शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/विषयानुक्रमणिका

अथ सप्तम्या वायवीयसंहितायाः पूर्वभागः १ ॥

१ वेदादिचतुर्दशविद्यापुराणाविर्भावकथनम, तत्र पुराणसंख्यालक्षणादि निरूपणश्च ।

२ 'कः परः' इति विवदमानानां षट्कुलीनमुनीनां विधिप्रति प्रञ्चः ।

३ शिव एक सर्वस्मात्परस्तत्प्रसादादेव जीवानां मुक्तिरिति विध्युत्तरं प्रसंगान्नैमिषवर्णनञ्च ।

४ ऋषिसत्रसमाप्त्युत्तरं तत्र वायोरागनमृषीणां प्रश्नानुरोधाद्वायोः शिवैश्वर्यकथनारंभः ।

५ पशुपतिशब्दार्थविषये वायुनैमिषेय ऋषिमविवादः ।

६ उपर्युक्तशब्दार्थः शिव एवेति वायोः प्रत्युत्तरं प्रसंगाद्ब्रह्मादीनामायुर्मानकथनञ्च ।

७ काल: शिवाद्भिन्नो नेत्युक्त्वा तस्य स्वरूपशक्त्यादिविवरणम् ।

८ कृत्स्नमिदं सृष्ट्वा तत्र क्रीडानिमित्तं शिवस्य सृष्ट्यादि भवति ।

९ ऋषीणां वायुं प्रति शिवस्य क्रीडाविषयकसृष्टिविषयानेकप्रश्नकथनम् ।

१० अखिलब्रह्मांडस्थितिस्वरूपादिविवरणम् ।

११ मन्वंतरकल्पप्रतिकल्पादिभेदेन सर्गप्रतिसर्गोंद्भव: ॥

१२ ब्रह्मण:सकाशान्मोहगदादिसर्गः । भूतपिशाचासुरराक्षसां चोत्पतिविसर्गौ ।

१३ कल्पभेदेन ब्रह्मविष्णुरुद्रादीनामन्योन्यतः प्रादुर्भावकथनम् ।

१४ प्रतिकल्पे ब्रह्मण: सकाशाद्रुद्रोत्पत्तिवर्णनम् ।

१५ अर्धनारीश्वररुपेण प्रादुर्भूताच्छिवाद् ब्रह्मणो मैथुनसृष्टिकल्पना ।

१६ मैथुनसृष्टिकथने प्रसंगाच्छक्तिनिर्माणकथनम्

१७ विधिदेहार्धाच्छतरूपोत्पतिर्दक्षादीनां चोत्पत्तिवर्णनम् ।

१८ शिवायाः सतीनाम्ना दक्षोदराज्जन्म, दक्षस्य रुद्रद्धेषे कारणं

१९ शिवद्वेषनिमित्तात्सतीदेहत्यागवर्णनञ्च । वीरभद्रोत्पतिश्च ।

२० सगणस्य वीरभद्रस्य दक्षयज्ञस्थानागमनं तत्कृतदक्षमखविध्वंसनवर्णनम् ।

२१ यज्ञस्थानाद्विष्ण्वादीनां गमनम्। अग्न्यादीनां च पलायनवर्णनम् ।

२२ दक्षस्य पक्षपाताद्वीरभद्रदेवयोर्मध्ये दारुण संग्राम:, तत्र वीरभद्रकृतदेवादीनां विरूपकरणस्य वर्णनम् ।

२३ पराभूतैर्देवैः कृतया स्तुत्या प्रसन्नाच्छिवान्मखसंधानदेवसन्त्वान शिवांतर्धानादिकथनम्।

२४ ततो मंदराचले शिवस्य तपोर्थ गमनं प्रसंगान्मंदरवर्णनं च ! अत्रांतरे शुंभनिशुंभदैत्योरुत्पत्तिः विधिप्रार्थनया च तद्वधार्थं प्रवृत्तयोः शिव शिवयोर्विचित्रलीलाप्रपंचनम् ।

२५ शिवेन 'काली' त्यभिहिता शिवा तपोऽर्थं हिमाचलं जगाम तत्रोग्रं तपश्चरंतीं देवीं दैत्यवधेच्छया ब्रह्माऽऽजगाम तदा कालीं मां गौरी कुरु, मंत्सिंहश्च शिवभक्तो भवत्विति तं देव्युक्तिः ।

२६ ब्रह्माण च तथास्त्वित्युक्ते सा सखीभिस्सिंहेन च सह शिवं द्रष्टुं गता। ब्रह्मापि गौर्या: स्वदेहकोशान्निर्मितां कौशिकीं गृहीत्वा दैत्यवधार्थं स्वलोकं जगामेत्यादिवर्णनम् ।

२७ मंदरे गौरीगतौ शिवगणकृतोत्साहवर्णनं शिवयो: संमेलनप्रसंगकथनं शिवयाऽऽनीतस्य सिंहस्य शिवप्रसादः ।

२८ विश्वस्यास्य याऽग्नीषोमीयता पूर्वोक्ता तस्याः प्रपंचः प्रसंगाद्भस्ममहिमवर्णनं च ।

२९ वाग्रथा इव चास्य विश्वस्य शिवस्य संबंध: पूर्वोक्तस्तस्य विवरणं तथा षडध्वस्वरूपकथनम् ।

३० शिवविचित्र चरितश्रवणनास्तिक्यप्रवृत्तबुद्धिप्रवाहस्यनिवर्तनक्षम शिवतत्त्वविषयक ऋषिप्रश्नप्रपंचः ।

३१ उत्तरत्वेन वायुप्रोक्तानेकाग्न्यादिदृष्टांतैर्विशुद्धशिवतत्त्वकथनम् ।

३२ मोक्षप्रापकश्रेष्ठधर्मप्रच्छानुरोधाच्छैवधर्मानुष्ठानमेव नान्यदित्यादि विवरणम् । तस्य च पंचविधत्वनिरुक्ति: ।

३३ सप्रपंचपाशुपतव्रतकथनं भस्ममहिमवर्णनञ्च । ।

३४ प्रश्नानुसारेण शिशुत्वेऽप्युपमन्योः शैवागमतत्वज्ञानं तस्य पूर्वजन्मवृत्तकथनं रुद्रकृतया तस्य विभूतिलाभश्च । ।

३५ उपमन्युपस्तप्ता देवाः शिवशरणं प्राप्तास्तदा शक्ररूपशिवेनोपमन्युसमीपं गत्वा वरं याचस्वेत्युक्ते बालकेनोक्तं शिवभक्ति विना मम किमपि नेप्टं तदा शक्ररूपी शिवः शिवनिंदामकरोत्तां श्रुत्वा चोपमन्युस्तं शप्तुं प्रवृत्तस्तदा शिवरूपेण तस्य कामवरं दत्त्वा स्वलोक गत इत्यादिवर्णनम् ।

इति सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ।। १ ।।