शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३१

← अध्यायः ३० शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →

सूत उवाच ।। ।।
अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ।।
उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात् ।। १ ।।
पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः ।। २ ।।
तत्र सीता हृता विप्रा रावणेनोरुमायिना ।।
प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा ।। ३ ।।
अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ।।
सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह ।। ४ ।।
तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ।।
सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै ।। ५ ।।
कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ।।
हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे ।। ६ ।।
अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ।।
सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः ।। ७ ।।
सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ।।
सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः ।। ८ ।।
पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ।।
दक्षिणे सागरे यो वै दृश्यते लवणाकरः।।९।।
तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ।।
वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः ।। 4.31.१० ।।
हा जानकि कुतो याता कदा चेयं मिलिष्यति ।।
अगाधस्सागरश्चैवातार्या सेना च वानरी ।। ११ ।।
राक्षसो गिरिधर्त्ता च महाबलपराक्रमः।।
लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै।।१२।।
इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः।।
आश्वासितो वनौकोभिरंगदादिपुरस्सरैः ।।१३।।
एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः।।
उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम् ।। १४ ।।
राम उवाच ।।
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ।।
तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि ।।१५।।
सूत उवाच ।।
तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ।।
नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः ।। १६ ।।
वानरा ऊचुः ।।
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया।।
महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम्।।१७।।
सूत उवाच।।
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ।।
तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम्।।१८।।
स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ।।
तदा च स्मरणं जातमित्थमस्य शिवेच्छया ।। १९ ।।
न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ।।
स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै । 4.31.२० ।।
इत्युक्त्वा च जलं पीतं तदा रघुवरेण च।।
पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः।।२१।।
आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।
विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम् ।।२२।।
प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः।।
प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा ।। २३ ।।
राम उवाच ।। ।।
स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ।।
पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम् ।। २४ ।।
एतज्जलमगाधं च वारिधेर्भवतारण ।।
रावणाख्यो महावीरो राक्षसो बलवत्तरः ।।२५।।
वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ।।
ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये ।।२६।।
तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ।।
साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम् ।। २७ ।।
त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ।।
त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित् ।। २८ ।।
अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ।।
विचार्येति त्वया कार्यः पक्षपातस्सदाशिव ।। २९ ।।
सूत उवाच ।।
इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ।।
तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च ।। 4.31.३० ।।
इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ।।
पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह ।।३१।।
प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ।।
तदा च शंकरो देवस्सुप्रसन्नो बभूव ह ।। ३२ ।।
सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ।।
यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम्।। ३३।।
ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ।।
शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत् ।। ३४ ।।
तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ।।
कृतवान्राघवः पूजां शिवधर्मपरायणः ।। ३५ ।।
स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ।।
जयं च प्रार्थयामास रावणाजौ तदात्मनः ।। ३६ ।।
ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ।।
जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत् ।। ३७ ।।
शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ।।
पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः ।। ३८ ।।
।। राम उवाच ।।
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ।।
परेषामुपकारार्थं यदि तुष्टोऽसि शंकर ।। ३९ ।।
।। सूत उवाच ।।
इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ।।
रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले ।। 4.31.४० ।।
रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ।।
रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम् ।।४१।।
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः ।। ४२ ।।
दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ।।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ।। ४३ ।।
इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ।।
अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम् ।। ४४ ।।
इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ।।
रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम्।।४५।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ।। ३१ ।।