शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४२

← अध्यायः ४१ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →

।। भीष्म उवाच।।
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ।।
किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम ।। १ ।।
मार्कण्डेय उवाच ।।
ते धर्मयोगनिरतास्सप्त मानसचारिणः ।।
वाय्वंबुभक्षास्सततं शरीरमुपशोषयन् ।। २ ।।
स राजांतःपुरवृतो नन्दने मघवा इव ।।
क्रीडित्वा सुचिरं तत्र सभार्य्यस्स्वपुरं ययौ ।। ३ ।।
अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः।।
तं वैभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ।।४।।
तपः कर्तुं समारेभे यत्र ते सहचारिणः।।
स वै तत्र निराहारो वायुभक्षो महातपाः ।।५।।
ततो विभ्राजितं तेन विभ्राजं नाम तद्वनम्।।
बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम् ।।६।।
तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ।।
योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन् ।। ७ ।।
कांपिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।।
जातास्सप्तमहात्मानस्सर्वे विगतकल्मषाः ।।।५ ।।
स्मृतिमंतोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ।।
स्वतन्त्रस्याह्वयो जातो ब्रह्मदत्तो महौजसः।।९।।
छिद्रदर्शी सुनेत्रस्तु वेदवेदांगपारगौ ।।
जातौ श्रोत्रियदायादौ पूर्वजातिसहाषितौ।। 5.42.१०।।
पंचालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह।।
द्विवेदः पुंडरीकश्च छंदोगोऽध्वर्युरेव च ।।११।।
ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ।।
अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान्।।१२।।
पंचालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ।।
विविशतुर्वनं तत्र गतौ परमिकां गतिम्।।१३।।
ब्रह्मदत्तस्य भार्य्या तु सन्नितिर्माम भारत ।।
सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु ।।१४।।
शेषास्तु चक्रवाका वै कांपिल्ये सहचारिणः ।।
जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप ।। १५ ।।
धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ।।
वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः ।।१६।।
ते योगनिरतास्सिद्धाः प्रस्थितास्सर्व एव हि।।
आमंत्र्य च मिथः शंभोः पदाम्भोजं प्रणम्य तु।।१७।।
शूरा ये सम्प्रपद्यन्ते अपुनर्भवकांक्षिणः ।।
पापम्प्रणाशयन्त्वद्य तच्छम्भोः परमम्पदम्।।१८।।
शारीरे मानसे चैव पापे वाग्जे महामुने ।।
कृते सम्यगिदम्भक्त्या पठेच्छ्रद्धासमन्वितः।।१९।।
मुच्यते सर्वपापेभ्यश्शिवनामानुकीर्तनात् ।।
उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै ।।5.42.२० ।।
विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ।।
तस्मात्तत्संचिते पापे समनंतरमेव च ।।२१।।
जप्तव्यमेतत्पापस्य प्रशमाय महामुने ।।
नरैः श्रद्धालुभिभूर्यस्सर्वकामफलाप्तये ।। २२ ।।
पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ।।
मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः ।। २३ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।