शिवस्तुतिः (अन्धकविरचिता)

शिवस्तुतिः
अन्धकविः
१९५३

॥ शिवस्तुतिः॥



   नमोस्तु ते भैरव भीममूर्ते त्रैलोक्यगोप्त्रे शितशूल-
पाणे । कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि
विपन्नबुद्धिंं॥ १
   जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ।
त्रैलोक्यमातर्गुरवे वृषाङ्कभीतश्शरण्यंशरणागतोस्मि ॥ २
   त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणु-
ममर्षिताश्च । भीमं च यक्षा मनुजा महेश्वरं भूतानि
भूताधिपमुञ्चरन्ति ॥ ३
   निशाचरास्तूगस्त्रिपाचरन्ति भवेति पुण्याः पितरो
नमस्ते । दासोस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे
कुरु लोकनाथ ॥ ४
   भवांस्त्रिदेवस्त्रियुगस्त्रिधर्मा त्रिपुष्करश्चासि विभो
त्रिनेत्र । त्रयारुणिस्त्वं श्रुतिरव्ययात्मा पुनीहि मां
त्वां शरणं गतोऽस्मि ॥ ५

   त्रिणाचिकेतस्त्रिपदप्रतिष्ठष्षडङ्गवित् स्त्रीविषये-
ष्वलुब्धः। त्रैलोक्यनाथोसि पुनीहि शम्भो दासोऽस्मि
भीतश्शरणागतस्ते ॥ ६
   कृतो महाशङ्कर तेऽपराधो मया महाभूतपते
गिरीशाकामारिणा निर्जितमानसेन प्रसादयेत्वां शिर-
सा नतोऽस्मि ॥ ७
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि मां देवदेवेश सर्वपापहरो भव ॥ ८
मम देवापराधोऽस्ति त्वयावै तादृशोऽप्यहम् ।
स्पृष्टः पापसमाचारो मां प्रसन्नो भवेश्वर ॥ ९
त्वं कर्ता चैव धाता च जय त्वं च महाजय ।
त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमोङ्कारो व्ययोधृतः॥ १०
त्वं ब्रह्मसृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः ।
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं तु हितोत्तम ॥ ११
सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तश्च धीवरः ।
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥ १२

त्वमादिरन्तो मध्यं च त्वमेवच सहस्रपात् ।
विजयस्वं सहस्राक्षो चित्तपाख्यो महाभुजः ॥ १३
अनन्तस्सर्वगो व्यापी हंसः पुण्याधिकोऽच्यतः ।
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिश्शिवः ॥ १४
त्रैविद्यस्त्वं जितक्रोधो जितारातिर्जितेन्द्रियः।
जयश्च शूलपणिस्त्वं पाहि मां शरणागतम् ॥ १५

॥ इति श्रीवामनपुराणान्तर्गता अन्धककृता शिवस्तुतिः॥