शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २६

वायुरुवाच
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ७.१,२६.१
तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१
देव्युवाच
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ ७.१,२६.२
अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२
मय्यर्पितमना एष भजते मामनन्यधीः ॥ ७.१,२६.३
अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ ७.१,२६.४
गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ ७.१,२६.५
प्रदीयतामनुज्ञा मे प्रजानां पतिना १ त्वया ॥ ७.१,२६.५
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ ७.१,२६.६
तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत्१ ॥ ७.१,२६.६
ब्रह्मोवाच
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ ७.१,२६.७
आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ ७.१,२६.८
अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ ७.१,२६.९
अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ ७.१,२६.१०
अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१०
देव्युवाच
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ ७.१,२६.११
तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११
ब्रह्मोवाच
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ ७.१,२६.१२
भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ ७.१,२६.१३
अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ ७.१,२६.१४
त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ ७.१,२६.१५
अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ ७.१,२६.१६
तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ ७.१,२६.१७
अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ ७.१,२६.१८
लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ ७.१,२६.१९
सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ ७.१,२६.२०
अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२०
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ ७.१,२६.२१
क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ ७.१,२६.२२
प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ७.१,२६.२३
ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ ७.१,२६.२४
देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ ७.१,२६.२५
तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ ७.१,२६.२६
तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ ७.१,२६.२७
सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ ७.१,२६.२८
देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ ७.१,२६.२९
सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः