शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३४

← अध्यायः ३३ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

व्यास उवाच ।।
इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ।।
समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया ।। १ ।।
ऋषय ऊचुः ।।
सूत सर्वं विजानासि ततः पृच्छामहे वयम् ।।
हरीश्वरस्य लिंगस्य महिमानं वद प्रभो ।। २ ।।
चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ।।
तदाराधनतस्तात तत्कथा च विशेषतः ।। ३ ।।
सूत उवाच ।।
श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ।।
यतस्सुदर्शनं लब्धं विष्णुना शंकरात्पुरा ।। ४ ।।
कस्मिंश्चित्समये दैत्याः संजाता बलवत्तराः ।।
लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे ।। ।। ५ ।।
ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ।।
स्वं दुखं कथयामासुर्विष्णुं निर्जररक्षकम् ।। ६ ।।
देवा ऊचुः ।।
कृपां कुरु प्रभो त्वं च दैत्यैस्संपीडिता भृशम् ।।
कुत्र यामश्च किं कुर्मश्शरण्यं त्वां समाश्रिताः ।। ७ ।।
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ।।
स्मृत्वा शिवपदांभोजं विष्णुर्वचनमब्रवीत ।। ८ ।।
विष्णुरुवाच ।।
करिष्यामि च वः कार्य्यमाराध्य गिरिशं सुराः ।।
बलिष्ठाश्शत्रवो ह्येते विजेतव्याः प्रयत्नतः ।। ९ ।।
सूत उवाच ।।
इत्युक्तास्ते सुरास्सर्वे विष्णुना प्रभविष्णुना ।।
मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकंस्वकम् ।। 4.34.१० ।।
विष्णुरप्यमराणां तु जयार्थमभजच्छिवम्।।
सर्वामराणामधिपं सर्वसाक्षिणमव्ययम् ।।११।।
गत्वा कैलासनिकटे तपस्तेपे हरिस्स्वयम् ।।
कृत्वा कुंडं च संस्थाप्य जातवेदसमग्रतः ।।१२।।
पार्थिवेन विधानेन मंत्रैर्नानाविधैरपि।।
स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा ।।१३।।
कमलैस्सरसो जातैर्मानसाख्यान्मुनीश्वराः ।।
बद्ध्वा चैवासनं तत्र न चचाल हरिस्स्वयम् ।। १४ ।।
प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ।।
इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः।।१५।।
यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ।।
तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत्।।१६।।
विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ।।
तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः ।।१७।।
ततस्तु विस्मितो विष्णुर्भक्त्या परमयान्वितः ।। १९ ।।
सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम् ।। १८ ।।
प्रत्येकं कमलं तस्मै नाममंत्रमुदीर्य च ।।
पूजयामास वै शंभुं शरणागतवत्सलम् ।। १९ ।।
परीक्षार्थं विष्णुभक्तेस्तदा वै शंकरेण ह ।।
कमलानां सहस्रात्तु हृतमेकं च नीरजम् ।।4.34.२०।।
न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ।।
न्यूनं तच्चापि सञ्ज्ञाय तदन्वेषणतत्परः ।। २१ ।।
बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ।।
तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत् ।। २२ ।।
तं दृष्ट्वा स प्रसन्नोऽभूच्छंकरस्सर्वदुःखहा ।।
आविर्बभूव तत्रैव जगाद वचनं हरिम् ।। २३ ।।
शिव उवाच ।।
प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ।।
मनोऽभिलषितं दद्मि नादेयं विद्यते तव ।। २४ ।।
सूत उवाच ।।
तच्छ्रुत्वा शंभुवचनं केशवः प्रीतमानसः ।।
महाहर्षसमापन्नो ह्यब्रवीत्सांजलिश्शिवम् ।। २५ ।।
विष्णुरुवाच ।।
वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ।।
तथापि कथ्यते नाथ तव शासनगौरवात्।।२६।।
दैत्यैश्च पीडितं विश्वं सुखं नो नस्सदा शिव ।।
दैत्यान्हंतुं मम स्वामिन्स्वायुधं न प्रवर्त्तते।।२७।।
किं करोमि क्व गच्छामि नान्यो मे रक्षकः परः।।
अतोऽहं परमेशान शरणं त्वां समागतः ।।२८।।
सूत उवाच ।।
इत्युक्त्वा च नमस्कृत्य शिवाय परमात्मने।।
स्थितश्चैवाग्रतश्शंभोः स्वयं च पुरुपीडितः।।२९।।
सूत उवाच ।।
इति श्रुत्वा वचो विष्णोर्देवदेवो महेश्वरः ।।
ददौ तस्मै स्वकं चक्रं तेजोराशिं सुदर्शनम्।।4.34.३०।।
तत्प्राप्य भगवान्विष्णुर्दैत्यांस्तान्बलवत्तरान् ।।
जघान तेन चक्रेण द्रुतं सर्वान्विना श्रमम् ।। ३१ ।।
जगत्स्वास्थ्यं परं लेभे बभूवुस्सुखिनस्सुराः ।।
सुप्रीतः स्वायुधं प्राप्य हरिरासीन्महासुखी ।। ३२ ।।
ऋषय ऊचुः ।।
किं तन्नामसहस्रं वै कथय त्वं हि शांकरम् ।।
येन तुष्टो ददौ चक्रं हरये स महेश्वरः ।। ३३ ।।
तन्माहात्म्यम्मम ब्रूहि शिवसंवादपूर्वकम् ।।
कृपालुत्वं च शंभोर्हि विष्णूपरि यथातथम् ।।३४।।
व्यास उवाच ।।
इति तेषां वचश्श्रुत्वा मुनीनां भावितात्मनाम् ।।
स्मृत्वा शिवपदांभोजं सूतो वचनमब्रवीत् ।।३५।।
इति श्रीशिव महापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।।३४।।