शिवसूत्रवार्तिका
[[लेखकः :|]]

शिवसूत्र (वार्तिका)

शिवसूत्र, प्रथम उन्मेष
चैतन्यं आत्मा । । १.१ । ।
[शिवसूत्रवार्तिका
चैतन्यं चित्क्रियारूपं शिवस्य परमस्य यथ् । । वार्तिका१.१:१ । ।
स्वातन्त्र्यं एतदेवात्मा ततोऽसौ परमः शिवः । । वार्तिका१.१:२ । ।
अथवा कोऽयं आत्मेति प्रष्ट्बोधयितुं शिशून् । । वार्तिका१.१:३ । ।
नात्मा देहो न च प्राणो न मनः खं न शून्यभूः । । वार्तिका१.१:४ । ।
किंतु चैतन्यं एवात्मेत्यादिष्टं परमेष्ठिना । । वार्तिका१.१:५ । ।
अथ चैतन्यं एवैतदात्मा स्वाभाविकं वपुः । । वार्तिका१.१:६ । ।
विशेषाचोदनादस्य जगतश्चेत्यरूपिणः । । वार्तिका१.१:७ । ।
अचेत्यमानं कस्यापि वपुः किं अपि नो भवेथ् । । वार्तिका१.१:८ । ।
चेत्यमानं तु चिद्रूपतादात्म्याच्चिन्मयं भवेथ् । । वार्तिका१.१:९ । ।
एवं शिवोक्तया नीत्या जङ्गमस्थावरात्मनः । । वार्तिका१.१:१० । ।
चैतन्यं एव विश्वस्य स्वरूपं पारमार्थिकं । । वार्तिका१.१:११ । ।
नन्वेवंविधविश्वस्य चैतन्यं चेद्वपुस्तदा । । वार्तिका१.१:१२ । ।
कथं बन्धस्य सम्बन्ध इति शङ्कां व्यपोहितुं । । वार्तिका१.१:१३ । ।
प्रश्लेषाश्लेषपाठाभ्यां सूत्रं आह महेश्वरः । । वार्तिका१.१:१४ । ।]

ज्ञानं बन्धः । । १.२ । ।
[शिवसूत्रवार्तिका
अज्ञानं इति तत्राद्यं चैतन्यस्फाररूपिणि । । वार्तिका१.२:१ । ।
आत्मन्यनात्मताज्ञानं ज्ञानं पुनरनात्मनि । । वार्तिका१.२:२ । ।
देहादावात्ममानित्वं द्वयं अप्येतदाणवं । । वार्तिका१.२:३ । ।
मलं स्वकल्पितं स्वस्मिन्बन्धः स्वेच्छाविभावितः । । वार्तिका१.२:४ । ।
किं आणवमलात्मैव बन्धोऽयं नेत्युदीर्यते । । वार्तिका१.२:५ । ।]

योनिवर्गः कलाशरीरं । । १.३ । ।
[शिवसूत्रवार्तिका
योनिर्भेदप्रथाहेतुर्माया वर्गस्तदुत्थितः । । वार्तिका१.३:१ । ।
कलादिक्षितिपर्यन्ततत्त्वराशिस्तदात्मकः । । वार्तिका१.३:२ । ।
मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयं । । वार्तिका१.३:३ । ।
कलेति कायं आविश्य परिच्छेदकरी नृणां । । वार्तिका१.३:४ । ।
व्यापृतिः पुण्यपापात्मा शरीरं यस्य तत्पुनः । । वार्तिका१.३:५ । ।
कार्मं च मलं एतस्मिन्द्वये बन्धोऽनुवर्तते । । वार्तिका१.३:६ । ।
ईश्वरप्रत्यभिज्ञायां उक्तं एतन्मलत्रयं । । वार्तिका१.३:७ । ।
स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । । वार्तिका१.३:८ । ।
द्विधाणवं मलं इदं स्वस्वरूपापहारतः । । वार्तिका१.३:९ । ।
भिन्नवेद्यप्रथात्रैव मायीयं जन्मभोगदं । । वार्तिका१.३:१० । ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयं । । वार्तिका१.३:११ । ।
इत्यथैषां मलानां तु बन्धकत्वं निरूप्यते । । वार्तिका१.३:१२ । ।]

ज्ञानाधिष्ठानं मातृका । । १.४ । ।
[शिवसूत्रवार्तिका
अपूर्णं अन्यतारूपं भिन्नवेद्यप्रथात्मकं । । वार्तिका१.४:१ । ।
शुभाशुभात्मकाशेषकर्मसंस्कारविग्रहं । । वार्तिका१.४:२ । ।
त्रिविधं मलं उक्तं यत्तदेव ज्ञानं उच्यते । । वार्तिका१.४:३ । ।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । । वार्तिका१.४:४ । ।
अनुविद्धं इव ज्ञानं सर्वं शब्देन गम्यते । । वार्तिका१.४:५ । ।
इत्युक्तनीत्या ज्ञानस्य विविधस्यास्य मातृका । । वार्तिका१.४:६ । ।
अकारादिक्षकारान्तपञ्चाशद्वर्णविग्रहा । । वार्तिका१.४:७ । ।
शिवादिक्षितिपर्यन्ततत्त्वग्रामप्रसूतिभूः । । वार्तिका१.४:८ । ।
करन्ध्रचितिमध्यस्था ब्रह्मपाशावलम्बिकाः । । वार्तिका१.४:९ । ।
पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः । । वार्तिका१.४:१० । ।
इति श्रीतिमिरोद्घाटप्रोक्तनीत्यनुसारतः । । वार्तिका१.४:११ । ।
स्वरादिवर्गाधिष्ठातृमातृचक्रपरिष्कृता । । वार्तिका१.४:१२ । ।
अपूर्णोऽहं अहं पूर्णोऽहं कृशोऽहं कृशेतरः । । वार्तिका१.४:१३ । ।
इति शब्दानुवेधेन शोकहर्षादिकारिका । । वार्तिका१.४:१४ । ।
अधिष्ठानं अधिष्ठात्री तदधिष्ठानतो नृणां । । वार्तिका१.४:१५ । ।
अलब्धान्तर्मुखस्वात्मविश्रान्तीनि निरन्तरं । । वार्तिका१.४:१६ । ।
बहिर्मुखानि ज्ञानानि कथ्यन्ते बन्धहेतवः । । वार्तिका१.४:१७ । ।
अथेदृग्बन्धसम्बन्धप्रशमोपाय उच्यते । । वार्तिका१.४:१८ । ।
परमोपेयविश्रान्तिसतत्त्वः परमेष्ठिना । । वार्तिका१.४:१९ । ।]

उद्यमो भैरवः । । १.५ । ।
[शिवसूत्रवार्तिका
योऽयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः । । वार्तिका१.५:१ । ।
झटित्युच्छलनाकारप्रतिभोन्मज्जनात्मकः । । वार्तिका१.५:२ । ।
उद्यमोऽन्तःपरिस्पन्दः पूर्णाहम्भावनात्मकः । । वार्तिका१.५:३ । ।
स एव सर्वशक्तीनां सामरस्यादशेषतः । । वार्तिका१.५:४ । ।
विश्वतो भरितत्वेन विकल्पानां विभेदिनां । । वार्तिका१.५:५ । ।
अलं कवलनेनापीत्यन्वर्थादेव भैरवः । । वार्तिका१.५:६ । ।
अथेदृग्भैरवापत्तेर्बन्धप्रशमकारणाथ् । । वार्तिका१.५:७ । ।
व्युत्थानं च भवेच्छान्तभेदाभासं इतीर्यते । । वार्तिका१.५:८ । ।]

शक्तिचक्रसंधाने विश्वसंहारः । । १.६ । ।
[शिवसूत्रवार्तिका
योऽयं उक्तः स्वसंवित्तेरुद्यमो भैरवात्मकः । । वार्तिका१.६:१ । ।
अस्यास्ति महती शक्तिरतिक्रान्तक्रमाक्रमा । । वार्तिका१.६:२ । ।
निःशेषनिजचिच्छक्तिचक्राक्रमणलम्पटा । । वार्तिका१.६:३ । ।
रिक्तारिक्तोभयाकाराप्यनेतद्रूपिणी परा । । वार्तिका१.६:४ । ।
ययैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः । । वार्तिका१.६:५ । ।
परप्रमातृविश्रान्तिपर्यन्तस्पन्दरूपया । । वार्तिका१.६:६ । ।
सृष्टिस्थितिलयानाख्याभासशक्तिप्रसारणाथ् । । वार्तिका१.६:७ । ।
प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितं । । वार्तिका१.६:८ । ।
तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः । । वार्तिका१.६:९ । ।
संधानं आन्तराम्नायाम्नातक्रमविमर्शनं । । वार्तिका१.६:१० । ।
तस्मिन्सत्यस्य विश्वस्य कालाग्न्यादिकलावधेः । । वार्तिका१.६:११ । ।
संहारः स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः । । वार्तिका१.६:१२ । ।
एवं स्वसंवित्कालाग्निप्लुष्टभेदस्य योगिनः । । वार्तिका१.६:१३ । ।
न स्यात्समाधिव्युत्थानभेदः कोऽपीति कथ्यते । । वार्तिका१.६:१४ । ।
जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः । । वार्तिका१.६:१५ । ।
उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः । । वार्तिका१.६:१६ । ।
तुर्यं नाम परं धाम तदाभोगश्चमत्क्रिया । । वार्तिका१.६:१७ । ।
भेदेऽपि जाग्रदादीनां योगिनस्तस्य सम्भवः । । वार्तिका१.६:१८ । ।
अनुस्यूतिः परानन्दरूपा स्यादिति शिष्यते । । वार्तिका१.६:१९ । ।
जाग्रदादित्रयं सूत्रत्रयेण लक्ष्यते क्रमाथ् । । वार्तिका१.६:२० । ।]

ज्ञानं जाग्रथ् । । १.७ । ।
स्वप्नो विकल्पाः । । १.८ । ।
अविवेको माया सौषुप्तं । । १.९ । ।
[शिवसूत्रवार्तिका
ज्ञानं बाह्याक्षजं जाग्रत्सर्वसाधारणार्थकं । । वार्तिका१.९:१ । ।
स्वप्नः स्वात्मैव सम्प्रोक्तो विकल्पाः स्वात्मसम्भवाः । । वार्तिका१.९:२ । ।
अविवेको निजाख्यातिर्माया मोहस्तदात्मकः । । वार्तिका१.९:३ । ।
सौषुप्तं योगिनां एतत्त्रितयं धारणादिकं । । वार्तिका१.९:४ । ।
ईश्वरप्रत्यभिज्ञायां जागराद्यपि लक्षितं । । वार्तिका१.९:५ । ।
शून्ये बुद्ध्याद्यभावात्मन्यहंताकर्तृतापदे । । वार्तिका१.९:६ । ।
अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता । । वार्तिका१.९:७ । ।
साक्षाणां आन्तरी वृत्तिः प्राणादिप्रेरिका मता । । वार्तिका१.९:८ । ।
जीवनाख्याथवा प्राणेऽहंता पुर्यष्टकात्मिका । । वार्तिका१.९:९ । ।
तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमं । । वार्तिका१.९:१० । ।
सवेद्यं अपवेद्यं च मायामलयुतायुतं । । वार्तिका१.९:११ । ।
मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमाथ् । । वार्तिका१.९:१२ । ।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतं । । वार्तिका१.९:१३ । ।
सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा । । वार्तिका१.९:१४ । ।
सृष्टिः साधारणी सर्वप्रमात्णां स जागरः । । वार्तिका१.९:१५ । ।
इति विस्तरतः प्रोक्ते लोकयोग्यनुसारतः । । वार्तिका१.९:१६ । ।
जागरादित्रयेऽमुष्मिन्नवधानेन जाग्रतः । । वार्तिका१.९:१७ । ।
शक्तिचक्रानुसंधानाद्विश्वसंहारकारणाथ् । । वार्तिका१.९:१८ । ।
तुर्याभोगमयाभेदख्यातिरख्यातिहारिणी । । वार्तिका१.९:१९ । ।
स्फुरत्यविरतं यस्य स तद्धाराधिरोहतः । । वार्तिका१.९:२० । ।
तुर्यातीतमयं योगी प्रोक्तचैतन्यं आमृशन् । । वार्तिका१.९:२१ । ।]

त्रितयभोक्ता वीरेशः । । १.१० । ।
[शिवसूत्रवार्तिका
जागरादित्रयं प्रोक्तशक्तिचक्रानुसंधितः । । वार्तिका१.१०:१ । ।
तुर्यानन्दरसासाराच्छुरितं भेदवर्जनाथ् । । वार्तिका१.१०:२ । ।
आनन्दरसनिर्मग्नं परमं व्योम भावयन् । । वार्तिका१.१०:३ । ।
त्रितयस्यास्य यो भोक्ता चमत्कर्ता स योगिराठ् । । वार्तिका१.१०:४ । ।
त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः । । वार्तिका१.१०:५ । ।
विद्यात्तदुभयं यस्तु स भुञ्जानो न लिप्यते । । वार्तिका१.१०:६ । ।
इत्युक्तनिष्प्रतिद्वन्द्विसंवित्साम्राज्यवैभवः । । वार्तिका१.१०:७ । ।
चिद्घनः स्वात्मविज्ञानपरमानन्दनिर्भरः । । वार्तिका१.१०:८ । ।
वीरेशो येन वीराणां भेदग्रसनकारिणां । । वार्तिका१.१०:९ । ।
अन्तर्बहिर्विसरतां इन्द्रियाणां अधीश्वरः । । वार्तिका१.१०:१० । ।
किं अस्य परचित्तत्त्वारोहविश्रान्तिसूचिकाः । । वार्तिका१.१०:११ । ।
भूमिकाः सन्त्ययं याभिर्याति सर्वोत्तरां स्थितिं । । वार्तिका१.१०:१२ । ।
इत्यन्तेवासिहृच्छङ्काशान्त्यै सन्तीत्युदीर्यते । । वार्तिका१.१०:१३ । ।]

विस्मयो योगभूमिकाः । । १.११ । ।
[शिवसूत्रवार्तिका
यथा सातिशयानन्दे कस्यचिद्विस्मयो भवेथ् । । वार्तिका१.११:१ । ।
तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने । । वार्तिका१.११:२ । ।
निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये । । वार्तिका१.११:३ । ।
परे स्वात्मन्यतृप्त्यैव यदाश्चर्यं स विस्मयः । । वार्तिका१.११:४ । ।
स एव खलु योगस्य परतत्त्वैक्यरूपिणः । । वार्तिका१.११:५ । ।
भूमिकास्तत्क्रमारोहपरविश्रान्तिसूचिकाः । । वार्तिका१.११:६ । ।
ईर्दृग्विस्मयवद्योगभूमिकारूढचेतसः । । वार्तिका१.११:७ । ।]

इच्छा शक्तिरुमा कुमारी । । १.१२ । ।
[शिवसूत्रवार्तिका
परभैरवतां युक्त्या समापन्नस्य शाश्वतीं । । वार्तिका१.१२:१ । ।
तस्यैव योगिनो येच्छा शक्तिः सैव भवत्युमा । । वार्तिका१.१२:२ । ।
परा भट्टारिका सैव कुमारीति प्रकीर्तिता । । वार्तिका१.१२:३ । ।
सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया । । वार्तिका१.१२:४ । ।
कुमारी कुं महामायाभूमिं मारयतीत्यपि । । वार्तिका१.१२:५ । ।
कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः । । वार्तिका१.१२:६ । ।
कुमारी नान्यभोग्या च भोक्त्रैकात्म्येन तिष्ठति । । वार्तिका१.१२:७ । ।
उमा कुमारी संत्यक्तसर्वासङ्गा महेशितुः । । वार्तिका१.१२:८ । ।
आराधनपरा तद्वदिच्छा शक्तिस्तु योगिनः । । वार्तिका१.१२:९ । ।
अयं एव स्फुटः पाठो दृष्टोऽनुत्तरदैशिकैः । । वार्तिका१.१२:१० । ।
व्याख्यातश्च परैः शक्तितमेतिपठनात्पुनः । । वार्तिका१.१२:११ । ।
प्रकर्षो व्याकृतोऽमुष्याः शक्तेर्ज्ञानक्रियात्मतः । । वार्तिका१.१२:१२ । ।
एवं ईदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः । । वार्तिका१.१२:१३ । ।]

दृश्यं शरीरं । । १.१३ । ।
[शिवसूत्रवार्तिका
यद्यद्दृश्यं अशेषं तच्छरीरं तस्य योगिनः । । वार्तिका१.१३:१ । ।
अहं इत्यपृथक्त्वेन पतिवत्प्रतिभासनाथ् । । वार्तिका१.१३:२ । ।
शरीरं देहधीप्राणशून्यरूपं घटादिवथ् । । वार्तिका१.१३:३ । ।
दृश्यं एवास्य पशुवत्द्रष्टृत्वेन न भासते । । वार्तिका१.१३:४ । ।
एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः । । वार्तिका१.१३:५ । ।
मयूराण्डरसन्यायात्प्रतिपत्तिरभेदिनी । । वार्तिका१.१३:६ । ।
दृश्यं शरीरतां एति शरीरं चापि दृश्यतां । । वार्तिका१.१३:७ । ।
इत्युक्तं योगिनो यत्तन्न दुर्घटं इतीर्यते । । वार्तिका१.१३:८ । ।
हृदये चित्तसंघट्टाद्दृश्यस्वापदर्शनं । । वार्तिका१.१३:९ । ।
हृदयं तद्विजानीयाद्विश्वस्यायतनं महथ् । । वार्तिका१.१३:१० । ।
इत्युक्तनीत्या हृदयं विश्वविश्रान्तिभित्तिभूः । । वार्तिका१.१३:११ । ।
स्वसंवित्तत्र संघट्टश्चित्तस्य चलतः सतः । । वार्तिका१.१३:१२ । ।
तदैकात्म्यपरामर्शजागरूकस्वभावता । । वार्तिका१.१३:१३ । ।
तस्माद्दृश्यस्य विश्वस्य नीलदेहादिरूपिणः । । वार्तिका१.१३:१४ । ।
स्वापस्यैतदभावस्य शून्यस्यापि च दर्शनं । । वार्तिका१.१३:१५ । ।
स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । । वार्तिका१.१३:१६ । ।
इति श्रीप्रत्यभिज्ञोक्तनीत्या पत्युरिव प्रभोः । । वार्तिका१.१३:१७ । ।
स्वाङ्गकल्पतया तस्य यथावत्प्रथनं भवेथ् । । वार्तिका१.१३:१८ । ।
उक्तेऽप्येवं प्रमेयेऽस्मिन्नुपायान्तरं उच्यते । । वार्तिका१.१३:१९ । ।]

शुद्धतत्त्वसंधानाद्वापशुशक्तिः । । १.१४ । ।
[शिवसूत्रवार्तिका
शुद्धं तत्त्वं परं वस्तु यत्तत्परशिवात्मकं । । वार्तिका१.१४:१ । ।
तत्संधानं प्रपञ्चस्य तन्मयत्वेन भावनं । । वार्तिका१.१४:२ । ।
तेनैव यस्य पश्वाख्या बन्धशक्तिर्न विद्यते । । वार्तिका१.१४:३ । ।
तत्सदाशिववत्सोऽपि विश्वस्य जगतः पतिः । । वार्तिका१.१४:४ । ।
शुद्धतत्त्वानुसंधानवत एवास्य योगिनः । । वार्तिका१.१४:५ । ।]

वितर्क आत्मज्ञानं । । १.१५ । ।
[शिवसूत्रवार्तिका
वितर्कः प्रोक्तसंधानध्वस्तबन्धस्य योगिनः । । वार्तिका१.१५:१ । ।
विश्वात्मा शिव एवाहं अस्मीत्यर्थविचिन्तनं । । वार्तिका१.१५:२ । ।
एतदेव स्फुरद्रूपं आत्मनो ज्ञानं उच्यते । । वार्तिका१.१५:३ । ।
किं चास्य प्रोक्तवैतर्कस्वात्मविज्ञानशालिनः । । वार्तिका१.१५:४ । ।]

लोकानन्दः समाधिसुखं । । १.१६ । ।
[शिवसूत्रवार्तिका
लोक्यं लोकयिता चेति लोकश्चेत्यचिदात्मनि । । वार्तिका१.१६:१ । ।
तत्तद्रूपतया तस्मिं लोके स्फुरति योगिनः । । वार्तिका१.१६:२ । ।
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनां । । वार्तिका१.१६:३ । ।
योगिनां तु विशेषोऽयं सम्बन्धे सावधानता । । वार्तिका१.१६:४ । ।
इत्युक्तनीत्या तत्सर्वं अहं इत्यनुसंहितेः । । वार्तिका१.१६:५ । ।
आनन्दो यो भवत्यन्तस्तत्समाधिसुखं स्मृतं । । वार्तिका१.१६:६ । ।
यत्समाधिसुखं तस्य स्वात्मारामस्य योगिनः । । वार्तिका१.१६:७ । ।
तदेव लोके लोकानां आनन्दोऽन्तर्विचिन्वतां । । वार्तिका१.१६:८ । ।
विभूतियोगं एतस्य दर्शयत्यथ योगिनः । । वार्तिका१.१६:९ । ।]

शक्तिसंधाने शरीरोत्पत्तिः । । १.१७ । ।
[शिवसूत्रवार्तिका
इच्छा शक्तिरुमेत्यादिसूत्रोक्ता शक्तिरस्य या । । वार्तिका१.१७:१ । ।
संधाने योगिनस्तस्यास्तन्मयीभावने सति । । वार्तिका१.१७:२ । ।
तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते । । वार्तिका१.१७:३ । ।
अन्याश्च सिद्धयस्तस्य सम्भवन्तीत्युदीर्यते । । वार्तिका१.१७:४ । ।]

भूतसंधानभूतपृथक्त्वविश्वसंघट्टाः । । १.१८ । ।
[शिवसूत्रवार्तिका
भूतानां देहधीप्राणशून्यानां ग्राहकात्मनां । । वार्तिका१.१८:१ । ।
ग्राह्याणां स्थावराणां च संधानं परिपोषणं । । वार्तिका१.१८:२ । ।
पृथक्त्वं अथ विश्लेषो व्याध्यादिक्लेशशान्तये । । वार्तिका१.१८:३ । ।
विश्वस्य देशकालादिविप्रकृष्टस्य यत्पुनः । । वार्तिका१.१८:४ । ।
संघट्टश्चक्षुराद्यक्षप्रत्यक्षीकरणादिकं । । वार्तिका१.१८:५ । ।
एतत्सर्वं भवेच्छक्तिसंधाने सति योगिनः । । वार्तिका१.१८:६ । ।
यदा परिमिताः सिद्धीरनिच्छन्पुनरिच्छति । । वार्तिका१.१८:७ । ।
विश्वात्मताप्रथारूपां परां सिद्धिं तदास्य तु । । वार्तिका१.१८:८ । ।]

शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः । । १.१९ । ।
[शिवसूत्रवार्तिका
वैश्वात्म्यप्रथनाकाङ्क्षी संधत्ते शक्तिं आत्मनः । । वार्तिका१.१९:१ । ।
यदा योगी तदा तस्य सदाशिवपदस्पृशः । । वार्तिका१.१९:२ । ।
ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । । वार्तिका१.१९:३ । ।
सामानाधिकरण्यं च सद्विद्याहमिदंधियोः । । वार्तिका१.१९:४ । ।
इति नीत्या जगत्सर्वं अहं एवेति या मतिः । । वार्तिका१.१९:५ । ।
सा शुद्धा निर्मला विद्या तदीयादुदयात्स्फुटं । । वार्तिका१.१९:६ । ।
उन्मज्जनात्स चिच्छक्तिं आत्मनो नित्यं आमृशेथ् । । वार्तिका१.१९:७ । ।
यदा योगी तदा तस्य चक्रेशत्वं अनुत्तरं । । वार्तिका१.१९:८ । ।
माहेश्वर्यं समावेशोत्कर्षात्सिध्यति योगिनः । । वार्तिका१.१९:९ । ।
विश्वात्मकतदुत्तीर्णस्वात्मारामत्वं एव सः । । वार्तिका१.१९:१० । ।
इच्छति स्वच्छचिद्रूपो यदा योगी तदास्य तु । । वार्तिका१.१९:११ । ।]

महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः । । १.२० । ।
[शिवसूत्रवार्तिका
परा भट्टारिका संविदिच्छाशक्तिपुरःसरं । । वार्तिका१.२०:१ । ।
स्थूलप्रमेयपर्यन्तं वमन्ती विश्वं आन्तरं । । वार्तिका१.२०:२ । ।
प्रमात्रन्तर्बहीरूपहृषीकविषयात्मनां । । वार्तिका१.२०:३ । ।
खेचर्यादिप्रवाहाणां बाह्याभ्यन्तररूपिणां । । वार्तिका१.२०:४ । ।
प्रवर्तकत्वात्स्वच्छत्वगम्भीरत्वादिधर्मतः । । वार्तिका१.२०:५ । ।
महाह्रदो जगद्व्यापी देशकालाद्यगोचरः । । वार्तिका१.२०:६ । ।
अन्तस्तस्यानुसंधानात्तादात्म्यस्यावमर्शनाथ् । । वार्तिका१.२०:७ । ।
अकारादिक्षकारान्तशब्दराशिप्रथात्मनः । । वार्तिका१.२०:८ । ।
क्षित्यादिशिवपर्यन्ततत्त्वान्तःक्षोभकारिणः । । वार्तिका१.२०:९ । ।
मन्त्रवीर्यस्य सर्वेषां मन्त्राणां प्राणरूपिणः । । वार्तिका१.२०:१० । ।
पराहंतापरामर्शमयस्यानुभवः स्फुटं । । वार्तिका१.२०:११ । ।
अखिलं वाचकं वाच्यं अहं इत्यवमर्शनं । । वार्तिका१.२०:१२ । ।
योगिनः सावधानस्य भवतीत्येव शिष्यते । । वार्तिका१.२०:१३ । ।
स्फुटीकरोमि संक्षेपात्तत्प्रमेयं पुरोदितं । । वार्तिका१.२०:१४ । ।
महाह्रद इति प्रोक्ता शक्तिर्भगवती परा । । वार्तिका१.२०:१५ । ।
अनुसंधानं इत्युक्तं तत्तादात्म्यविमर्शनं । । वार्तिका१.२०:१६ । ।
मन्त्रवीर्यं इति प्रोक्तं पूर्णाहंताविमर्शनं । । वार्तिका१.२०:१७ । ।
तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुटं । । वार्तिका१.२०:१८ । ।
इति श्रीशाम्भवोपायप्रकाशनपरायणः । । वार्तिका१.२०:१९ । ।
उन्मेषः प्रथमः सम्यक्स्वरूपोन्मेषलक्षणः । । वार्तिका१.२०:२० । ।]



शिवसूत्र, द्वितीय उन्मेष
चित्तं मन्त्रः । । २.१ । ।
[शिवसूत्रवार्तिका
चेत्यतेऽनेन परमं स्वात्मतत्त्वं विमृश्यते । । वार्तिका२.१:१ । ।
इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनं । । वार्तिका२.१:२ । ।
तदेव मन्त्र्यते गुप्तं अभेदेन विमृश्यते । । वार्तिका२.१:३ । ।
स्वस्वरूपं अनेनेति मन्त्रस्तेनास्य दैशिकैः । । वार्तिका२.१:४ । ।
पूर्णाहंतानुसंध्यात्मस्फूर्जन्मननधर्मता । । वार्तिका२.१:५ । ।
संसारक्षयकृत्त्राणधर्मता च निरुच्यते । । वार्तिका२.१:६ । ।
तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यकं । । वार्तिका२.१:७ । ।
आराधकस्य चित्तं च मन्त्रस्तद्धर्मयोगतः । । वार्तिका२.१:८ । ।
अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः । । वार्तिका२.१:९ । ।]

प्रयत्नः साधकः । । २.२ । ।
[शिवसूत्रवार्तिका
उक्तमन्त्रानुसंधानावष्टम्भोद्यन्तृतात्मकः । । वार्तिका२.२:१ । ।
प्रयत्नोऽन्तःस्वसंरम्भः स एव खलु साधकः । । वार्तिका२.२:२ । ।
यतो मन्त्रयितुर्मन्त्रदेवतैक्यप्रदः स्मृतः । । वार्तिका२.२:३ । ।
ईदृक्साधकसाध्यस्य मन्त्रस्य प्रथमोदितं । । वार्तिका२.२:४ । ।
वीर्यं विस्तरतः सम्यग्वर्ण्यतेऽथ सलक्षणं । । वार्तिका२.२:५ । ।]

विद्याशरीरसत्ता मन्त्ररहस्यं । । २.३ । ।
[शिवसूत्रवार्तिका
विद्येति परमाद्वैतसम्प्रवेदनरूपिणी । । वार्तिका२.३:१ । ।
शरीरं यस्य भगवान्शब्दराशिः स उच्यते । । वार्तिका२.३:२ । ।
तस्य सत्ता समस्ताध्वपूर्णाहंतास्वरूपिणी । । वार्तिका२.३:३ । ।
स्फुरत्ता सैव मन्त्राणां मननत्राणधर्मिणां । । वार्तिका२.३:४ । ।
गुप्तार्थताया जननं रहस्यं इति कथ्यते । । वार्तिका२.३:५ । ।
एतच्छ्रीक्षेमराजेन तन्त्रसारात्समुद्धृतैः । । वार्तिका२.३:६ । ।
संवादैः संमतैः सम्यग्वर्णितं निजवृत्तिगैः । । वार्तिका२.३:७ । ।
सम्यगेवंविधं मन्त्रवीर्यं येषां यथातथं । । वार्तिका२.३:८ । ।
महाह्रदानुसंधानप्रकारावेदितं त्वपि । । वार्तिका२.३:९ । ।
इच्छयैव महेशस्य हृदयंगमतां दृढं । । वार्तिका२.३:१० । ।
न गच्छत्यथ तुच्छायां चित्तं सिद्धौ प्ररोहति । । वार्तिका२.३:११ । ।
बिन्दुनादादिजातायां तेषां तु मितयोगिनां । । वार्तिका२.३:१२ । ।]

गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः । । २.४ । ।
[शिवसूत्रवार्तिका
गर्भोऽख्यातिर्महामाया तन्मये सिद्धिसंचये । । वार्तिका२.४:१ । ।
विकासो नाम चित्तस्य तावन्मात्रे कृतार्थता । । वार्तिका२.४:२ । ।
सैवाविशिष्टा विद्येति किंचिज्ज्ञत्वस्वरूपिणी । । वार्तिका२.४:३ । ।
अशुद्धविद्या सा स्वप्नो विकल्पप्रत्ययामकः । । वार्तिका२.४:४ । ।
आगता अपि ताः सिद्धीः खलीकृत्य यदा पुनः । । वार्तिका२.४:५ । ।
अवष्टभ्नात्यसौ योगी परां सिद्धिं तदाश्नुते । । वार्तिका२.४:६ । ।]

विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था । । २.५ । ।
[शिवसूत्रवार्तिका
विद्यायाः प्राक्समाख्यातरूपायाः शंकरेच्छया । । वार्तिका२.५:१ । ।
स्वाभाविके समुत्थाने समुल्लासे स्वभावजे । । वार्तिका२.५:२ । ।
उन्मज्जने सति क्षुद्रसिद्धिमज्जनतत्परे । । वार्तिका२.५:३ । ।
अवस्था या शिवस्यान्तरवस्थातुरभेदिनी । । वार्तिका२.५:४ । ।
स्फुरत्ता सैव सम्पूर्णस्वानन्दोच्छलनात्मिकां । । वार्तिका२.५:५ । ।
मुदं रातीत्यतो मुद्रा खेचरी च नभश्चरी । । वार्तिका२.५:६ । ।
व्यज्यते योगिनो विश्वग्विश्वोत्तीर्णस्वरूपिणः । । वार्तिका२.५:७ । ।
एवंप्रभावयोर्वीर्यासादने मन्त्रमुद्रयोः । । वार्तिका२.५:८ । ।]

गुरुरुपायः । । २.६ । ।
[शिवसूत्रवार्तिका
सम्यग्ज्ञानक्रियाप्राणमन्त्रमुद्रायथास्थितिं । । वार्तिका२.६:१ । ।
गृणात्युपदिशत्यर्थं तद्वीर्यं चेत्यतो गुरुः । । वार्तिका२.६:२ । ।
स एव मन्त्रमुद्राणां वीर्यव्याप्तिप्रकाशनाथ् । । वार्तिका२.६:३ । ।
उपायः कथ्यते साक्षादुपेयं परमं प्रति । । वार्तिका२.६:४ । ।
यद्वा गुरुः परा शक्तिरीश्वरानुग्रहात्मिका । । वार्तिका२.६:५ । ।
अवकाशप्रदानेन सैव यायादुपायतां । । वार्तिका२.६:६ । ।
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः । । वार्तिका२.६:७ । ।
आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवथ् । । वार्तिका२.६:८ । ।
गुरोर्लक्षणं एतावदादिमान्त्यं च वेदयेथ् । । वार्तिका२.६:९ । ।
इति श्रीमालिनीशास्त्रसिद्धातन्त्रोक्तवैभवाथ् । । वार्तिका२.६:१० । ।
अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदकाथ् । । वार्तिका२.६:११ । ।
परमेष्ठिसमात्तस्मात्परमोपायतो गुरोः । । वार्तिका२.६:१२ । ।]

मातृकाचक्रसंबोधः । । २.७ । ।
[शिवसूत्रवार्तिका
मन्त्रमुद्रानुसंधानसंततोद्युक्तचेतसः । । वार्तिका२.७:१ । ।
भवत्युक्तगुरोः प्रीतात्साधकस्येति शिष्यते । । वार्तिका२.७:२ । ।
अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानगाः । । वार्तिका२.७:३ । ।
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ । । वार्तिका२.७:४ । ।
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु । । वार्तिका२.७:५ । ।
क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते । । वार्तिका२.७:६ । ।
वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयं । । वार्तिका२.७:७ । ।
तदूर्ध्वे शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकं । । वार्तिका२.७:८ । ।
अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता । । वार्तिका२.७:९ । ।
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि । । वार्तिका२.७:१० । ।
इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा । । वार्तिका२.७:११ । ।
इति श्रीत्रीशिकाशास्त्रप्रोक्तन्यायेन मातृका । । वार्तिका२.७:१२ । ।
अकारादिविसर्गान्तस्वरषोडशगर्भिणी । । वार्तिका२.७:१३ । ।
अत एवादिबिन्द्वन्तदशपञ्चतिथिक्रमा । । वार्तिका२.७:१४ । ।
तदात्मकतदुत्तीर्णबिन्दुद्वन्द्वविभूषिता । । वार्तिका२.७:१५ । ।
अत एव जगत्सर्वं सृजत्यन्तरनुत्तरे । । वार्तिका२.७:१६ । ।
तत्पञ्चदशकस्यान्तरुद्धृतैः पञ्चभिः स्वरैः । । वार्तिका२.७:१७ । ।
अ इ उ ऋ ळ् विन्यासैः कादिमान्तं च वाचकं । । वार्तिका२.७:१८ । ।
क्षित्यादिपुरुषान्तं च वाच्यं तत्त्वकदम्बकं । । वार्तिका२.७:१९ । ।
पञ्चपञ्चकभेदेन पञ्चपञ्चविजृम्भितं । । वार्तिका२.७:२० । ।
बहिश्चानुत्तरादेव सृजती विश्वं ईदृशं । । वार्तिका२.७:२१ । ।
वाय्वग्निसलिलेन्द्राणां क्रमाद्य र ल वात्मनां । । वार्तिका२.७:२२ । ।
अनुत्तरेच्छोन्मेषाख्यत्रितयान्योन्यसंधितः । । वार्तिका२.७:२३ । ।
किंचानुत्तरषण्ढाख्यद्वयसंधिवशादपि । । वार्तिका२.७:२४ । ।
उत्थितानां कलाविद्यामायारागाभिधायिनां । । वार्तिका२.७:२५ । ।
स्वरूपगोपनात्सर्वकर्तृत्वाद्यपसारतः । । वार्तिका२.७:२६ । ।
खण्डितस्य पशोः किंचित्कर्तृत्वादिप्रदायिनां । । वार्तिका२.७:२७ । ।
मायोर्ध्वशुद्धविद्यादितत्त्वारोहनिरोधनाथ् । । वार्तिका२.७:२८ । ।
मूलादधोऽवरोहस्य निरोधाच्च त्रिशण्कुवथ् । । वार्तिका२.७:२९ । ।
मध्ये संस्थापितस्यास्य धारणाद्धारणात्मनां । । वार्तिका२.७:३० । ।
यतिस्तु भावाभावानां व्यवस्थोदयदायिनी । । वार्तिका२.७:३१ । ।
कालोऽपि तां महामायां स्वतन्त्रां अनुवर्तते । । वार्तिका२.७:३२ । ।
इत्युक्त्या कालनियतियुक्तत्वात्षड्विधात्मनां । । वार्तिका२.७:३३ । ।
स्फारयन्ती वपुः पश्चात्तदूर्ध्वं शादिपञ्चकं । । वार्तिका२.७:३४ । ।
सद्योजातादिकेशानपर्यन्तब्रह्मविग्रहं । । वार्तिका२.७:३५ । ।
सूक्ष्मरूपमहीवारिवह्निवायुनभोमयं । । वार्तिका२.७:३६ । ।
क्रमेण शुद्धविद्येशसादशक्तिशिवात्मकं । । वार्तिका२.७:३७ । ।
विस्फारयन्ती स्वान्तःस्थं विसर्गकलया बहिः । । वार्तिका२.७:३८ । ।
कादिसान्ताक्षरान्तस्थः क्षकारोऽप्यन्तिमो यतः । । वार्तिका२.७:३९ । ।
अतोऽकारहकाराभ्यां अहं इत्यपृथक्तया । । वार्तिका२.७:४० । ।
प्रपंचं शिवशक्तिभ्यां क्रोडीकृत्य प्रकाशते । । वार्तिका२.७:४१ । ।
अस्यास्त्वेवंप्रभावायाश्चक्रं यत्तदिहोदितं । । वार्तिका२.७:४२ । ।
अनुत्तरेच्छोन्मेषादिस्पन्दशक्तिकदम्बकं । । वार्तिका२.७:४३ । ।
तत्संबोधश्चिदानन्दघनस्वात्मानुसंहितिः । । वार्तिका२.७:४४ । ।
अथेदृङ्मातृकाचक्रसंबोधोद्बोधितात्मनः । । वार्तिका२.७:४५ । ।]

शरीरं हविः । । २.८ । ।
[शिवसूत्रवार्तिका
शून्यं धीः प्राण इत्येतत्सृज्यते क्षीयतेऽपि च । । वार्तिका२.८:१ । ।
स्थैर्यं अस्ति परं देहापेक्षया न तु तत्त्वतः । । वार्तिका२.८:२ । ।
इत्युक्तनीत्या शून्यादेः प्रमाता त्वस्य भित्तिभूः । । वार्तिका२.८:३ । ।
शरीरं स्थूलसूक्ष्मादि चिदग्नौ परयोगिनः । । वार्तिका२.८:४ । ।
हूयमानं हविः प्रोक्तं तन्मातृत्वनिमज्जनाथ् । । वार्तिका२.८:५ । ।
परिपूर्णप्रकाशात्मप्रमात्रुन्मज्जनप्रदाथ् । । वार्तिका२.८:६ । ।
एवं शरीरहव्येन ज्वलद्बोधोर्ध्वरोचिषः । । वार्तिका२.८:७ । ।]

ज्ञानं अन्नं । । २.९ । ।
[शिवसूत्रवार्तिका
ज्ञानं बन्ध इति प्रोक्तं यत्प्राक्तत्परयोगिनः । । वार्तिका२.९:१ । ।
अनात्मन्यात्मताज्ञप्तिरन्नं ग्रस्यत इत्यतः । । वार्तिका२.९:२ । ।
किं च यद्यत्प्रकाशात्मस्वरूपामर्शनात्मकं । । वार्तिका२.९:३ । ।
ज्ञानं तत्परमाह्लादकारित्वादन्नं उच्यते । । वार्तिका२.९:४ । ।
यदा त्ववहितः शश्वद्योगी नैवं भवत्यसौ । । वार्तिका२.९:५ । ।
तदा ज्ञानवतोऽप्यस्य समाधानावलेपतः । । वार्तिका२.९:६ । ।]

विद्यासंहारे तदुत्थस्वप्नदर्शनं । । २.१० । ।
[शिवसूत्रवार्तिका
विद्येति ज्ञानविस्फाररूपा या तु पुरोदिता । । वार्तिका२.१०:१ । ।
शुद्धविद्याथ संहारेऽनुत्थानेऽस्या निमज्जने । । वार्तिका२.१०:२ । ।
तदुत्थस्य क्रमेणाञ्चद्विद्यासंहारजन्मनः । । वार्तिका२.१०:३ । ।
स्वप्नस्य भेदनिष्ठस्य विकल्पौघस्य दर्शनं । । वार्तिका२.१०:४ । ।
उन्मज्जनं भवत्यस्य प्राग्व्याख्यातोत्तमात्मनः । । वार्तिका२.१०:५ । ।
अवधानेऽवलिप्तस्य साधकस्येति शिष्यते । । वार्तिका२.१०:६ । ।
इति द्वितीय उन्मेषः शाक्तोपायप्रकाशकः । । वार्तिका२.१०:७ । ।]



शिवसूत्र, तृतीय उन्मेष
आत्मा चित्तं । । ३.१ । ।
[शिवसूत्रवार्तिका
विशेषभोग्यशब्दादिवासनावेशरूपितं । । वार्तिका३.१:१ । ।
तत्तदध्यवसायादिव्यापारकरणोन्मुखं । । वार्तिका३.१:२ । ।
सत्त्वादिवृत्त्यवष्टम्भि बुद्ध्यहंकृन्मनोमयं । । वार्तिका३.१:३ । ।
चित्तं तत्प्रोक्तचैतन्यस्वरूपानवमर्शनाथ् । । वार्तिका३.१:४ । ।
तत्तत्कर्मानुसारेण नानायोनीरनुव्रजथ् । । वार्तिका३.१:५ । ।
अततीत्यत एवात्मा ततः सोऽणुः प्रकीर्तितः । । वार्तिका३.१:६ । ।
आत्मनश्चातनं नास्ति संविदेकस्वरूपिणः । । वार्तिका३.१:७ । ।
अतश्चैतन्यं आत्मेति धीक्रियात्मकं आत्मनः । । वार्तिका३.१:८ । ।
विश्वस्वभावभूतं तत्तात्त्विकं रूपं ईरितं । । वार्तिका३.१:९ । ।
इदानीं एतदीयेन स्वातन्त्र्येणावभासिताथ् । । वार्तिका३.१:१० । ।
संकोचादणुतायोगाच्चित्तं आत्मेति लक्षितं । । वार्तिका३.१:११ । ।
इति पूर्वापरादेशवैषम्यं नास्ति किंचन । । वार्तिका३.१:१२ । ।
अस्य चित्तस्वरूपस्य देहादेरात्मनस्त्वणोः । । वार्तिका३.१:१३ । ।]

ज्ञानं बन्धः । । ३.२ । ।
[शिवसूत्रवार्तिका
अन्तः सुखादिसंवेद्यव्यवसायादिवृत्तिमथ् । । वार्तिका३.२:१ । ।
बहिस्तद्योग्यनीलादिदेहादिविषयोन्मुखं । । वार्तिका३.२:२ । ।
भेदाभासात्मकं चास्य ज्ञानं बन्धोऽणुरूपिणः । । वार्तिका३.२:३ । ।
तत्पाशितत्वादेवासावणुः संसरति ध्रुवं । । वार्तिका३.२:४ । ।
ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः । । वार्तिका३.२:५ । ।
अनयोरपृथग्भावाज्ज्ञानी ज्ञाने प्रकाशते । । वार्तिका३.२:६ । ।
इत्युक्तनीत्या ज्ञानं च स्वस्वरूपप्रकाशकं । । वार्तिका३.२:७ । ।
आत्मवत्तत्कथं तस्य बन्धकत्वप्रसङ्गिता । । वार्तिका३.२:८ । ।
इत्याशङ्क्याह यद्येवं प्रसन्नात्परमेश्वराथ् । । वार्तिका३.२:९ । ।
प्रत्यभिज्ञा भवत्येषा तदा सत्यं त्वदीरितं । । वार्तिका३.२:१० । ।
तन्मायाशक्तितो नैष विमर्शोऽस्य यदा तदा । । वार्तिका३.२:११ । ।]

कलादीनां तत्त्वानां अविवेको माया । । ३.३ । ।
[शिवसूत्रवार्तिका
अन्तरन्तःस्फुरत्किंचित्कर्तृत्वादिप्रदायिनां । । वार्तिका३.३:१ । ।
कलादिक्षितिपर्यन्ततत्त्वानां कञ्चुकात्मनां । । वार्तिका३.३:२ । ।
पुर्यष्टकमयत्वेन स्थूलदेहादिरूपतः । । वार्तिका३.३:३ । ।
स्थितानां अविवेकस्तेष्वात्मत्वेनानुसंहितिः । । वार्तिका३.३:४ । ।
सैव सम्मोहिनी माया तत्त्वाख्यातिमयं जगथ् । । वार्तिका३.३:५ । ।
अतश्चैतज्जन्यमायाप्रशमायास्य योगिनः । । वार्तिका३.३:६ । ।]

शरीरे संहारः कलानां । । ३.४ । ।
[शिवसूत्रवार्तिका
महाभूतात्मके स्थूले सूक्ष्मे पुर्यष्टकात्मनि । । वार्तिका३.४:१ । ।
मूलादिसमनान्ते च शरीरे योगिनः परे । । वार्तिका३.४:२ । ।
कलानां तत्र भागानां कार्याणां कारणे निजे । । वार्तिका३.४:३ । ।
संहारः संविदेकाग्निसद्भावो लयचिन्तया । । वार्तिका३.४:४ । ।
दाहाद्यामर्शयुक्त्या वा ध्यातव्य इति शिष्यते । । वार्तिका३.४:५ । ।
एवं ध्यानाभिधानो यः संहारोपाय ईरितः । । वार्तिका३.४:६ । ।
एवं एतत्प्रधानांश्च प्राणायामपुरःसरान् । । वार्तिका३.४:७ । ।
अन्यान्समाधिपर्यन्तानुपायान्दर्शयत्यसौ । । वार्तिका३.४:८ । ।]

नाडीसंहारभूतजयभूतकैवल्यभूतपृथक्त्वानि । । ३.५ । ।
[शिवसूत्रवार्तिका
भावनीयानि युक्तेन साधकेनेति शिष्यते । । वार्तिका३.५:१ । ।
प्राणादिवाहिनाडीनां संहारः प्राणसंयमाथ् । । वार्तिका३.५:२ । ।
रेचकादिक्रमोत्पादादुदानदहनात्मनि । । वार्तिका३.५:३ । ।
मध्यनाड्यां विलीनत्वापादनं तन्मयत्वतः । । वार्तिका३.५:४ । ।
भूतानां भूजलादीनां जयो यः स उदीर्यते । । वार्तिका३.५:५ । ।
वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः । । वार्तिका३.५:६ । ।
माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता । । वार्तिका३.५:७ । ।
आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता । । वार्तिका३.५:८ । ।
इति स्वच्छन्दशास्त्रोक्तधारणाभिर्वशीकृतिः । । वार्तिका३.५:९ । ।
भूतेभ्यः किल कैवल्यं चित्तप्रत्याहृतिस्ततः । । वार्तिका३.५:१० । ।
पृथक्त्वं तदनालिप्तस्वच्छस्वात्मैकरूपता । । वार्तिका३.५:११ । ।
भूतसंधान इत्यादिसूत्रोक्तं यत्फलं पुरा । । वार्तिका३.५:१२ । ।
अप्रयत्नेन साध्यं तच्छाम्भवोपायशालिनः । । वार्तिका३.५:१३ । ।
आणवोपायसाध्यं तु यत्नेनेति विशिष्यते । । वार्तिका३.५:१४ । ।
इत्येवं देहशुद्ध्याद्यैः समाध्यन्तैश्च या भवेथ् । । वार्तिका३.५:१५ । ।
सिद्धिः सा मोहवरणान्नात्मज्ञानादितीर्यते । । वार्तिका३.५:१६ । ।]

मोहावरणात्सिद्धिः । । ३.६ । ।
[शिवसूत्रवार्तिका
मोहो विमोहिनी माया तत्कृतावरणात्किल । । वार्तिका३.६:१ । ।
पूर्वोक्तधारणाद्युक्त्या सिद्धिः परिमिता भवेथ् । । वार्तिका३.६:२ । ।
तत्तत्तत्त्वोपभोगात्मा न त्वस्य परचित्प्रथा । । वार्तिका३.६:३ । ।
विनष्टमोहावेशस्य समाधौ चाग्रतः पुनः । । वार्तिका३.६:४ । ।
मध्यमं प्राणं आश्रित्य प्राणापानपथान्तरं । । वार्तिका३.६:५ । ।
आलम्ब्य ज्ञानशक्तिं च तत्स्थं चैवासनं लभेथ् । । वार्तिका३.६:६ । ।
प्राणादिस्थूलभावं तु त्यक्त्वा सूक्ष्मं अथान्तरं । । वार्तिका३.६:७ । ।
सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः । । वार्तिका३.६:८ । ।
प्राणायामः स उद्दिष्टो यस्मान्न च्यवते पुनः । । वार्तिका३.६:९ । ।
शब्दादिगुणवृत्तिर्या चेतसा ह्यनुभूयते । । वार्तिका३.६:१० । ।
त्यक्त्वा तां परमं धाम प्रविशेत्तत्स्वचेतसा । । वार्तिका३.६:११ । ।
प्रत्याहार इति प्रोक्तो भवपाशनिकृन्तनः । । वार्तिका३.६:१२ । ।
धीगुणान्समतिक्रम्य निर्ध्येयं चाव्ययं विभुं । । वार्तिका३.६:१३ । ।
ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः । । वार्तिका३.६:१४ । ।
धारणा परमात्मत्वं धार्यते येन सर्वदा । । वार्तिका३.६:१५ । ।
धारणा सा विनिर्दिष्टा भवबन्धविनाशिनी । । वार्तिका३.६:१६ । ।
स्वपरस्थेषु भूतेषु जगत्यस्मिन्समानधीः । । वार्तिका३.६:१७ । ।
शिवोऽहं अद्वितीयोऽहं समाधिः स परः स्मृतः । । वार्तिका३.६:१८ । ।
इत्येवं मृत्युजित्तन्त्रभट्टारकनिरूपितैः । । वार्तिका३.६:१९ । ।
प्राणसंयमनारम्भैः समाध्यन्तैः क्रमैरपि । । वार्तिका३.६:२० । ।
परतत्त्वसमावेशो भवत्येवेति कथ्यते । । वार्तिका३.६:२१ । ।]

मोहजयादनन्ताभोगात्सहजविद्याजयः । । ३.७ । ।
[शिवसूत्रवार्तिका
मोहो माया निजाख्यातिस्तज्जयात्तत्पराभवाथ् । । वार्तिका३.७:१ । ।
उद्यमार्कोत्थितोऽनन्तः संस्कारप्रशमावधिः । । वार्तिका३.७:२ । ।
आभोगो यस्य विस्तार ईदृशाद्दर्शितात्मनः । । वार्तिका३.७:३ । ।
भवेत्सहजविद्याया जयो लाभो योगिनः । । वार्तिका३.७:४ । ।
एवं मोहजयोपात्तशुद्धविद्यामहोदयः । । वार्तिका३.७:५ । ।]

जाग्रद्द्वितीयकरः । । ३.८ । ।
[शिवसूत्रवार्तिका
भक्त्वैवं सहजां विद्यां तदेकत्वावलम्बने । । वार्तिका३.८:१ । ।
जागरूकः सदा योगी जाग्रदित्ययं उच्यते । । वार्तिका३.८:२ । ।
संपूर्णाहंविमर्शात्मस्वाहंतापेक्षया जगथ् । । वार्तिका३.८:३ । ।
द्वितीयं इदं आकारं करो यस्य स्वदीधितिः । । वार्तिका३.८:४ । ।
तथाभूतो भवत्येष स्वकरीभूतविष्टपः । । वार्तिका३.८:५ । ।
ईदृशोऽयं सदा स्वात्मविमर्शावेशिताशयः । । वार्तिका३.८:६ । ।]

नर्तक आत्मा । । ३.९ । ।
[शिवसूत्रवार्तिका
नृत्यत्यन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः । । वार्तिका३.९:१ । ।
स्वेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पन्दलीलया । । वार्तिका३.९:२ । ।
जागरास्वप्नसौषुप्तरूपास्तास्ताः स्वभूमिकाः । । वार्तिका३.९:३ । ।
आभासयति यत्तस्मादात्मा नर्तक उच्यते । । वार्तिका३.९:४ । ।
एवंविधजगन्नाट्यनर्तकस्यास्य योगिनः । । वार्तिका३.९:५ । ।
भूमिकाग्रहणस्थानं रङ्गं आह जगद्गुरुः । । वार्तिका३.९:६ । ।]

रङ्गोऽन्तरात्मा । । ३.१० । ।
[शिवसूत्रवार्तिका
रज्यतेऽस्मिन्जगन्नाट्यक्रीडाकौतुकिनात्मना । । वार्तिका३.१०:१ । ।
इति रङ्गोऽन्तरात्मेति जीवः पुर्यष्टकात्मकः । । वार्तिका३.१०:२ । ।
योगी कृतपदस्तत्र स्वेन्द्रियस्पन्दलीलया । । वार्तिका३.१०:३ । ।
सदाशिवादिक्षित्यन्तजगन्नाट्यं प्रकाशयेथ् । । वार्तिका३.१०:४ । ।
देहान्तरङ्गे रङ्गेऽस्मिन्नृत्यतः स्वान्तरात्मनि । । वार्तिका३.१०:५ । ।]

प्रेक्षकाणीन्द्रियाणि । । ३.११ । ।
[शिवसूत्रवार्तिका
प्रेक्षकाणीति संसारनाट्यप्राकट्यकृद्वपुः । । वार्तिका३.११:१ । ।
चक्षुरादीन्द्रियाण्यन्तश्चमत्कुर्वन्ति योगिनः । । वार्तिका३.११:२ । ।
इत्येवं प्रेक्षकीभूतस्वाक्षचक्रस्य योगिनः । । वार्तिका३.११:३ । ।]

धीवशात्सत्त्वसिद्धिः । । ३.१२ । ।
[शिवसूत्रवार्तिका
धीस्तात्त्विकस्वचिद्रूपविमर्शकुशला मतिः । । वार्तिका३.१२:१ । ।
तद्वशादेव सत्त्वस्य स्पन्दस्यान्तर्विवर्तिनः । । वार्तिका३.१२:२ । ।
स्फुरत्तारूपिणः सिद्धिरभिव्यक्तिः स्फुटं भवेथ् । । वार्तिका३.१२:३ । ।
एवं निजस्फुरत्तात्मसत्त्वासादनवैभवाथ् । । वार्तिका३.१२:४ । ।]

सिद्धः स्वतन्त्रभावः । । ३.१३ । ।
[शिवसूत्रवार्तिका
सिद्धः सम्पन्न एवास्य भवेत्परमयोगिनः । । वार्तिका३.१३:१ । ।
स्वतन्त्रभावः सहजज्ञत्वकर्तृत्वलक्षणः । । वार्तिका३.१३:२ । ।
स्वातन्त्र्यं वशिनो विश्वस्ववशीकरणक्षमं । । वार्तिका३.१३:३ । ।
स्वतन्त्रभाव एवास्य स्वानन्दभरितात्मनः । । वार्तिका३.१३:४ । ।]

यथा तत्र तथान्यत्र । । ३.१४ । ।
[शिवसूत्रवार्तिका
यत्र स्वाभाविके देहे स्फुटीभूता स्वतन्त्रता । । वार्तिका३.१४:१ । ।
यथा तत्र तथान्यत्र देहे भवति योगिनः । । वार्तिका३.१४:२ । ।
स्फुटीभवति युक्तस्य पूर्णाहंतास्वरूपिणी । । वार्तिका३.१४:३ । ।
न चैवं अप्युदासीनेन भाव्यं योगिनापि तु । । वार्तिका३.१४:४ । ।]

बीजावधानं । । ३.१५ । ।
[शिवसूत्रवार्तिका
स्फुरत्तात्मा परा शक्तिर्बीजं विश्वस्य कारणं । । वार्तिका३.१५:१ । ।
तत्रावधानं चित्तस्य भूयोभूयो निवेशनं । । वार्तिका३.१५:२ । ।
योगिना सावधानेन कर्तव्यं इति शिष्यते । । वार्तिका३.१५:३ । ।
एवंविधो महायोगी परशक्त्यवधानवान् । । वार्तिका३.१५:४ । ।]

आसनस्थः सुखं ह्रदे निमज्जति । । ३.१६ । ।
[शिवसूत्रवार्तिका
आस्यते स्थीयते यस्मिन्नैकात्म्येनेति चासनं । । वार्तिका३.१६:१ । ।
शाक्तं बलं यत्तत्रस्थस्तदेवान्तः परामृशन् । । वार्तिका३.१६:२ । ।
योगी परिहृतध्यानधारणादिपरिश्रमः । । वार्तिका३.१६:३ । ।
खेचर्यादिमहास्रोतोवाहप्रसरकारणे । । वार्तिका३.१६:४ । ।
स्वच्छत्वादिगुणैर्युक्ते स्वानन्दभरिते ह्रदे । । वार्तिका३.१६:५ । ।
संप्लुतेदंपदद्वीपे सम्पूर्णे संविदर्णवे । । वार्तिका३.१६:६ । ।
निरस्तसकलोपायो निमज्जति यथासुखं । । वार्तिका३.१६:७ । ।
देहादिब्रोडनेनैव तन्मयीभवति स्फुटं । । वार्तिका३.१६:८ । ।
इत्येवं आणवोपायासादितान्मोहनिर्जयाथ् । । वार्तिका३.१६:९ । ।
उन्मज्जच्छुद्धविद्यात्मशाक्तावेशप्रकर्षतः । । वार्तिका३.१६:१० । ।
आत्मीकृतपरानन्दह्रदगाढावगाहनाथ् । । वार्तिका३.१६:११ । ।
प्रस्फुरच्छाम्भवावशवैभवः साधकोत्तमः । । वार्तिका३.१६:१२ । ।]

स्वमात्रानिर्माणं आपादयति । । ३.१७ । ।
[शिवसूत्रवार्तिका
स्वस्य सम्बन्धिनी मात्रा चैतन्यस्योक्तरूपिणः । । वार्तिका३.१७:१ । ।
आश्यानता मितात्मांशो ग्राह्यग्राहकलक्षणः । । वार्तिका३.१७:२ । ।
निर्माणापादनं तस्या निर्मितत्वेन दर्शनं । । वार्तिका३.१७:३ । ।
सम्पादयति योगीन्द्रो यथेष्टं स्पष्टं इच्छया । । वार्तिका३.१७:४ । ।
एवं ईदृशशक्त्युत्थविश्वरूपस्य योगिनः । । वार्तिका३.१७:५ । ।
पुनर्जन्मादिसम्बन्धो न कश्चिदिति कथ्यते । । वार्तिका३.१७:६ । ।]

विद्याविनाशे जन्मविनाशः । । ३.१८ । ।
[शिवसूत्रवार्तिका
विद्येति सहजा तस्या अविनाशः सदोदयः । । वार्तिका३.१८:१ । ।
तेनैवाज्ञानसहकृत्तत्तत्कर्मानुषङ्गिणः । । वार्तिका३.१८:२ । ।
देहप्राणमनीषादिसमुदायस्य जन्मनः । । वार्तिका३.१८:३ । ।
विनाशो मूलविध्वंसो भवत्यस्येति शिष्यते । । वार्तिका३.१८:४ । ।
यदा तु शुद्धविद्यायाः स्वरूपं तस्य मज्जति । । वार्तिका३.१८:५ । ।
तदा तन्मोहनायैव समुत्तिष्ठन्ति शक्तयः । । वार्तिका३.१८:६ । ।]

कवर्गादिषु माहेश्वर्याद्याः पशुमातरः । । ३.१९ । ।
[शिवसूत्रवार्तिका
कवर्गादिषु तिष्ठन्त्यस्तदधिष्ठातृतां गताः । । वार्तिका३.१९:१ । ।
माहेश्वर्यादिकाः प्रोक्तकरन्ध्रचितिमध्यगाः । । वार्तिका३.१९:२ । ।
पशून्प्रमात् । ।
 आविश्य तत्तत्प्रत्ययभूमिषु । । वार्तिका३.१९:३ । ।
तत्तच्छब्दानुवेधेन मोहनात्पशुमातरः । । वार्तिका३.१९:४ । ।
आवृण्वाना निजं रूपं चिदानन्दघनात्मकं । । वार्तिका३.१९:५ । ।
अतिमानं विवृण्वानाः शरीरादौ जडेऽपि च । । वार्तिका३.१९:६ । ।
पशुवत्साधकं अपि प्रमत्तं मोहयन्त्यमूः । । वार्तिका३.१९:७ । ।
तस्माद्भाव्यं सदानेन सावधानेन योगिना । । वार्तिका३.१९:८ । ।
उक्तं सामान्यतो ज्ञानाधिष्ठानं मातृकेत्यतः । । वार्तिका३.१९:९ । ।
इदं तु प्राप्ततत्त्वोऽपि प्रमाद्यन्साधकः पुनः । । वार्तिका३.१९:१० । ।
पश्वधिष्ठानभूताभिर्मोह्यते मातृभिस्त्विति । । वार्तिका३.१९:११ । ।
यत एवं अतः शुद्धविद्या प्राप्तापि युक्तिभिः । । वार्तिका३.१९:१२ । ।
बह्वीभिः सा पुनर्मौढ्याद्यथास्य न विनश्यति । । वार्तिका३.१९:१३ । ।
तथा सर्वास्ववस्थासु युक्तो भूयादितीर्यते । । वार्तिका३.१९:१४ । ।]

त्रिषु चतुर्थं तैलवदासेच्यं । । ३.२० । ।
[शिवसूत्रवार्तिका
त्रिष्विति प्रोक्तरूपेषु जागरादिषु तैलवथ् । । वार्तिका३.२०:१ । ।
चतुर्थं इति पूर्वोक्तं शुद्धविद्याप्रथात्मकं । । वार्तिका३.२०:२ । ।
तुर्यं धाम सदासेच्यं यथा स्यात्तन्मयं त्रयं । । वार्तिका३.२०:३ । ।
यथा तैलं क्रमात्स्वीयं आश्रयं व्याप्नुयात्तथा । । वार्तिका३.२०:४ । ।
आद्यन्तकोट्योः स्फुरता जागरादेः परिस्फुटं । । वार्तिका३.२०:५ । ।
तुर्यानन्दरसेनार्द्रीकुर्यान्मध्यदशां अपि । । वार्तिका३.२०:६ । ।
जाग्रदित्यादिसूत्रेण पूर्वं उद्यमवत्तया । । वार्तिका३.२०:७ । ।
शक्तिचक्रानुसंधानशालिनः परयोगिनः । । वार्तिका३.२०:८ । ।
स्वरसप्रसरज्जाग्रत्स्वप्नसौषुप्तभूमिषु । । वार्तिका३.२०:९ । ।
उदीरितः स्वतोनिर्यत्तुर्यप्रसरसम्भवः । । वार्तिका३.२०:१० । ।
त्रितयेत्यादिसूत्रेण शाम्भवोपायसाधिताथ् । । वार्तिका३.२०:११ । ।
हठपाकक्रमाज्जाग्रत्स्वप्नसौषुप्तसंहृतिः । । वार्तिका३.२०:१२ । ।
दर्शितानेन सूत्रेण त्वाणवोपाययुक्तितः । । वार्तिका३.२०:१३ । ।
दलकल्पतयास्थायि जाग्रदादिपदत्रयं । । वार्तिका३.२०:१४ । ।
सिञ्चेत्तुर्यरसेनेति विशेषः समुदीरितः । । वार्तिका३.२०:१५ । ।
अत्रोपायं पुनश्चाह तुर्यामृतनिषेचने । । वार्तिका३.२०:१६ । ।]

मग्नः स्वचित्तेन प्रविशेथ् । । ३.२१ । ।
[शिवसूत्रवार्तिका
प्राणायामादिकं त्यक्त्वा स्थूलोपायं विकल्पकं । । वार्तिका३.२१:१ । ।
अविकल्पकरूपेण स्वचित्तेन स्वसंविदा । । वार्तिका३.२१:२ । ।
अन्तर्मुखपरामर्शचमत्काररसात्मना । । वार्तिका३.२१:३ । ।
मग्नस्तुर्यरसेनात्र स्वदेहादिप्रमातृतां । । वार्तिका३.२१:४ । ।
मज्जनेन प्रशमयन्प्रविशेत्तत्समाविशेथ् । । वार्तिका३.२१:५ । ।
इत्थं परपदाविष्टबुद्धेर्वस्तुस्वभावतः । । वार्तिका३.२१:६ । ।
यदा भूयः प्रसरणं योगिनो जायते तदा । । वार्तिका३.२१:७ । ।]

प्राणसमाचारे समदर्शनं । । ३.२२ । ।
[शिवसूत्रवार्तिका
प्राणस्य प्रस्फुरच्छाक्तसौरभावेशसंस्कृतः । । वार्तिका३.२२:१ । ।
सम्यग्विकसिताशेषग्रन्थ्यवष्टम्भधीबलाथ् । । वार्तिका३.२२:२ । ।
ईषद्बहिर्मन्दमन्दं चारे प्रसरणे सति । । वार्तिका३.२२:३ । ।
समं चिन्मुद्घनात्मत्वात्सर्वदाभेददर्शनं । । वार्तिका३.२२:४ । ।
संवेदनं भवत्यर्थात्सर्वावस्थासु योगिनः । । वार्तिका३.२२:५ । ।
तुर्यावष्टम्भतो लभ्यं तुर्यातीतं अनामृशन् । । वार्तिका३.२२:६ । ।
पूर्वापरात्मनोः कोट्योः संवेद्ये तुर्यमात्रके । । वार्तिका३.२२:७ । ।
आस्ते योगी तदामुष्य तावन्मात्रेण तुष्यतः । । वार्तिका३.२२:८ । ।]

मध्येऽवरप्रसवः । । ३.२३ । ।
[शिवसूत्रवार्तिका
पूर्वस्यां अपरस्यां च कोटौ तुर्यनिषेविणः । । वार्तिका३.२३:१ । ।
अवधानेऽवलिप्तस्य कदाचित्तस्य योगिनः । । वार्तिका३.२३:२ । ।
मध्यायां अवरोऽश्रेष्ठः कुत्सितः सर्ग आपतेथ् । । वार्तिका३.२३:३ । ।
व्युत्थानात्मा ततो योगी सावधानः सदा भवेथ् । । वार्तिका३.२३:४ । ।
अवरप्रसवे वृत्ते ह्येवं मध्यपदे पुनः । । वार्तिका३.२३:५ । ।
तुर्यावष्टम्भरसतस्तुर्यातीतं परामृशेथ् । । वार्तिका३.२३:६ । ।]

मात्रास्वप्रत्ययसंधाने नष्टस्य पुनरुत्थानं । । ३.२४ । ।
[शिवसूत्रवार्तिका
मात्राः पदार्थाः रूपाद्यास्तास्वेभिश्चक्षुरादिभिः । । वार्तिका३.२४:१ । ।
अक्षैः स्वप्रत्ययो नाम तत्तत्स्वग्राह्यवेदनं । । वार्तिका३.२४:२ । ।
संधानं तु समस्तं तदहं इत्यनुसंहितिः । । वार्तिका३.२४:३ । ।
अमुष्मिन्सति नष्टाय हारितस्योक्तवर्गतः । । वार्तिका३.२४:४ । ।
तुर्यस्य पुनरुत्थानं भूय उन्मज्जनं भवेथ् । । वार्तिका३.२४:५ । ।
तदैक्यसम्पत्पूर्णत्वं योगीन्द्रस्येति शिष्यते । । वार्तिका३.२४:६ । ।
एवं उद्यत्समावेशप्रकर्षः साधकर्षभः । । वार्तिका३.२४:७ । ।]

शिवतुल्यो जायते । । ३.२५ । ।
[शिवसूत्रवार्तिका
तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदं । । वार्तिका३.२५:१ । ।
सम्प्राप्तः साधकः साक्षात्सर्वलोकान्तरात्मना । । वार्तिका३.२५:२ । ।
शिवेन चिन्मयस्वच्छस्वच्छदानन्दशालिना । । वार्तिका३.२५:३ । ।
तुल्योऽविगलनाद्देहकलाया गलने शिवः । । वार्तिका३.२५:४ । ।
अर्जितं दीक्षया दग्धं भविष्यन्ति यमादिभिः । । वार्तिका३.२५:५ । ।
येनेदं साधितं यत्र तद्भुक्त्या विनिवर्तते । । वार्तिका३.२५:६ । ।
अनेकभाविकं कर्म दग्धं बीजं इवाग्निना । । वार्तिका३.२५:७ । ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः । । वार्तिका३.२५:८ । ।
इत्युक्तनीत्या प्रारब्धप्राप्तभोगोपभोगभूः । । वार्तिका३.२५:९ । ।
कलेवरस्थितिस्तस्य कर्तव्येत्युपदिश्यते । । वार्तिका३.२५:१० । ।]

शरीरवृत्तिर्व्रतं । । ३.२६ । ।
[शिवसूत्रवार्तिका
एवं पूर्वोक्तया नीत्या शिवतुल्यस्य योगिनः । । वार्तिका३.२६:१ । ।
शश्वच्छिवात्मकस्वात्मसपर्यातत्परात्मनः । । वार्तिका३.२६:२ । ।
अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितं । । वार्तिका३.२६:३ । ।
भवत्पूजोपयोगाय शरीरं इदं अस्तु मे । । वार्तिका३.२६:४ । ।
इति लोकोत्तरश्रीमदुत्पलप्रोक्तया दिशा । । वार्तिका३.२६:५ । ।
शिवभक्तिसुधापूर्णे शरीरे वृत्तिरस्य या । । वार्तिका३.२६:६ । ।
व्रतं एतदनुष्ठेयं न तुच्छं तस्य धारणं । । वार्तिका३.२६:७ । ।
एवंविधस्य तस्यास्य या या स्वालापरूपिणी । । वार्तिका३.२६:८ । ।]

कथा जपः । । ३.२७ । ।
[शिवसूत्रवार्तिका
महामन्त्रमयं न्ॐइ रूपं ते स्वच्छशीतलं । । वार्तिका३.२७:१ । ।
अपूर्वामोदसुभगं परामृतरसोल्वणं । । वार्तिका३.२७:२ । ।
इति श्रीप्रत्यभिज्ञाकृद्दैशिकप्रोक्तया दिशा । । वार्तिका३.२७:३ । ।
अकृत्रिमाहमामर्शमयस्वात्मावमर्शिनः । । वार्तिका३.२७:४ । ।
या या स्वैराभिलापात्मा कथा याथार्थ्यवादिनः । । वार्तिका३.२७:५ । ।
भूयोभूयः परे भावे भावना भाव्यते हि या । । वार्तिका३.२७:६ । ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः । । वार्तिका३.२७:७ । ।
षट्शतानि दिवारात्रं सहस्राण्येकविंशतिः । । वार्तिका३.२७:८ । ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः । । वार्तिका३.२७:९ । ।
इत्युक्तनीत्या सा सर्वस्वात्मेशामर्शसम्पदः । । वार्तिका३.२७:१० । ।
जनिपालनधर्मत्वाज्जप इत्यभिधीयते । । वार्तिका३.२७:११ । ।
अथेदृग्विधयोगीन्द्रविषयापि च या कथा । । वार्तिका३.२७:१२ । ।
जपः सोऽपि जनस्योक्तो जनिपालनयोगतः । । वार्तिका३.२७:१३ । ।
अथ चास्योच्यते चर्या मर्यादानुविधायिनी । । वार्तिका३.२७:१४ । ।]

दानं आत्मज्ञानं । । ३.२८ । ।
[शिवसूत्रवार्तिका
प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः । । वार्तिका३.२८:१ । ।
यत्तज्ज्ञानं तदेवास्य दानं यत्नेन दीयते । । वार्तिका३.२८:२ । ।
परिपूर्णं स्वरूपं स्वं दीयते खण्ड्यते भिदा । । वार्तिका३.२८:३ । ।
दायते शोध्यते रूपं आत्मीयं दीयते पुनः । । वार्तिका३.२८:४ । ।
रक्ष्यते प्रत्यभिज्ञातः शिवात्मा स्वस्वभावता । । वार्तिका३.२८:५ । ।
दीयते चेति यत्नेन स्वात्मज्ञानं अनुत्तरं । । वार्तिका३.२८:६ । ।
कृपया स्वात्मशिष्येभ्यस्तदनेनैव दीयते । । वार्तिका३.२८:७ । ।
एवं सम्यग्व्रतं प्रोक्तं जपं चर्या च पालयन् । । वार्तिका३.२८:८ । ।
शिवतुल्यः सदा स्वात्मशिवाराधनतत्परः । । वार्तिका३.२८:९ । ।
अयं एव महायोगी महामन्त्रधुरंधरः । । वार्तिका३.२८:१० । ।
अन्तेवासिजनस्यान्तस्तत्त्वतस्तत्त्वबोधकः । । वार्तिका३.२८:११ । ।
इत्याह भगवानीशो नित्यानुग्रहकारकः । । वार्तिका३.२८:१२ । ।]

योऽविपस्थो ज्ञाहेतुश्च । । ३.२९ । ।
[शिवसूत्रवार्तिका
अवीन्पशुजनान्पातीत्यविपं शक्तिमण्डलं । । वार्तिका३.२९:१ । ।
माहेश्वर्यादिकं प्रोक्तं कवर्गाद्यधिदैवतं । । वार्तिका३.२९:२ । ।
अधितिष्ठति यः स्वैरं अविपस्थः स उच्यते । । वार्तिका३.२९:३ । ।
जानातीत्यखिलं तत्ज्ञा ज्ञानशक्तिरुदीर्यते । । वार्तिका३.२९:४ । ।
तस्या हेतुस्तया शिष्यान्प्रतिबोधयितुं क्षमः । । वार्तिका३.२९:५ । ।
अन्यस्तु शक्तिचक्रेण परतन्त्रीकृतत्वतः । । वार्तिका३.२९:६ । ।
स्वात्मन्येवासमर्थः सन्कथं अन्यान्प्रबोधयेथ् । । वार्तिका३.२९:७ । ।
यच्छब्दापेक्षया सूत्रे तच्छब्दोऽध्याहृतः स्वयं । । वार्तिका३.२९:८ । ।
चशब्दो ह्यर्थवाच्यत्र यस्माज्ज्ञानप्रबोधने । । वार्तिका३.२९:९ । ।
योगी हेतुस्ततो दानं आत्मज्ञानं इतीरितं । । वार्तिका३.२९:१० । ।
इत्येवं अविपस्थस्य ज्ञाहेतोरस्य योगिनः । । वार्तिका३.२९:११ । ।]

स्वशक्तिप्रचयो विश्वं । । ३.३० । ।
[शिवसूत्रवार्तिका
शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः । । वार्तिका३.३०:१ । ।
इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा । । वार्तिका३.३०:२ । ।
शिवस्य तत्समस्यापि तथास्य परयोगिनः । । वार्तिका३.३०:३ । ।
स्वस्याः स्वात्माविमुक्तायाः शक्तेः संवेदनात्मनः । । वार्तिका३.३०:४ । ।
प्रचयः स्फुरणारूपो विकासो विश्वं इष्यते । । वार्तिका३.३०:५ । ।
न परं सृष्ट्यवस्थायां अमुष्य परयोगिनः । । वार्तिका३.३०:६ । ।
स्वशक्तिप्रचयो विश्वं यावत्तत्पृष्ठपातिनौ । । वार्तिका३.३०:७ । ।]

स्थितिलयौ । । ३.३१ । ।
[शिवसूत्रवार्तिका
स्वशक्तिप्रचयौ प्रोक्तौ तावपीत्यनुवर्तते । । वार्तिका३.३१:१ । ।
विकासितस्य विश्वस्य क्रियामय्या स्वसंविदा । । वार्तिका३.३१:२ । ।
तत्तत्प्रमात्रपेक्षातः किंचित्कालं इदंतया । । वार्तिका३.३१:३ । ।
या स्थितिश्चिन्मयाहंताविश्रान्त्यात्मा च यो लयः । । वार्तिका३.३१:४ । ।
तावुभौ योगिनस्तस्य स्वशक्तिप्रचयात्मकौ । । वार्तिका३.३१:५ । ।
विकसत्संकुचत्सर्वं वेद्यं यत्संविदात्मकं । । वार्तिका३.३१:६ । ।
अन्यथा तस्य वेद्यस्य वेदनानुपपत्तितः । । वार्तिका३.३१:७ । ।
ननु सृष्टिस्थितिध्वंसेष्वेवं अन्योन्यभेदिषु । । वार्तिका३.३१:८ । ।
अन्यथात्वं समायातं स्वस्वरूपस्य योगिनः । । वार्तिका३.३१:९ । ।
इत्याशङ्कानिवृत्त्यर्थं सूत्रं आह महेश्वरः । । वार्तिका३.३१:१० । ।]

तत्प्रवृत्तावप्यनिरासः संवेत्तृभावाथ् । । ३.३२ । ।
[शिवसूत्रवार्तिका
तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतं । । वार्तिका३.३२:१ । ।
उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः । । वार्तिका३.३२:२ । ।
अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितं । । वार्तिका३.३२:३ । ।
कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयं । । वार्तिका३.३२:४ । ।
कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । । वार्तिका३.३२:५ । ।
तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते । । वार्तिका३.३२:६ । ।
न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदं । । वार्तिका३.३२:७ । ।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनाथ् । । वार्तिका३.३२:८ । ।
इति श्रीस्पन्दशास्त्रोक्तनीत्या तस्यास्य योगिनः । । वार्तिका३.३२:९ । ।
अनिरासः स्वसंवेत्तृभावादप्रच्युतिर्निजाथ् । । वार्तिका३.३२:१० । ।
उद्यत्तुर्यचमत्कारादुपलब्धृस्वभावतः । । वार्तिका३.३२:११ । ।
निरासे तस्य सृष्ट्यादेः सृज्यस्याप्यप्रकाशनाथ् । । वार्तिका३.३२:१२ । ।
विश्वसृष्टिस्थितिध्वंसेष्वप्रकम्पस्य योगिनः । । वार्तिका३.३२:१३ । ।]

सुखासुखयोर्बहिर्मननं । । ३.३३ । ।
[शिवसूत्रवार्तिका
उत्तीर्णदेहप्राणादिप्रमातृत्वस्य धीमतः । । वार्तिका३.३३:१ । ।
वेद्यस्पर्शजयोस्तस्य मननं सुखदुःखयोः । । वार्तिका३.३३:२ । ।
इदंताभासरूपेण नीलपीतादिवद्बहिः । । वार्तिका३.३३:३ । ।
अहं सुखीति दुःखीति लोकवन्न त्वहंतया । । वार्तिका३.३३:४ । ।
स्वशक्तिप्रचयो विश्वं इति सूत्रार्थनीतितः । । वार्तिका३.३३:५ । ।
अहंताच्छादितत्वेन सर्वं अस्य प्रकाशते । । वार्तिका३.३३:६ । ।
योगिनो लौकिकस्येव सुखाद्येव न केवलं । । वार्तिका३.३३:७ । ।
अतिक्रान्तमहामोहाक्रान्तदेहाद्यहंकृतिः । । वार्तिका३.३३:८ । ।
लोकवत्सुखदुःखाभ्यां कथं स्पृश्येत योगिराठ् । । वार्तिका३.३३:९ । ।
उदञ्चच्चित्प्रमातृत्वन्यञ्चत्पुर्यष्टकस्थितेः । । वार्तिका३.३३:१० । ।
यतो न तत्सुखाद्यन्तस्तत एवैष साधकः । । वार्तिका३.३३:११ । ।]

तद्विमुक्तस्तु केवली । । ३.३४ । ।
[शिवसूत्रवार्तिका
ताभ्यां मुक्तो विशेषेण योगीन्द्रो यत्तयोर्यतः । । वार्तिका३.३४:१ । ।
संस्कारेणाप्यसंस्पृष्टः केवली चिन्मयः स्मृतः । । वार्तिका३.३४:२ । ।
तुशब्दोऽन्तरं आख्याति वक्ष्यमाणव्यपेक्षया । । वार्तिका३.३४:३ । ।
एवं उत्तरसूत्रस्थोऽप्येतत्सूत्रव्यपेक्षया । । वार्तिका३.३४:४ । ।
तदेवाह तुशब्दोक्तं अन्तरं चन्द्रशेखरः । । वार्तिका३.३४:५ । ।]

मोहप्रतिसंहतस्तु कर्मात्मा । । ३.३५ । ।
[शिवसूत्रवार्तिका
मोहः स्वाख्यातिरज्ञानं तेन यः प्रतिसंहतः । । वार्तिका३.३५:१ । ।
तदेकघनतां प्राप्तस्ततो दुःखाद्युपाश्रयः । । वार्तिका३.३५:२ । ।
तत एव स कर्मात्मा शुभाशुभकलङ्कितः । । वार्तिका३.३५:३ । ।
तस्यैवं ईदृशस्यापि तत्तत्कर्मात्मनो यदा । । वार्तिका३.३५:४ । ।
अनर्गलमहेशानशक्तिपातात्समुन्मिषन् । । वार्तिका३.३५:५ । ।
स्वातन्त्र्ययोगः सहजः प्रादुरस्ति तदास्य तु । । वार्तिका३.३५:६ । ।]

भेदतिरस्कारे सर्गान्तरकर्मत्वं । । ३.३६ । ।
[शिवसूत्रवार्तिका
भेदस्य देहप्राणादिमिताहंकृतिजन्मनः । । वार्तिका३.३६:१ । ।
कलादिवलितभ्रान्तसकलाद्युचितात्मनः । । वार्तिका३.३६:२ । ।
तिरस्कारे स्थितस्यापि स्वोन्मेषादपहस्तने । । वार्तिका३.३६:३ । ।
मन्त्रमन्त्रेशतादात्म्यस्वमाहात्म्यप्रकाशनाथ् । । वार्तिका३.३६:४ । ।
स्यात्सर्गान्तरकर्मत्वं अमुष्य परयोगिनः । । वार्तिका३.३६:५ । ।
यथाभिलाषनिर्मेयनिर्मातृत्वं स्फुटं भवेथ् । । वार्तिका३.३६:६ । ।
न चैतदप्यसंभाव्यं स्रष्टृत्वं योगिनो यतः । । वार्तिका३.३६:७ । ।]

करणशक्तिः स्वतोऽनुभवाथ् । । ३.३७ । ।
[शिवसूत्रवार्तिका
स्वतः स्वस्मादनुभवात्स्वप्नसंकल्पनादिषु । । वार्तिका३.३७:१ । ।
करणं निजसंवेद्यग्राह्यग्राहकनिर्मितिः । । वार्तिका३.३७:२ । ।
शक्तिस्तत्कर्तृतोन्मेषः स्वसंवित्त्यैव सिध्यति । । वार्तिका३.३७:३ । ।
सम्भवन्तीं तथा सृष्टिं यदि दार्ढ्येन भावयेथ् । । वार्तिका३.३७:४ । ।
सर्वसाधारणाशेषनिर्मितिश्च भवेत्तदा । । वार्तिका३.३७:५ । ।
यतः करणशक्त्यात्र शक्तिः स्वातन्त्र्यरूपिणी । । वार्तिका३.३७:६ । ।
प्रमातुर्बोधरूपस्य सारं तस्मात्स्वमायया । । वार्तिका३.३७:७ । ।
तिरोहितायाः स्वातन्त्र्यशक्तेरुत्तेजनं प्रति । । वार्तिका३.३७:८ । ।]

त्रिपदाद्यनुप्राणनं । । ३.३८ । ।
[शिवसूत्रवार्तिका
त्रिपदं जागरास्वप्नसौषुप्तानां अनुक्रमाथ् । । वार्तिका३.३८:१ । ।
प्रत्येकं आदिमध्यान्तरूपं भङ्ग्या निरूपितं । । वार्तिका३.३८:२ । ।
भावौन्मुख्यतदासक्तितदेकीकरणात्मकं । । वार्तिका३.३८:३ । ।
सृष्टिस्थितिलयाकारं तुर्येणैव तदादिना । । वार्तिका३.३८:४ । ।
तत्त्रयान्तश्चमत्काररसानन्दघनात्मना । । वार्तिका३.३८:५ । ।
माययाच्छादितेनापि तिरोधानस्वरूपया । । वार्तिका३.३८:६ । ।
तत्तद्विषयभोगेषु विद्युद्वत्स्फुरता क्षणं । । वार्तिका३.३८:७ । ।
अनुप्राणनं आदध्यादवधानेन साधकः । । वार्तिका३.३८:८ । ।
तेनैव जीवितेनापि जीवितस्य निजात्मनः । । वार्तिका३.३८:९ । ।
सम्यगुत्तेजनं कुर्याद्येनासौ तन्मयो भवेथ् । । वार्तिका३.३८:१० । ।
तुर्यानुप्राणनं प्रोक्तं जागरादौ पुरा त्रिषु । । वार्तिका३.३८:११ । ।
चतुर्थं इति सूत्रेण त्रिपदेत्यादिनामुना । । वार्तिका३.३८:१२ । ।
जागराद्यादिमध्यान्तपर्वस्विति विशिष्यते । । वार्तिका३.३८:१३ । ।
अन्तर्मुखस्वरूपायां अवस्थायां न केवलं । । वार्तिका३.३८:१४ । ।
त्रिपदादिप्राणनं इत्येतदुक्तं अथापि तु । । वार्तिका३.३८:१५ । ।]

चित्तस्थितिवच्छरीरकरणबाह्येषु । । ३.३९ । ।
[शिवसूत्रवार्तिका
अनुप्राणनं इत्येतदादद्यादिति शिष्यते । । वार्तिका३.३९:१ । ।
अन्तर्मुखस्वरूपायां यथा चित्तस्थितौ तथा । । वार्तिका३.३९:२ । ।
अनुप्राणनमुक्तेन तुर्येणानन्दरूपिणा । । वार्तिका३.३९:३ । ।
कुर्याद्बहिर्मुखत्वेऽपि देहाक्षविषयात्मनि । । वार्तिका३.३९:४ । ।
तन्मयं भवतीत्यर्थात्तदा सर्वं चराचरं । । वार्तिका३.३९:५ । ।
एवं स्वानन्दरूपास्य शक्तिः स्वातन्त्र्यलक्षणा । । वार्तिका३.३९:६ । ।
यथेष्टभावनिर्माणकारिणी भवति स्फुटं । । वार्तिका३.३९:७ । ।
यदा पुनरसौ योगी प्रोक्तां तुर्यात्मिकां दशां । । वार्तिका३.३९:८ । ।
आन्तरीं नामृशत्यन्तस्तदा देहाद्यहंकृतेः । । वार्तिका३.३९:९ । ।
अपूर्णमन्यतारूपादस्याणवमलात्मनः । । वार्तिका३.३९:१० । ।]

अभिलापाद्बहिर्गतिः संवाह्यस्य । । ३.४० । ।
[शिवसूत्रवार्तिका
तत्त्वैः शक्तिगणाक्रान्तैर्धरण्यन्तैः कलादिभिः । । वार्तिका३.४०:१ । ।
योनेर्योन्यन्तरं नेयः संवाह्यः पशुरुच्यते । । वार्तिका३.४०:२ । ।
तस्याणवमलाकारात्तत्तत्कर्मानुसारिणः । । वार्तिका३.४०:३ । ।
अपूर्णमन्यतारूपादभिलाषाद्बहिर्गतिः । । वार्तिका३.४०:४ । ।
विषयोन्मुखतैवास्य नान्तस्तत्त्वानुसंहितिः । । वार्तिका३.४०:५ । ।
यदा पुनर्महेशानशक्तिपातवशोन्मिषथ् । । वार्तिका३.४०:६ । ।
आत्मीयं एव विमृशन्नास्ते रूपं तदास्य तु । । वार्तिका३.४०:७ । ।
अभावादभिलाषस्य न बहिर्गतिरापतेथ् । । वार्तिका३.४०:८ । ।
अपि तूक्तचरस्वात्मारामतैवेति कथ्यते । । वार्तिका३.४०:९ । ।]

तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः । । ३.४१ । ।
[शिवसूत्रवार्तिका
तदित्युक्तचरे धाम्नि संवेत्तृत्वस्वरूपिणि । । वार्तिका३.४१:१ । ।
आरूढा प्रमितिः संवित्तद्विमर्शनतत्परा । । वार्तिका३.४१:२ । ।
यस्य तस्यास्य तदिति प्रोक्ताणवमलात्मनः । । वार्तिका३.४१:३ । ।
अभिलापस्य रूढस्य क्षयाज्जीवस्य संक्षयः । । वार्तिका३.४१:४ । ।
पुर्यष्टकस्वभावस्य प्रशमस्तत्त्वतो भवेथ् । । वार्तिका३.४१:५ । ।
प्राप्नोति देहपातोऽस्य नन्वेवं जीवसंक्षये । । वार्तिका३.४१:६ । ।
नासौ कदापि कस्यापि दृश्यतेऽत्रापि योगिनः । । वार्तिका३.४१:७ । ।
तस्मात्कथं तदारूढप्रमितिः साधको भवेथ् । । वार्तिका३.४१:८ । ।
इत्याशङ्क्योत्तरं वक्ति भगवान्विश्वदैशिकः । । वार्तिका३.४१:९ । ।]

भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः । । ३.४२ । ।
[शिवसूत्रवार्तिका
तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये । । वार्तिका३.४२:१ । ।
पुर्यष्टकप्रमातृत्वाभिमानगलनेऽप्यसौ । । वार्तिका३.४२:२ । ।
देहारम्भकरैर्भूतैरस्पृशद्भिरहंपदं । । वार्तिका३.४२:३ । ।
कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः । । वार्तिका३.४२:४ । ।
भूयो बाहुल्यतः पत्या समोऽयं परमेशिना । । वार्तिका३.४२:५ । ।
तत्स्वरूपसमाविष्टचिदानन्दघनात्मकः । । वार्तिका३.४२:६ । ।
तत एव परः पूर्णः सम्यक्तन्मयतां गतः । । वार्तिका३.४२:७ । ।
भूतकञ्चुकिताप्यस्य तदैव न निवर्तते । । वार्तिका३.४२:८ । ।
कस्मादित्यपि शङ्कायां उत्तरं वक्ति शंकरः । । वार्तिका३.४२:९ । ।]

नैसर्गिकः प्राणसम्बन्धः । । ३.४३ । ।
[शिवसूत्रवार्तिका
प्राणे परिणता संवित्प्रागिति प्रोक्तया दिशा । । वार्तिका३.४३:१ । ।
निसर्गात्सहजात्स्वस्य स्वातन्त्र्यादनिवारिताथ् । । वार्तिका३.४३:२ । ।
चञ्चत्प्रपञ्चवैचित्र्यप्रकर्षकरणेच्छया । । वार्तिका३.४३:३ । ।
संकोचं परिगृह्णाना संविद्भगवती स्वयं । । वार्तिका३.४३:४ । ।
प्राप्नोति संकुचत्तत्तत्प्राणग्राहकभूमिकाः । । वार्तिका३.४३:५ । ।
उक्तं अर्थं दृढीकर्तुं संवादः सोऽयं अत्र तु । । वार्तिका३.४३:६ । ।
या सा शक्तिः परा सूक्ष्मा व्यापिनी निर्मला शिवा । । वार्तिका३.४३:७ । ।
शक्तिचक्रस्य जननी परानन्दामृतात्मिका । । वार्तिका३.४३:८ । ।
महाघोरेश्वरी चण्डा सृष्टिसंहारकारिका । । वार्तिका३.४३:९ । ।
त्रिवहं त्रिविधं त्रिष्ठं बलात्कालं प्रकर्षति । । वार्तिका३.४३:१० । ।
इति वाजसनेयायां इयं एव चितिः परा । । वार्तिका३.४३:११ । ।
स्वातन्त्र्येणावरुह्य प्राक्प्राणरूपे प्रमातरि । । वार्तिका३.४३:१२ । ।
चन्द्रभास्करवह्न्यात्मनाडीत्रितयवाहिनं । । वार्तिका३.४३:१३ । ।
अन्तर्बहिर्विशन्निर्यन्निश्वासोच्छ्वासलक्षणं । । वार्तिका३.४३:१४ । ।
अतीतवर्तमानादित्रिविधं कालं आत्मनि । । वार्तिका३.४३:१५ । ।
कर्षन्त्यन्तर्बहिश्चेति कथ्यते कालकर्षिणी । । वार्तिका३.४३:१६ । ।
ततो नैसर्गिकस्तस्याः प्राणसम्बन्ध आगतः । । वार्तिका३.४३:१७ । ।
स्थितेऽपि प्राणसम्बन्धे यस्तदारूढ आन्तरीं । । वार्तिका३.४३:१८ । ।
संविदं विमृशन्नास्ते स लोकोत्तरतां व्रजेथ् । । वार्तिका३.४३:१९ । ।
इत्युपायोपसंहारमुखेनाह महेश्वरः । । वार्तिका३.४३:२० । ।]

नासिकान्तर्मध्यसंयमात्किं अत्र सव्यापसव्यसौषुम्नेषु । । ३.४४ । ।
[शिवसूत्रवार्तिका
नेत्रादिरोमरन्ध्रान्तनाडीनां निविडात्मनां । । वार्तिका३.४४:१ । ।
सर्वासां मुख्यभूतेषु सर्वावष्टम्भदायिषु । । वार्तिका३.४४:२ । ।
सव्यापसव्यसौषुम्ननाडीमार्गेषु सर्वदा । । वार्तिका३.४४:३ । ।
नाडीनां नासिका प्राणशक्तिः कुटिलवाहिनी । । वार्तिका३.४४:४ । ।
अन्तरित्यान्तरी संवित्तत्स्वरूपस्य यत्पुनः । । वार्तिका३.४४:५ । ।
मध्यं सर्वान्तरत्वेन प्रधानं विश्वभित्तिकं । । वार्तिका३.४४:६ । ।
परामर्शमयं रूपं उत्तीर्णं तस्य संयमाथ् । । वार्तिका३.४४:७ । ।
निभालनप्रकर्षोत्थात्स्वात्मबुद्धिविमर्शनाथ् । । वार्तिका३.४४:८ । ।
किं अत्र संयमे वाच्यं इयं एव समाहितिः । । वार्तिका३.४४:९ । ।
देदीप्यमाना सर्वासु दशास्वन्तर्निरन्तरं । । वार्तिका३.४४:१० । ।
निर्व्युत्थानावधानेन योगिनैवानुभूयते । । वार्तिका३.४४:११ । ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । । वार्तिका३.४४:१२ । ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । । वार्तिका३.४४:१३ । ।
इति श्रीभगवद्गीताप्रोक्तनीत्यनुसारतः । । वार्तिका३.४४:१४ । ।
विश्वोत्तीर्णनिजाहंतासमावेशितचेतसः । । वार्तिका३.४४:१५ । ।
पर्यन्ते योगिनो योगफलं सम्यक्प्रदर्शयन् । । वार्तिका३.४४:१६ । ।
उपसंहरति श्रीमानुक्तं प्रकरणं शिवः । । वार्तिका३.४४:१७ । ।]

भूयः स्यात्प्रतिमीलनं । । ३.४५ । ।
[शिवसूत्रवार्तिका
पुनश्च प्रोक्तचैतन्यस्वरूपोन्मीलनात्मकं । । वार्तिका३.४५:१ । ।
परयोगाधिरूढस्य भवेत्परमयोगिनः । । वार्तिका३.४५:२ । ।
भूयः स्यादिति वाक्यस्य स्फुटं एवायं आशयः । । वार्तिका३.४५:३ । ।
यच्छिवत्वं अमुष्योक्तं नापूर्वं तत्तु योगिनः । । वार्तिका३.४५:४ । ।
स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्निजाथ् । । वार्तिका३.४५:५ । ।
नायं विकल्पदौरात्म्याद्भासमानं अपि स्वतः । । वार्तिका३.४५:६ । ।
विम्रष्टुं क्षम इत्यस्य प्रोक्तोपायक्रमेण तथ् । । वार्तिका३.४५:७ । ।
शिवत्वं व्यक्तिं एतीति शिवेनोदीरितं शिवं । । वार्तिका३.४५:८ । ।
इत्युन्मेषस्तृतीयोऽयं आणवोपायसूचकः । । वार्तिका३.४५:९ । ।
इति श्रीशिवसूत्राणां रहस्यार्थोपबृंहितं । । वार्तिका३.४५:१० । ।
प्रागुक्तवार्त्तिकांशेन सहितं वार्त्तिकान्तरं । । वार्तिका३.४५:११ । ।
अखण्डसंवित्साम्राज्ययौवराज्याधिकारिणां । । वार्तिका३.४५:१२ । ।
पराक्रमहठाक्रान्तषट्त्रिंशत्तत्त्वसम्पदां । । वार्तिका३.४५:१३ । ।
मधुराजकुमाराणां महाहंताधिरोहिणां । । वार्तिका३.४५:१४ । ।
पश्चिमेन तदालोकध्वस्तपश्चिमजन्मना । । वार्तिका३.४५:१५ । ।
मया वरदराजेन मायामोहापसारकं । । वार्तिका३.४५:१६ । ।
श्रीक्षेमराजनिर्णीतव्याख्यानाध्वानुसारिणा । । वार्तिका३.४५:१७ । ।
कृतिना कृष्णदासेन व्यञ्जितं कृपयाञ्जसा । । वार्तिका३.४५:१८ । ।
अनुगृह्णन्तु नामैतत्सन्तः संतोषं आगताः । । वार्तिका३.४५:१९ । ।]

"https://sa.wikisource.org/w/index.php?title=शिवसूत्रवार्तिका&oldid=332465" इत्यस्माद् प्रतिप्राप्तम्