शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०५

उपमन्युरुवाच
विग्रहं देवदेवस्य विश्वमेतच्चराचरम् ॥ ७.२,५.१
तदेवं न विजानंति पशवः पाशगौरवात् ॥ ७.२,५.१
तमेकमेव बहुधा वदंति यदुनंदन ॥ ७.२,५.२
अजानन्तः परं भावमविकल्पं महर्षयः ॥ ७.२,५.२
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ ७.२,५.३
केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ७.२,५.३
भूतेंद्रियांतःकरणप्रधानविषयात्मकम् ॥ ७.२,५.४
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ७.२,५.४
बृहत्त्वाद्बृहणत्वाद्वा ब्रह्म चेत्यभिधीयते ॥ ७.२,५.५
उभे ते ब्रह्मणो रूपे ब्रह्मणो ऽधिपतेः प्रभोः ॥ ७.२,५.५
विद्या ऽविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ७.२,५.५
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ ७.२,५.६
विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ७.२,५.६
रूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ ७.२,५.७
भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७.२,५.७
अयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ ७.२,५.८
यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ७.२,५.८
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ ७.२,५.९
वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ७.२,५.९
तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ ७.२,५.१०
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ ७.२,५.१०
क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ ७.२,५.११
उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ७.२,५.११
तयोः परः शिवः शांतः क्षराक्षरापरस्स्मृतः ॥ ७.२,५.१२
समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ ७.२,५.१२
वदंति मुनयः केचिच्छिवं परमकारणम् ॥ ७.२,५.१३
समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ ७.२,५.१३
ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ॥ ७.२,५.१४
तयोः कारणभावेन शिवं परमकारणम् ॥ ७.२,५.१४
कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ॥ ७.२,५.१५
जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ ७.२,५.१५
या पिंडेप्यनुवर्तेत सा जातिरिति कथ्यते ॥ ७.२,५.१६
व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातेः समाश्रयम् ॥ ७.२,५.१६
जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ॥ ७.२,५.१७
यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ ७.२,५.१७
प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ॥ ७.२,५.१८
प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ ७.२,५.१८
त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ॥ ७.२,५.१९
कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ ७.२,५.१९
एषामीशो ऽधिपो धाता प्रवर्तकनिवर्तकः ॥ ७.२,५.२०
आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ ७.२,५.२०
तस्मात्प्रधानपुरुषव्यक्तकालस्वरूपवान् ॥ ७.२,५.२१
हेतुर्नेताधिपस्तेषां धाता चोक्ता महेश्वरः ॥ ७.२,५.२१
विराड्ढिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ॥ ७.२,५.२२
हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ ७.२,५.२२
अंतर्यामी परश्चेति कथ्यते कविभिश्शिवः ॥ ७.२,५.२३
प्राज्ञस्तैजसविश्वात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२३
तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ॥ ७.२,५.२४
माता मानं च मेयं च मतिं चाहुरथापरे ॥ ७.२,५.२४
कर्ता क्रिया च कार्यं च करणं कारणं परे ॥ ७.२,५.२५
जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते ॥ ७.२,५.२५
तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ॥ ७.२,५.२६
तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ ७.२,५.२६
केचित्संसारिणं प्राहुस्तमसंसारिणं परे ॥ ७.२,५.२७
स्वतंत्रमपरे प्राहुरस्वतंत्रं परे विदुः ॥ ७.२,५.२७
घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ॥ ७.२,५.२८
रागवंतं परे प्राहुर्वीतरागं तथा परे ॥ ७.२,५.२८
निष्क्रियं च परे प्राहुः सक्रियं चेतरे जनाः ॥ ७.२,५.२९
निरिंद्रियं परे प्राहुः सेंद्रियं च तथापरे ॥ ७.२,५.२९
ध्रुवमित्यपरे प्राहुस्तमध्रुवामितीरते ॥ ७.२,५.३०
अरूपं केचिदाहुर्वै रूपवंतं परे विदुः ॥ ७.२,५.३०
अदृश्यमपरे प्राहुर्दृश्यमित्यपरे विदुः ॥ ७.२,५.३१
वाच्यमित्यपरे प्राहुरवाच्यमिति चापरे ॥ ७.२,५.३१
शब्दात्मकं परे प्राहुश्शब्दातीतमथापरे ॥ ७.२,५.३१
केचिच्चिन्तामयं प्राहुश्चिन्तया रहितं परे ॥ ७.२,५.३२
ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे ॥ ७.२,५.३२
केचिच्ज्ञेयमिति प्राहुरज्ञेयमिति केचन ॥ ७.२,५.३३
परमेके तमेवाहुरपरं च तथा परे ॥ ७.२,५.३३
एवं विकल्प्यमानं तु याथात्म्यं परमेष्ठिनः ॥ ७.२,५.३४
नाध्यवस्यंति मुनयो नानाप्रत्ययकारणात् ॥ ७.२,५.३४
ये पुनस्सर्वभावेन प्रपन्नाः परमेश्वरम् ॥ ७.२,५.३५
ते हि जानंत्ययत्नेन शिवं परमकारणम् ॥ ७.२,५.३५
यावत्पशुर्नैव पश्यत्यनीशं १ पुराणं भुवनस्येशितारम् ॥ ७.२,५.३६
तावद्दुःखे वर्तते बद्धपाशः संसारे ऽस्मिञ्चक्रनेमिक्रमेण ॥ ७.२,५.३६
यदा २ पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ ७.२,५.३७
तदाविद्वान्पुण्यपापे विधूय निरंजनः परममुपैति साम्यम् ॥ ७.२,५.३७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो नाम पञ्चमो ऽध्यायः