शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ३८

← अध्यायः ३७ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

नन्दीश्वर उवाच ।।
अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत ।।
मन्त्रेण शिवरूपेण तेजश्चातुलमावहत् ।। १ ।।
ते सर्वे चार्जुनन्दृष्ट्वा पाण्डवा निश्चयं गताः ।।
जयोऽस्माकं धुवञ्जातन्तेजश्च विपुलं यतः ।।२ ।।
इदङ्कार्य्यन्त्वया साध्यन्नान्येन च कदाचन ।।
व्यासस्य वचनाद्भाति सफलं कुरु जीवितम्।। ३ ।।
इति प्रोच्यार्जुनन्ते वै विरहौत्सुक्यकातराः ।।
अनिच्छन्तोपि तत्रैव प्रेषयामासुरादरात्।। ४ ।।
द्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ।।
प्रेषयन्ती शुभं वाक्यन्तदोवाच पतिव्रता।।५।।
द्रौपद्युवाच ।।
व्यासोपदिष्टं यद्राजंस्त्वया कार्यं प्रयत्नतः ।।
शुभप्रदोऽस्तु ते पन्थाश्शंकरश्शंकरोस्तु वै ।।६।।
ते सर्वे चावसंस्तत्र विसृज्यार्जुनमादरात् ।।
अत्यन्तदुःखमापन्ना मिलित्वा पञ्च एव च ।।७।।
स्थितास्तत्र वदन्ति स्म श्रूयतामृषिसत्तम।।
दुःखेपि प्रियसंगो वै न दुःखाय प्रजायते।।८।।
वियोगे द्विगुणन्तस्य दुःखम्भवति नित्यशः ।।।
तत्र धैर्य्यधरस्यापि कथन्धैर्य्यम्भवेदिह ।। ९।।
नन्दीश्वर उवाच ।।
कुर्वतस्त्वेव तदा दुःखम्पाण्डवेषु मुनीश्वरः ।।
कृपासिंधुश्च स व्यास ऋषिवर्य्यस्समागत ।।3.38.१०।।
तन्तदा पाण्डवास्ते वै नत्वा सम्पूज्य चादरात् ।।
दत्त्वासनं हि दुःखाढ्याः करौ बद्ध्वा वचोऽब्रुवन् ।। ११ ।।
पाण्डवा ऊचुः ।।
श्रूयतामृषभश्रेष्ठ दुःखदग्धा वयम्प्रभो ।।
दर्शनन्तेऽद्य सम्प्राप्य ह्यानन्दं प्राप्नुमो मुने ।।१२।।
कियत्कालं वसात्रैव दुःखनाशाय नः प्रभो ।।
दर्शनात्तव विप्रर्षेस्सर्वं दुःखं विलीयते ।।१३।।
नन्दीश्वर उवाच।।
इत्युक्तस्स ऋषिश्रेष्ठो न्यवसत्तत्सुखाय वै ।।
कथाभिर्विविधाभिश्च तद्दुःखं नोदयंस्तदा ।। १४ ।।
वार्तायां क्रियमाणायान्तेन व्यासेन सन्मुने ।।
सुप्रणम्य विनीतात्मा धर्मराजोऽब्रवीदिदम् ।।१५।।
धर्मराज उवाच ।।
शृणु त्वं हि ऋषिश्रेष्ठ दुःखशान्तिर्मता मम ।।
पृच्छामि त्वां महाप्राज्ञ कथनीयन्त्वया प्रभो।।१६।।
ईदृशं चैव दुःखं च पुरा प्राप्तश्च कश्चन।।
वयमेव परं दुःखं प्राप्ता वै नैव कश्चन।।१७।।
व्यास उवाच ।।
राज्ञस्तु नलनाम्नो वै निषधाधिपतेः पुरा ।।
भवद्दुःखाधिकं दुःखं जातन्तस्य महात्मनः ।।१८।।
हरिश्चन्द्रस्य नृपतेर्जातं दुःखम्महत्तरम् ।।
अकथ्यन्तद्विशेषेण परशोकावहन्तथा ।। १९ ।।
दुःखम्तथैव विज्ञेयं रामस्याप्यथ पाण्डव ।।
यच्छ्रुत्वा स्त्रीनराणां च भवेन्मोहो महत्तरः ।। 3.38.२० ।।
तस्माद्वर्णयितुन्नैव शक्यते हि मया पुनः ।।
शरीरं दुःखराशिं च मत्वा त्याज्यन्त्वयाधुना ।। २१ ।।
येनेदञ्च धृतन्तेन व्याप्तमेव न संशयः ।।
प्रथमम्मातृगर्भे वै जन्म दुःखस्य कारणम् ।।२२।।
कौमारेऽपि महादुःखं बाललीलानुसारि यत् ।।
ततोपि यौवने कामान्भुन्जानो दुःखरूपिणः ।।२३।।
गतागतैर्दिनानां हि कार्यभारैरनेकशः ।।
आयुश्च क्षीयते नित्यं न जानाति ह तत्पुनः ।।२४।।
अन्ते च मरणं चैव महादुःखमतः परम् ।।
नानानरकपीडाश्च भुज्यंतेज्ञैर्नरैस्सदा ।।२५।।
तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ।।
येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च ।।२६।।
नन्दीश्वर उवाच ।।
एवं विविधवार्ताभिः कालनिर्यापणन्तदा ।।
चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः ।।२७।।
अर्जुनोपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ।।
यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः ।।२८।।
मनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ।।
तत्र गत्वा च गंगायास्समीपं सुन्दरं स्थलम् ।।२९।।
अशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ।।
तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम् ।। 3.38.३० ।।
यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ।।
इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत् ।।३१।।
पुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ।।
तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम् ।।३२।।
त्रिकालं चैव सुस्नातः पूजनं विविधं तदा ।।
चकारोपासनन्तत्र हरस्य च पुनः पुनः ।।३३।।
तस्यैव शिरसस्तेजो निस्सृतन्तच्चरास्तदा ।।
दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम्।।३४।।
पुनस्ते च विचार्यैवं कथनीयं बिडौजसे।।
इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा ।। ३५ ।।
चरा ऊचुः ।।
देवो वाऽथ ऋषिश्चैव सूर्यो वाथ विभावसुः ।।
तपश्चरति देवेश न जानीमो वने च तम् ।। ३६ ।।
तस्यैव तेजसा दग्धा आगतास्तव सन्निधौ ।।
निवेदितञ्चरित्रं तत्क्रियतामुचितन्तु यत् ।। ३७ ।।
नन्दीश्वर उवाच।।
इत्युक्तस्तैश्चरैस्सर्वं ज्ञात्वा पुत्रचिकीर्षितम् ।।
सगोत्रपान्विसृज्यैव तत्र गन्तुं मनो दधे ।। ३८ ।।
स वृद्धब्राह्मणो भूत्वा ब्रह्मचारी शचीपतिः ।।
जगाम तत्र विप्रेन्द्र परीक्षार्थं हि तस्य वै ।।३९।।
तमागतन्तदा दृष्ट्वाकार्षीत्पूजाश्च पाण्डवः।।
स्थितोग्रे च स्तुतिं कृत्वा क्वायातोसि वदाधुना ।। 3.38.४० ।।
इत्युक्तस्तेन देवेशो धैर्य्यार्थन्तस्य प्रीतितः ।।
परीक्षागर्वितं वाक्यं पाण्डवन्तं ततोऽब्रवीत् ।। ४१।।
ब्राह्मण उवाच ।।
नवे वयसि वै तात किन्तपस्यसि साम्प्रतम् ।।
मुक्त्यर्थं वा जयार्थं किं सर्वथैतत्तपस्तव ।।४२।।
नन्दीश्वर उवाच।।
इति पृष्टस्तदा तेन सर्वं संवेदितम्पुनः ।।
तच्छ्रुत्वा स पुनर्वाक्यमुवाच ब्राह्मणस्तदा ।।४३।
ब्राह्मण उवाच ।।
युक्तं न क्रियते वीर सुखं प्राप्तुं च यत्तपः ।।
क्षात्रधर्मेण क्रियते मुक्त्यर्थं कुरुसत्तम ।।४४।।
इन्द्रस्तु सुखदाता वै मुक्तिदाता भवेन्न हि ।।
तस्मात्त्वं सर्वथा श्रेष्ठ कर्तुमर्हसि सत्तपः।।
नन्दीश्वर उवाच।।
इदन्तद्वचनं श्रुत्वा क्रोधं चक्रेऽर्जुनस्तदा।।
प्रत्युवाच विनीतात्मा तदनादृत्य सुव्रतः।४६।।
अर्जुन उवाच ।।
राज्यार्थं न च मुक्त्यर्थ किमर्थं भाषसे त्विदम् ।।
व्यासस्य वचनेनैव क्रियते तप ईदृशम् ।।४७।।
इतो गच्छ ब्रह्मचारिन्मा पातयितुमिच्छसि ।।
प्रयोजनं किमत्रास्ति तव वै ब्रह्मचारिणः।।४८।।
नन्दीश्वर उवाच।।
इत्युक्तः स प्रसन्नोभूत्सुन्दरं रूपमद्भुतम् ।।
स्वोपस्करणसंयुक्तं दर्शयामास वै निजम्।।४९।।
शक्ररूपन्तदा दृष्ट्वा लज्जितश्चार्जुनस्तदा।।
स इन्द्रस्तं समाश्वास्य पुनरेव वचोब्रवीत् ।। 3.38.५० ।।
इंद्र उवाच ।।
वरं वृणीष्व हे तात धनंजय महामते ।।
यदिच्छसि मनोभीष्टन्नादेयं विद्यते तव ।। ५१ ।।
तच्छ्रुत्वा शक्रवचनम्प्रत्युवाचार्जुनस्तदा ।।
विजयन्देहि मे तात शत्रुक्लिष्टस्य सर्वथा ।। ५२ ।।
शक्र उवाच ।।
बलिष्ठाश्शत्रवस्ते च दुर्योधनपुरःसराः ।।
द्रोणो भीमश्च कर्णश्च सर्वे ते दुर्जया धुवम् ।। ५३ ।।
अश्वत्थामा द्रोणपुत्रो रौद्रोंशो दुर्जयोऽति सः ।।
मया साध्या भवेयुस्ते सर्वथा स्वहितं शृणु ।।५४।।
एतद्वीर जपं कर्तुं न शक्तः कश्चनाधुना ।।
वर्तते हि शिवोवर्यस्तस्माच्छम्भोर्जयोऽ धुना ।। ५५ ।।
शंकरः सर्वलोकेशश्चराचरपतिः स्वराट् ।।
सर्वं कर्तुं समर्थोस्ति भुक्तिमुक्तिफलप्रदः ।।५६।।
अहं मन्ये च ब्रह्माद्या विष्णुः सर्ववरप्रदः ।।
अन्ये जिगीषवो ये च ते सर्वे शिवपूजकाः।।५७।।
अद्यप्रभृति तन्मन्त्रं हित्वा भक्त्या शिवं भज ।।
पार्थिवेन विधानेन ध्यानेनैव शिवस्य च ।।५८।।
उपचारैरनेकैश्च सर्वभावेन भारत ।।
सिद्धिः स्यादचला तेद्य नात्र कार्या विचारणा।।५९।।
नन्दीश्वर उवाच ।।
इत्युक्त्वा च चरान्सर्वान्समाहूयाब्रवीदिदम् ।।
सावधानेन वै स्थेयमेतत्संरक्षणे सदा ।। 3.38.६० ।।
प्रबोध्य स्वचरानिन्द्रोऽर्जुनसंरक्षणादिकम् ।।
वात्सल्यपूर्णहृदयः पुनरूचे कपिध्वजम् ।।६१।।
इन्द्र उवाच।।
राज्यं त्वया प्रमादाद्वै न कर्तव्यं कदाचन ।।
श्रेयसे भद्र विद्येयं भवेत्तव परन्तप।।६२।।
धैर्यं धार्य साधकेन सर्वथा रक्षकः शिवः।।
संपत्तीश्च फलन्तुल्यं दास्यते नात्र संशयः ।। ६३ ।।
नन्दीश्वर उवाच ।।
इति दत्त्वा वरन्तस्य भारतस्य सुरेश्वरः ।।
स्मरञ्छिवपदाम्भोजञ्जगाम भवनं स्वकम् ।। ६४ ।।
अर्जुनोपि महावीरस्सुप्रणम्य सुरेश्वरम् ।।
तपस्तेपे संयतात्मा शिवमुद्दिश्य तद्विधम् ।।६५।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनतपोवर्णनं नामाष्टत्रिंशोऽध्यायः ।।३८।।