शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०६

उपमन्युरुवाच
नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥ ७.२,६.१
प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥ ७.२,६.१
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥ ७.२,६.२
न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥ ७.२,६.२
न च कालः कला चैव न विद्या नियतिस्तथा ॥ ७.२,६.३
न रागो न च विद्वेषः शंभोरमिततेजसः ॥ ७.२,६.३
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥ ७.२,६.४
कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ७.२,६.४
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥ ७.२,६.५
भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ७.२,६.५
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥ ७.२,६.६
न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ७.२,६.६
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥ ७.२,६.७
न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७.२,६.७
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥ ७.२,६.८
न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ७.२,६.८
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥ ७.२,६.९
कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ७.२,६.९
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥ ७.२,६.१०
अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ ७.२,६.१०
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥ ७.२,६.११
सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ७.२,६.११
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥ ७.२,६.१२
हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥ ७.२,६.१२
अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥ ७.२,६.१३
एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥ ७.२,६.१३
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥ ७.२,६.१४
हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ ७.२,६.१४
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥ ७.२,६.१५
सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥ ७.२,६.१५
स पुंविशेषः परमो भगवानन्तकांतकः ॥ ७.२,६.१६
चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ ७.२,६.१६
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥ ७.२,६.१७
लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ ७.२,६.१७
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥ ७.२,६.१८
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ७.२,६.१८
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥ ७.२,६.१९
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ७.२,६.१९
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥ ७.२,६.२०
ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥ ७.२,६.२०
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥ ७.२,६.२१
तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ ७.२,६.२१
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥ ७.२,६.२२
परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ ७.२,६.२२
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥ ७.२,६.२३
शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥ ७.२,६.२३
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥ ७.२,६.२४
या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥ ७.२,६.२४
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ ७.२,६.२५
वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ ७.२,६.२५
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥ ७.२,६.२६
अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ ७.२,६.२६
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥ ७.२,६.२७
मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥ ७.२,६.२७
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥ ७.२,६.२८
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥ ७.२,६.२८
मकारः पुरुषो बीजं तमः संहारको हरः ॥ ७.२,६.२९
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥ ७.२,६.२९
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥ ७.२,६.३०
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥ ७.२,६.३०
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥ ७.२,६.३१
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७.२,६.३१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः