शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०७

मुनय ऊचुः
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥ ७.१,७.१
न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥ ७.१,७.१
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥ ७.१,७.२
सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ ७.१,७.२
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥ ७.१,७.३
यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ७.१,७.३
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥ ७.१,७.४
अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥ ७.१,७.४
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥ ७.१,७.५
क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ७.१,७.५
वायुरुवाच
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥ ७.१,७.६
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ७.१,७.६
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥ ७.१,७.७
नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७.१,७.७
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥ ७.१,७.८
ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥ ७.१,७.८
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥ ७.१,७.९
शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ७.१,७.९
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥ ७.१,७.१०
महती तेन कालस्य मर्यादा हि दुरत्यया ॥ ७.१,७.१०
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥ ७.१,७.११
कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ७.१,७.११
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥ ७.१,७.१२
ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥ ७.१,७.१२
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥ ७.१,७.१३
न जयंत्यपि ते कालं कालो जयति तानपि ॥ ७.१,७.१३
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥ ७.१,७.१४
न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥ ७.१,७.१४
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥ ७.१,७.१५
अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥ ७.१,७.१५
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥ ७.१,७.१६
संयोजयति भूतानि वियोजयति चेश्वरः ॥ ७.१,७.१६
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥ ७.१,७.१७
दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ ७.१,७.१७
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥ ७.१,७.१८
यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ ७.१,७.१८
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥ ७.१,७.१९
भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥ ७.१,७.१९
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥ ७.१,७.२०
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ ७.१,७.२०
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥ ७.१,७.२१
तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥ ७.१,७.२१
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ ७.१,७.२२
नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥ ७.१,७.२३
कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ ७.१,७.२३
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥ ७.१,७.२४
कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥ ७.१,७.२४
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥ ७.१,७.२५
कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ ७.१,७.२५
न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥ ७.१,७.२६
विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ ७.१,७.२६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः