब्रह्माज्ञाप्रतिपालकः ।। २ ।।
सुनिर्देशाद्ब्रह्मणो हि सस्त्रीकः पुत्रकाम्यया ।।
स त्र्यक्षकुलनामानं ययौ च तपसे गिरिम् ।। ३ ।।
प्राणानायम्य विधिवन्निर्विन्ध्यातटिनीतटे ।।
तपश्चचार सुमहदद्वन्द्वोऽब्दशतम्मुनिः ।। ४ ।।
य एक ईश्वरः कश्चिदविकारो महाप्रभुः ।।
स मे पुत्रवरं दद्यादिति निश्चितमानसः ।। ५ ।।
बहुकालो व्यतीयाय तस्मिंस्तपति सत्तपः ।।
आविर्बभूव तत्कात्तु शुचिर्ज्वाला महीयसी ।। ६ ।।
तया सन्निखिला लोका दग्धप्राया मुनीश्वराः ।।
तथा सुरर्षयः सर्वे पीडिता वासवादयः ।। ७ ।।
अथ सर्वे वासवाद्या सुराश्च मुनयो मुने ।।
ब्रह्मस्थानं ययुश्शीघ्रं तज्ज्वालातिप्रपीडिताः ।। ८ ।।
नत्वा नुत्वा विधिन्देवास्तत्स्वदुःखन्न्यवेदयन् ।।
ब्रह्मा सह सुरैस्तात विष्णुलोकं ययावरम् ।।९।।
तत्र गत्वा रमानाथं नत्वा नुत्वा विधिस्सुरैः ।।
स्वदुःखन्तत्समाचख्यौ विष्णवेऽनन्तकं मुने ।। 3.19.१० ।।
विष्णुश्च विधिना देवै रुद्रस्थानं ययौ द्रुतम् ।।
हरं प्रणम्य तत्रेत्य तुष्टाव परमेश्वरम् ।। १ १।।
स्तुत्वा बहुतया विष्णुं स्वदुःखं च न्यवेदयत् ।।
शर्वं ज्वालासमुद्भूतमत्रेश्च तपसः परम् ।।१२।।
अथ तत्र समेस्तास्तु ब्रह्मविष्णुमहेश्वराः ।।
मुने संमन्त्रयाञ्चक्रुरन्योन्यं जगतां हितम् ।। १३ ।।
तदा ब्रह्मादयो देवास्त्रयस्ते वरदर्षभाः ।।
जग्मुस्तदाश्रमं शीघ्रं वरन्दातुन्तदर्षये ।। १४ ।।
स्वचिह्नचिह्नितांस्तान्स दृष्ट्वात्रिर्मुनिसत्तमः ।।
प्रणनाम च तुष्टाव वाग्भिरिष्टाभिरादरात् ।। १५ ।।
ततस्स विस्मितो विप्रस्तानुवाच कृताञ्जलिः ।।
ब्रह्मपुत्रो विनीतात्मा ब्रह्मविष्णुहराभिधान् ।। १६ ।।
अत्रिरुवाच ।।
हे ब्रह्मन् हे हरे रुद्र पूज्यास्त्रिजगताम्मताः ।।
प्रभवश्चेश्वराः सृष्टिरक्षासंहारकारकाः ।। १७ ।।
एक एव मया ध्यात ईश्वरः पुत्रहेतवे ।।
यः कश्चिदीश्वरः ख्यातो जगतां स्वस्त्रिया सह ।। १८ ।।
यूयं त्रयस्तुराः कस्मादागता वरदर्षभाः ।।
एतन्मे संशयं छित्त्वा ततो दत्तेप्सितं वरम् ।। १९ ।।
इति श्रुत्वा वचस्तस्य प्रत्यूचुस्ते सुरास्त्रयः ।।
यादृक्कृतस्ते संकल्पस्तथैवाभून्मुनीश्वर ।।3.19.२० ।।
वयं त्रयो भवेशानास्समाना वरदर्षभाः ।।
अस्मदंशभवास्तस्माद्भविष्यन्ति सुतास्त्रयः ।। २१ ।।
विदिता भुवने सर्वे पित्रोः कीर्तिविवर्द्धनाः ।।
इत्युक्तास्ते त्रयो देवास्स्वधामानि ययुर्मुदा ।। २२ ।।
वरं लब्ध्वा मुनिस्सोऽथ जगाम स्वाश्रमं मुदा ।।
युतोऽनुसूयया प्रीतो ब्रह्मानंदप्रदो मुने ।। २३ ।।
अथ ब्रह्मा हरिश्शम्भुरवतेरुः स्त्रियां ततः ।।
पुत्ररूपैः प्रसन्नात्मनानालीला प्रकाशकाः ।। २४ ।।
विधेरंशाद्विधुर्जज्ञेऽनसूयायां मुनीश्वरात् ।।
आविर्बभूवोदधितः शिप्तो देवेस्स एव हि ।। २५ ।।
विष्णोरंशात्स्त्रियान्तस्यामत्रेर्दत्तो व्यजायत ।।
संन्यासपद्धतिर्येन वर्द्धिता परमा मुने ।। २६ ।।
दुर्वासा मुनिशार्दूलः शिवांशान्मुनिसत्तमः ।।
जज्ञे तस्यां स्त्रियामत्रेर्वरधर्मप्रवर्तकः ।। २७ ।।
भूत्वा रुद्रश्च दुर्वासा ब्रह्मतेजोविवर्द्धनः ।।
चक्रे धर्मपरीक्षाञ्च बहूनां स दयापरः ।। २८ ।।
सूर्यवंशे समुत्पन्नो योऽम्बरीषो नृपोऽभवत् ।।
तत्परीक्षामकार्षीत्स तां शृणु त्वं मुनीश्वर। ।। २९ ।।
सोऽम्बरीषो नृपवरः सप्तद्वीपरसापतिः ।।
नियमं हि चकारासावेकादश्या व्रते दृढम् ।। 3.19.३० ।।
एकादश्या व्रतं कृत्वा द्वादश्यां चैव पारणाम् ।।
करिष्यामीति सुदृढसंकल्पस्तु नराधिपः ।।३१।।
ज्ञात्वा तन्नियमन्तस्य दुर्वासा मुनिसत्तमः।।
तदन्तिकं गतश्शिष्यैर्बहुभिश्शंकरांशजः ।।३२।।
पारणे द्वादशीं स्वल्पां ज्ञात्वा यावत्स भोजनम् ।।
कर्त्तुं व्यवसितस्तावदागतं स न्यमन्त्रयत् ।। ३३ ।।
ततः स्नानार्थमगमद्दुर्वासाः शिष्यसंयुतः ।।
विलम्बं कृतवांस्तत्र परीक्षार्थं मुनिर्बहु ।।३४।।
धर्मविघ्नं तदा ज्ञात्वा स नृपः शास्त्रशासनात् ।।
जलम्प्राश्यास्थितस्तत्र तदागमनकांक्षया ।।३५।।
एतस्मिन्नन्तरे तत्र दुर्वासा मुनिरागतः ।।
कृताशनं नृपं ज्ञात्वा परीक्षार्थं धृताकृतिः ।। ३६ ।।
चुक्रोधाति नृपे तस्मिन्परीक्षार्थं वृषस्य सः ।।
प्रोवाच वचनन्तूग्रं स मुनिश्शंकरांशजः ।। ३७ ।।
दुर्वासा उवाच ।।
मां निमन्त्र्य नृपाभोज्य जलं पीतन्त्वयाधम ।।
दर्शयामि फलं तस्य दुष्टदण्डधरो ह्यहम् ।।३८।।
इत्युक्त्वा क्रोधताम्राक्षो नृपं दग्धुं समुद्यतः ।।
समुत्तस्थौ द्रुतं चक्रं तत्स्थं रक्षार्थमैश्वरम् ।।३९।।
प्रजज्वालाति तं चक्रं मुनिं दग्धुं सुदर्शनम्।।
शिवरूपं तमज्ञात्वा शिवमायाविमोहितम्।।3.19.४०।।
एतस्मिन्नन्तरे व्योमवाण्युवाचाशरीरिणी।।
अम्बरीषम्महात्मानं ब्रह्मभक्तं च वैष्णवम्।।४१।।
व्योमवाण्युवाच।।
सुदर्शनमिदं चक्रं हरये शम्भुनार्पितम्।।
शांतं कुरु प्रज्वलितमद्य दुर्वाससे नृप।।४२।।
दुर्वासायं शिवः साक्षात्स चक्रं हरयेऽर्पितम् ।।
एवं साधारणमुनिं न जानीहि नृपोत्तम ।।४३।।
तव धर्मपरीक्षार्थमागतोऽयं मुनीश्वरः ।।
शरणं याहि तस्याशु भविष्यत्यन्यथा लयः ।।४४।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा च नभोवाणी विरराम मुनीश्वर ।।
अस्तावीत्स हरांशं तमम्बरीषोऽपि चादरात् ।। ४५ ।।
अम्बरीष उवाच।।
यद्यस्ति दत्तमिष्टं च स्वधर्मो वा स्वनुष्ठितः ।।
कुलं नो विप्रदैवं चेद्धरेरस्त्रं प्रशाम्यतु ।। ४६ ।।
यदि नो भगवान्प्रीतो मद्भक्तो भक्तवत्सलः ।।
सुदर्शनमिदं चास्त्रं प्रशाम्यतु विशेषतः ।। ४७ ।।
नन्दीश्वर उवाच ।।
इति स्तुवति रुद्राग्रे शैवं चक्रं सुदर्शनम् ।।
अशाम्यत्सर्वथा ज्ञात्वा तं शिवांशं सुलब्धधीः ।।४८।।
अथाम्बरीषस्स नृपः प्रणनाम च तं मुनिम् ।।
शिवावतारं संज्ञाय स्वपरीक्षार्थमागतम् ।।४९।।
सुप्रसन्नो बभूवाथ स मुनिः शंकरांशजः।।
भुक्त्वा तस्मै वरं दत्त्वा स्वाभीष्टं स्वालयं ययौ ।। 3.19.५० ।।
अम्बरीषपरीक्षायां दुर्वासश्चरितम्मुने ।।
प्रोक्तामन्यच्चरित्रन्त्वं शृणु तस्य मुनीश्वर ।। ५१ ।।
पुनर्दाशरथेश्चक्रे परीक्षां नियमेन वै ।।
मुनिरूपेण कालेन यः कृतो नियमो मुने ।। ५२ ।।
तदैव मुनिना तेन सौमित्रिः प्रेषितो हठात् ।।
तन्तत्याज द्रुतं रामो बन्धुं पणवशान्मुने ।। ५३ ।।
सा कथा विहिता लोके मुनिभिर्बहुधोदिता ।।
नातो मे विस्तरात्प्रोक्ता ज्ञाता यत्सर्वधा बुधैः ।। ५४ ।।
नियमं सुदृढं दृष्ट्वा सुप्रसन्नोऽभवन्मुनिः ।।
दुर्वासास्सुप्रसन्नात्मा वरन्तस्मै प्रदत्तवान् ।। ५५ ।।
श्रीकृष्णनियमस्यापि परीक्षां स चकार ह ।।
तां शृणु त्वं मुनिश्रेष्ठ कथयामि कथां च ताम् ।। ५६ ।।
ब्रह्मप्रार्थनया विष्णुर्वसुदेवसुतोऽभवत् ।।
धराभारावतारार्थं साधूनां रक्षणाय च।।५७।।
हत्वा दुष्टान्महापापान् ब्रह्मद्रोहकरान्मलान् ।।
ररक्ष निखिलान्साधून्ब्राह्मणान्कृष्णनामभाक् ।। ५८ ।।
ब्रह्मभक्तिं चकाराति स कृष्णो वसुदेवजः ।।
नित्यं हि भोजयामास सुरसान्ब्राह्मणान्बहून् ।। ५९ ।।
ब्रह्मभक्तो विशेषेण कृष्णश्चेति प्रथामगात ।।
संद्रष्टुकामस्स मुनिः कृष्णान्तिकमगान्मुने ।। 3.19.६० ।।
रुक्मणीसहितं कृष्णं सन्नं? कृत्वा रथे स्वयम् ।।
संयोज्य संस्थितो वाहं सुप्रसन्न उवाह तम् ।।६१।।
मुनी रथात्समुत्तीर्य दृष्ट्वा तां दृढताम्पराम् ।।
तस्मै भूत्वा सुप्रसन्नो वज्राङ्गत्ववरन्ददौ ।।६२।।
द्युनद्यामेकदा स्नानं कुर्वन्नग्नो बभूव ह ।।
लज्जितोभून्मुनिश्रेष्ठो दुर्वासाः कौतुकी मुने ।।६३।।
तज्ज्ञात्वा द्रौपदी स्नानं कुर्वती तत्र चादरात्।।
तल्लज्जां छादयामास भिन्नस्वाञ्चलदानतः ।। ६४ ।।
तदादाय प्रवाहेनागतं स्वनिकटं मुनिः ।।
तेनाच्छाद्य स्वगुह्यं च तस्यै तुष्टो बभूव सः ।। ६५ ।।
द्रौपद्यै च वरम्प्रादात्तदञ्चलविवर्द्धनम् ।।
पाण्डवान्सुखिनश्चक्रे द्रौपदी तद्वरात्पुनः ।।६६।।
हंसडिम्भौ नृपौ कौचित्सावमानकरौ खलौ ।।
दत्त्वा निदेशं च हरेर्नाशयामास स प्रभुः ।। ६७ ।।
ब्रह्मतेजोविशेषेण स्थापयामास भूतले ।।
संन्यासपद्धतिञ्चैव यथाशास्त्र विधिक्रमम् ।।६८।।
बहूनुद्धारयामास सूपदेशं विबोध्य च ।।
ज्ञानं दत्त्वा विशेषेण बहून्मुक्तांश्चकार सः।।६९।।
इत्थं चक्रे स दुर्वासा विचित्रं चरितम्बहु।।
धन्यं यशस्यमायुष्यं शृण्वतस्सर्वकामदम् ।।3.19.७० ।।
य इदं शृणुयाद्भक्त्या दुर्वासश्चरितम्मुदा।।
श्रावयेद्वा परां यश्च स सुखीह परत्र च ।।७१।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां दुर्वासश्चरित्रवर्णनं नामैकोनविंशोऽध्यायः।।१९।।