शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३४

← अध्यायः ३३ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः । ।
अवतारं शृणु विभोस्सुनर्तकनटाह्वयम्। । १ । ।
यदा हि कालिका देवी पार्वती हिमवत्सुता ।।
तेपे तपस्तुविमलं वनं गत्वा शिवाप्तये । । २ । ।
तदा शिवः प्रसन्नो भूत्तस्यास्सुतपसो मुने । ।
तद्वृत्तसुपरीक्षार्थं वरं दातुम्मुदा ययौ ।।३।।
स्वरूपन्दर्शयामास तस्यै सुप्रीतमानसः ।।
वरम्ब्रूहीति चोवाच तां शिवां शंकरो मुने । ।४। ।
तच्छ्रुत्वा शम्भुवचनं दृष्ट्वा तद्रूपमुत्तमम् । ।
सुजहर्ष शिवातीव प्राह तं सुप्रणम्य सा । ।५। ।
पार्वत्युवाच ।।
यदि प्रसन्नो देवेश मह्यं देयो वरो यदि । ।
पतिर्भव ममेशान कृपां कुरु ममोपरि ।।६। ।
पितुर्गृहे मया सम्यग्गम्यते त्वदनुज्ञया ।।
गन्तव्यम्भवता नाथ मत्पितुः पार्श्वतः प्रभो । ।७।।
याचस्व मान्ततो भिक्षुः ख्यापयंश्च यशः शुभम् ।।
पितुर्मे सफलं सर्वं कुरु प्रीत्या गृहा श्रमम्। । ८। ।
ततो यथोक्तविधिना कर्तुमर्हसि भो प्रभो ।।
विवाहं त्वं महेशान देवानां कार्य्यसिद्धये ।। ९।।
कामं मे पूरय विभो निर्विकारो भवान्सदा । ।
भक्तवत्सलनामा हि तव भक्तास्म्यमहं सदा । । 3.34.१० ।।
नन्दीश्वर उवाच ।।
इत्युक्तस्स तया शंभुर्महेशो भक्तवत्सलः ।।
तथास्त्विति वचः प्रोच्यान्तर्हितस्स्वगिरिं ययौ।। ११ ।।
पार्वत्यपि ततः प्रीत्या स्वसखीभ्यां वयोन्विता ।।
जगाम स्वपितुर्गेहं रूपं कृत्वा तु सार्थकम्। । १ २।।
पार्वत्यागमनं श्रुत्वा मेनया स हिमाचलः ।।
परिवारयुतो द्रष्टुं स्वसुतां तां ययौ मुदा।। १ ३।।
दृष्ट्वा तां सुप्रसन्नास्यामानयामासतुर्गृहम् ।।
कारयामासतुः प्रीत्या महानन्दी महोत्सवम्।। १४ ।।.
धनन्ददौ द्विजादिभ्यो मेनागिरिवरस्तथा ।।
मंगलं कारयामास सवेदध्वनिमादरात् ।।१५।।
ततः स्वकन्यया सार्द्धमुवास प्रांगणे मुदा ।।
मेना च हिमवाञ्छैलः स्नातुं गंगां जगाम सः ।।१६।।
एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः।।
सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ।।१७।।
शृंगं वामे करे धृत्वा दक्षिणे डमरुन्तथा।।
पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः ।। १८ ।।
ततस्तु नटरूपोऽसौ मेनकाप्रांगणे मुदा ।।
चक्रे स नृत्यं विविधं गानञ्चाति। मनोहरम् ।।१९।।
शृंगञ्च डमरुन्तत्र वादयामास सुध्वनिम् ।।
महोतिं विविधाम्प्रीत्या स चकार मनोहराम् ।।3.34.२०।।
तन्द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ।।
आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम्।।२१।।
श्रुत्वा संगीतं तन्दृष्ट्वा सुनृत्यं च मनोहरम्।।
सहसा मुर्मुहुः सर्वे मेनापि च तदा मुने ।।२२।।
ततो मेनाशु रत्नानि स्वर्णपात्रस्थितानि च ।।
तस्मै दातुं ययौ प्रीत्या तदूतिप्री तमानसा ।। २३ ।।
तानि न स्वीचकारासौ भिक्षां चेते शिवां च ताम् ।।
पुनस्तु नृत्यं गानं च कौतुकात्कर्तुमुद्यतः ।। २४ ।।
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ।।
भिक्षुकम्भर्त्सयामास बहिष्कर्तुमियेष सा ।। २५ ।।
एतस्मिन्नन्तरे तत्र गंगातो गिरिराड्ययौ ।।
ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ।। २६ ।।
श्रुत्वा मेनामुखाद्वृत्तन्तत्सर्वं सुचुकोप सः ।।
आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम् ।। २७ ।।
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ।।
न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम ।। २८ ।।
ततः स भिक्षुकस्तात नानालीलाविशारदः ।।
दर्शयामास शैलाय स्वप्रभावमनन्तकम् ।। २९ ।।
शैलो ददर्श तन्तत्र विष्णुरूपधरन्द्रुतम् ।।
ततो ब्रह्मस्वरूपं च सूर्य्यरूपं ततः क्षणात् ।। 3.34.३० ।।
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ।।
पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ।। ३१ ।।
एवं सुबहुरूपाणि तस्य तत्र ददर्श सः ।।
सुविस्मितो बभूवाशु परमानन्दसंप्लुतः ।। ३२ ।।
अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ।।
भिक्षां ययाचे दुर्गान्तान्नान्यज्जग्राह किञ्चन ।। ३३ ।।
ततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ।।
स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः ।। ३४ ।।
तदा बभूव सुज्ञानं मेनाशैलेशयोरपि ।।
आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः ।।३५।।
अस्मै देया स्वकन्येयं पार्वती सुतप स्विनी ।।
एवं विचार्य च तयोः शिवेभक्तिरभूत्परा ।। ३६ ।।
अतो रुद्रो महोतीश्च कृत्वा भक्तमुदावहम् ।।
विवाहं कृतवान्प्रीत्या पार्वत्या स विधानतः ।।३७।।
इति प्रोक्तस्तु ते तात सुनर्तकनटाह्वयः ।।
शिवावतारो हि मया शिवावाक्यप्रपूरकः ।। ३८ ।।
इदमाख्यानमनघं परमं व्याहृतम्मया।।
य एतच्छृणुयात्प्रीत्या स सुखी गतिमाप्नुयात् ।।३९।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुनर्तकनटाह्वशिवावतारवर्णनंनाम चतुस्त्रिंशोध्यायः ।।३४।।