शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३६

← अध्यायः ३५ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

सूत उवाच ।।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ।।
पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः।।१।।
इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ।।
नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः।।२।।
अकरोत्पुत्त्रकामस्तु मनुरिष्टिं प्रजापति।।
अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुंगवः।।३।।
सा हि दिव्यांबरधरा दिव्याभरणभूषिता।
दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता।।४।।
तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ।।
अनुगच्छत्व मामेति तमिडा प्रत्युवाच ह ।।५।।
इडोवाच ।।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।।
मित्रावरुणयोरंशैर्जातास्मि वदतां वर ।। ६ ।।
तयोस्सकाशं यास्यामि न मे धर्मे रुचिर्भवेत् ।।
एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ।। ७ ।।।
गत्वांतिकं वरारोहा प्रांजलिर्वाक्यमब्रवीत् ।।
अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ।।८।।
आगता भवतोरंति ब्रूतं किं करवाणि वाम् ।।
अन्यान्पुत्रान्सृज विभो तैर्वंशस्ते भविष्यति ।।९।।
सूत उवाच।।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम्।।
मित्रावरुणानामानौ मुनी ऊचतुरादरात् ।। 5.36.१० ।।
मित्रावरुणावूचतुः ।।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।।
सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ।। ११ ।।
आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ।।
मनोर्वशकरः पुत्रस्त्वमेव च भविष्यसि ।।१२।।
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ।।
जगत्प्रियो धर्मशीलौ मनुवंशविवर्द्धनः ।।१३।।
सूत उवाच ।।
निवृत्ता सा तु तच्छ्रुत्वा गच्छंती पितुरंतिके ।।
बुधेनांतरमासाद्य मैधुनायोपमंत्रिता ।।१४।।
सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ।।
पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशी पतिरुन्नतः ।।१५।।
जनयित्वा च सा तत्र पुरूरवसमादरात्।।
पुत्रं शिवप्रसादात्तु पुनस्सुद्युम्नतां गतः ।।१६।।
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।।
उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ।।१७।।
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ।।
दिक्पूर्वा मुनि शार्दूल गयस्य तु गया स्मृताः ।। १८ ।।
प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ।।
दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीं मनुः ।।१९।।
इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान्।।
वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः।।5.36.२०।।
प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोथ ततो ददौ।।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः।।२१।।
मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ।।
नरिष्यंताच्छकाः पुत्रा नभगस्य सुतो ऽभवत्।।२२।।
अंबरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ।।
शर्यातिर्मिथुनं त्वासीदानर्तो नाम विश्रुतः।।२३।।
पुत्रस्सुकन्या कन्या च या पत्नी च्यवनस्य हि ।।
आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ।। २४ ।।
आनर्तविषये यस्य पुरी नाम कुशस्थली।।
महादिव्या सप्तपुरीमध्ये या सप्तमी मता।।२५।।
तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ।।
तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः।।२६।।
ककुद्मिनस्तु संजाता रेवती नाम कन्यका।।
महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ।।२७।।
प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ।।
ब्रह्मलोके विधेस्सम्यक्सर्वाधीशो जगाम ह ।।२८।।
आवर्तमाने गांधर्वे स्थितो लब्धक्षणः क्षणम् ।।
शुश्राव तत्र गांधर्वं नर्तने ब्रह्मणोंऽतिके ।। २९ ।।
मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ।।
न किंचिद्बुबुधे राजा ककुद्मी मुनयस्स तु ।। 5.36.३० ।।
तदासौ विधिमा नम्य स्वाभिप्रायं कृतांजलिः ।।
न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने।।३१।।
तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ।।
ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ।।३२।।
ब्रह्मोवाच ।।
शृणु राजन्रैभ्यसुत ककुद्मिन्पृथिवपिते।।
मद्वचः प्रीतितस्सत्यं प्रवक्ष्यामि विशेषतः ।। ३३ ।।
कालेन संहृतास्ते वै वरा ये ते कृता हृदि ।।
न तद्गोत्रं हि तत्रास्ति कालस्सर्वस्य भक्षकः ।।३४।।
त्वत्पुर्य्यपि हता पुण्यजनैस्सा राक्षसैर्नृप ।।
अष्टाविंशद्द्वापरेऽद्य कृष्णेन निर्मिता पुनः ।।३५।।
कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ।।
भोजवृष्ण्यंधकैर्गुप्ता वासुदेवपुरोगमैः।।३६।।
तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ।।
बलदेवाय देहि त्वमिमां स्वतनयां नृप।।३७।।
सूत उवाच ।।
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ।।
गतान्बहून्युगाञ्ज्ञात्वा विस्मितः कन्यया युतः।।३८।।
ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ।।
कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ।। ३९ ।।
ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ।।
शिवमाराधयामास स नृपस्तपसि स्थितः ।। 5.36.४० ।।
ऋषय ऊचुः ।।
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ।।
युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ।।४१।।
सूत उवाच ।।
न जरा क्षुत्पिपासा वा विकारास्तत्र संति वै ।।
अपमृत्युर्न केषांचिन्मुनयो ब्रह्मणोंऽतिके ।। ४२ ।।
अतो न राजा संप्राप जरां मृत्युं च सा सुता ।।
स युवैवागतस्तत्र संमंत्र्य तनयावरम् ।।४३।।
गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ।।
विवाहं कारयामास कन्यायाः स बलेन हि ।।४४।।
तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभो ।।
कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः ।।४५।।
अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ।।
क्षत्रिया दिक्षु सर्वासु गता हृष्टास्सुधार्मिकाः ।। ४६ ।।
इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ।।
मानवानां हि संक्षेपाच्छृणुतादरतो द्विजाः ।। ४७ ।।
नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ।।
स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः।।४८।।
धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ।।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ।।४९।।
नृगो यो मनुपुत्रस्तु महादाता विशेषतः ।।
नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ।।5.36.५०।।
गोदातव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ।।
कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ।।५१।।
तस्येकोभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ।।
इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ।।५२।
वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।।
पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ।। ५३ ।।
स एकदाऽऽगतं गोष्ठे व्याघ्रं गा हिंसितुं बली ।।
श्रुत्वा गोकदनं बुद्धो हंतुं तं खड्गधृग्ययौ ।।५४।।
अजानन्नहनद्बभ्रोश्शिरश्शार्दूलशंकया ।।
निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ।। ५५ ।।
मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ।।
रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ।।५६।।
व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ।।
अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ।।५७।।
श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ।।
अकामतोविचार्य्येति शूद्रो भव न क्षत्रियः ।।५८।।
एवं शप्तस्तु गुरुणा कुलाचार्य्येण कोपतः ।।
निस्सृतश्च पृषध्रस्तु जगाम विपिनं महत् ।। ५९ ।।
निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान्।।
वनाग्नौ दग्धदेहश्च जगाम परमां गतिम्।।5.36.६०।।
कविः पुत्रो मनोः प्राज्ञश्शिवानुग्रहतोऽभवत् ।।
भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम्।।६१।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनंनाम षट्त्रिंशो ऽध्यायः।।३६।।