शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २९

श्रीकृष्ण उवाच
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ ७.२,२९.१
स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ ७.२,२९.२
काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२
उपमन्युरुवाच
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ७.२,२९.३
ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ ७.२,२९.५
क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ ७.२,२९.६
शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ ७.२,२९.७
अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ ७.२,२९.८
शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ ७.२,२९.९
शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ ७.२,२९.१०
तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१०
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ ७.२,२९.११
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११
मनोभिलषिते तत्र वितानविततांबरे ॥ ७.२,२९.१२
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ ७.२,२९.१३
एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ ७.२,२९.१४
रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ ७.२,२९.१५
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ ७.२,२९.१६
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ ७.२,२९.१७
कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ ७.२,२९.१८
सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ ७.२,२९.१९
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ ७.२,२९.२०
शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२०
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ ७.२,२९.२१
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ ७.२,२९.२२
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ ७.२,२९.२३
त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ७.२,२९.२४
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ ७.२,२९.२५
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ ७.२,२९.२६
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ ७.२,२९.२७
पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२८
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ ७.२,२९.२९
निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ ७.२,२९.३०
तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३०
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ७.२,२९.३१
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ ७.२,२९.३२
सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ७.२,२९.३३
ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ७.२,२९.३४
ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ ७.२,२९.३५
मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ ७.२,२९.३६
मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ ७.२,२९.३७
पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ ७.२,२९.३८
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ ७.२,२९.३९
पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ ७.२,२९.४०
पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः