शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १०

कृष्ण उवाच
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥
षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ १
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥
महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ २
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥
त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ ३
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥
शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ४
साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥
भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ५
उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥
भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ६
महीधरवरे दिव्ये मंदरे चारुकंदरे ॥
देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ ७
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥
फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ८
ततः स्वमंकमारोप्य देवीं देववरोरहः ॥
अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ९
अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥
अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ १०
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥
चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ११
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥
त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ १२
तदावसरमालोक्य सर्वलोकमहेश्वरी ॥
भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ १३
देव्युवाच
केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥
आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ १४
ईश्वर उवाच
न कर्मणा न तपसा न जपैर्नासनादिभिः ॥
न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ १५
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥
वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ १६
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥
श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ १७
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥
तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ १८
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥
ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ १९
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥
नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ २०
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ २०
वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ २१
वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ २२
अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ॥ २३
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ २४
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥
परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ २४
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥
आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ २५
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥
तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ २६
ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥
सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥ २७
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥
दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ २८
सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥
यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ २९
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥
चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ ३०
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥
षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ३१
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥
ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ३२
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥
वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ३३
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥
मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ३४
विजितेंद्रियवर्गस्य यमेन नियमेन च ॥
पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ३५
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥३६
योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥
दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥ ३७
सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥ ३८
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥
ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ ३९
अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥
दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ ४०
प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति ॥
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥ ४१
तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ४१
फलकामनया कर्मकरणात्प्रतिबध्यते ॥
न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ४२
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥
ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ४३
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥
न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥ ४४
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥
ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ४५
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥
ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ४६
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥
वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ४७
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥
पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ४८
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥
तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ४९
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥
मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ५०
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥
ममोपचारनिरतः कायः कायो न चेतरः ॥ ५१
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥
मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ५२
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥
रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ५३
ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥
ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ५४
बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥
प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ५५
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥
असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ५६
शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥
अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ५७
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥
न भावरहितं देवि विप्रलंभैककारणम् ॥ ५८
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥
बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ५९
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥
मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ६०
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥
फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ६१
फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥
भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ६२
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥
प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ ६३
प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ॥
विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥ ६४
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥
ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ६५
मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥
फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ६६
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥
अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ६७
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥
स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥ ६८
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥
ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ६९
एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ॥
स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥ ७०
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७१
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः