शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १५

← अध्यायः १४ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

व्यास उवाच ।।
येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् ।।
दानानां तन्ममाख्या हि मानुषाणां हितार्थतः।।१।।
सनत्कुमार उवाच।।
शृणु कालेः प्रदत्ताद्वै फलं विंदंति मानवाः।।
एकस्मादपि सर्वेषां दानानां तद्वदामि ते ।। २ ।।
दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः ।।
दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै ।। ३ ।।
ब्रह्मांडे सकलं दत्तं यत्फलं लभते नरः ।।
तदेकभावादाप्नोति सप्तलोकाधिपो भवेत् ।। ४ ।।
यावच्चन्द्रदिवाकरौ नभसि वै यावत्स्थिरा मेदिनी
तावत्सोऽपि नरः स्वबांधवयुतस्स्ववर्गौकसामोकसि।।
सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडते
पश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम् ।। ५ ।।
व्यास उवाच ।।
भगवन्ब्रूहि ब्राह्माण्डं यत्प्रमाणं यदात्मकम् ।।
यदाधारं यथाभूतं येन मे प्रत्ययो भवेत् ।। ६ ।।
सनत्कुमार उवाच ।।
मुने शृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् ।।
ब्रह्माण्डं तत्तु संक्षेपाच्छ्रुत्वा पापात्प्रमुच्यते ।।७।।
यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् ।।
तस्मात्संजायते ब्रह्मा द्विधाभूताद्धि कालतः ।।८।।
ब्राह्माण्डं सृजति ब्रह्मा चतुर्द्दशभवात्मकम् ।।
तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः ।।९।।
पातालानि तु सप्तैव भुवनानि तथोर्द्ध्वतः ।।
उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च ।। 5.15.१० ।।
तस्याधारः स्थितो नागस्स च विष्णुः प्रकीर्तितः ।।
ब्रह्मणो वचसो हेतोर्बिभर्ति सकलं त्विदम् ।। ११ ।।
शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः ।।
योनंतः पठ्यते सिद्धैर्देवर्षिगणपूजितः ।। १२ ।।
शिरःसाहस्रयुक्तस्स सर्वा विद्योतयन्दिशः ।।
फणामणिसहस्रेण स्वस्तिकामलभूषणः ।। १३ ।।
मदाघूर्णितनेत्रोऽसौ साग्निश्श्वेत इवाचलः ।।
स्रग्वी किरीटी ह्याभाति यस्सदैवैक कुंडलः ।। १४ ।।
सायं गंगाप्रवाहेण श्वेतशैलोपशोभितः ।।
नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः ।। १५ ।।
लांगलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम्।।
योऽर्च्यते नागकन्याभिस्स्वर्णवर्णाभिरादरात् ।।१६।।
संकर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः ।।
कल्पांते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः ।।
दग्ध्वा जगत्त्रयं शान्ता भवंतीत्यनुशुश्रुम ।। १७ ।।
आस्ते पातालमूलस्थस्स शेषः क्षितिमण्डलम् ।।
बिभ्रत्स्वपृष्ठे भूतेशश्शेषोऽशेषगुणार्चितः ।।१८।।
तस्य वीर्यप्रभावश्च साकांक्षैस्त्रिदशैरपि ।।
न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा ।। १९ ।।
आस्ते कुसुममालेव फणामणिशिलारुणा ।।
यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति ।।5.15.२०।।
यदा विजृम्भतेऽनंतो मदाघूर्णितलोचनः ।।
तदा चलति भूरेषा साद्रितोयाधिकानना ।।२१।।
दशसाहस्रमेकैकं पातालं मुनि सत्तम ।।
अतलं वितलं चैव सुतलं च रसातलम् ।। २२ ।।
तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् ।।
भूमेरधस्सप्त लोका इमे ज्ञेया विचक्षणैः।।२३।।
उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः ।।
रत्नवन्तोऽथ प्रासादा भूमयो हेमसंभवाः।।२४।।
तेषु दानवदैतेया नागानां जातयस्तथा ।।
निवसंति महानागा राक्षसा दैत्यसंभवाः ।।२५।।
प्राह स्वर्गसदोमध्ये पातालानीति नारदः ।।
स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि।।२६।।
नानाभूषणभूषासु मणयो यत्र सुप्रभाः ।।
आह्लादकानि शुभ्राणि पातालं केन तत्समम्।।२७।।
पाताले कस्य न प्रीतिरितश्चेतश्च शोभितम् ।।
देवदानवकन्याभिर्विमुक्तस्याभिजायते ।। २८ ।।
दिवार्करश्मयो यत्र न भवंति विधो निशि ।।
न शीतमातपो यत्र मणितेजोऽत्र केवलम् ।। २९ ।।
भक्ष्यभोज्यान्नपानानि भुज्यंते मुदितैर्भृशम् ।।
यत्र न जायते कालो गतोऽपि मुनिसत्तम ।।5.15.३०।।
पुंस्कोकिलरुतं यत्र पद्मानि कमलाकराः ।।
नद्यस्सरांसि रम्याणि ह्यन्योन्यविचराणि च ।।३१।।
भूषणान्यतिशुभ्राणि गंधाढ्यं चानुलेपनम् ।।
वीणावेणुमृदंगानां स्वना गेयानि च द्विज।।३२।।
दैत्योरगैश्च भुज्यंते पाताले वै सुखानि च ।।
तपसा समवाप्नोति दानवैस्सिद्धमानवैः।।३३।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने पाताललोकवर्णनं नाम पंचदशोऽध्यायः।।१५।।