शिवस्तुतिः (नारायणपण्डिताचार्यविरचिता)

शिवस्तुतिः
नारायणपण्डिताचार्यः

शिवस्तुतिः । श्रीमल्लिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः। सटीका ।) स्फुटं स्फटिकसपभं स्फुटितहाटक श्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम- त्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥ भवस्यान्तः समासीनं भवतापनिवारकम् । संकर्षणं समानस्य व्याकरिष्ये शिवस्तुतिम् ।। स्फुटमिति । हे शितिकण्ठ, मे वीक्षणं ते वपुः इदा न्यवेक्षत इत्यन्वयः। शितिः कण्ठे यस्यासौ शितिकण्ठः तस्य संयुद्धिहे शितिकण्ठ नीलकण्ठ । शिती धवलमेचकौ इत्यमरः । मे मम वीक्षतेनेनेति कर्तृ ते तव वपुः शरीरं कर्म कदा नु कस्मिन्या समये स्फुटं यथा भवति तथा क्रियाविशेषणमेतत् । अवेक्षतेऽवेक्षिष्यते । करणे त्यो(कर्तृत्वो प्रचारः । कीदृशं वपुः स्फटिकसप्रभं तत् । पुनः । स्फुटितहाटकश्रीजटं स्फुटितं (तत.) संतप्तं तत् हाटकं च सुवर्णं तस्य श्रीरिव श्रीर्यासां ता एवंविधा जटा यस्य तत् । पुनः । श- शाङ्कदलशेखरं शशाङ्कस्य दलं शशाङ्कदलं. खण्डं शेखरे यस्य शिरोभूषणं यस्य ततः पुनः । कपिलफुल्लनेत्रत्रयं कपिलं पिङ्गलं विकसित नेत्रत्रयं यस्य तत् । पुनः । तरक्षु- वरकृत्तिमत् । तरक्षोर्व्याघ्रस्य वरा श्रेष्ठा या कृत्तिश्चर्मं तद्यस्यास्तीति । तद्यथा-व्या- घ्रचर्मपरिधानम् इति रुद्राध्याये । पुनः । भुजगभूषणं भुजगाः सर्पाः ते भूषणमलंकारों यस्यास्त्तीति । पुनः । भूतिमतः । 'भूतिभस्मनि संपदि' इत्यभिधानम् ॥ त्रिलोचन विलोचने लसति ते ललमायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् स्वभक्तिलतया वशीकृतवती सतीयं सती त्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ।।२।। त्रिलोचनेति । त्रीणि लोचनानि यस्यासौ त्रिलोचनः तस्य संबोधन हे त्रिलोचन ।ते तव विलोचने ललामायिते रत्नवदाचरिते विशिष्टे तृतीयनेत्रे लसति भासमाने सति स्मरः कामः भस्मसात्कृतः भस्म संपद्यत इति भस्मसात् अभूत् । किंलक्षणः । नियमिता निय- भवत्ता नियमस्य धस्मरो नाशकः । इयं सती साध्वी सती उमा स्वभक्तिरेव लतानया त्वां वशीकृतवती वशीचकार । भवान् वशी स्वतन्त्रः तथापि स्वभक्तशतः स्वकीया भक्तास्तेषां वशतोऽधीत्वतः वं मह्यं प्रसीद प्रसन्नो भव । काव्यमाला। महेश महितोऽसि तत्पुरुष पूरुषाग्रयो भवा- नघोर रिपुघोर तेऽनवमः वामदेवाञ्जलिः ।। नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ।। ३ ।। महेशेति । हे महेश, महितोऽसि पूजितोऽसि । इन्द्रादिभिरिति शेषः । हे तत्पुरुष, तस्य परमात्मनः पुरुषो दासः तस्य संबुद्धिः। हे वामदेव, वामः सुन्दरो देवो यस्यासौ वामदेव । भवान् पुरुषेषु अग्र्यः श्रेष्ठः । हे अघोर भक्तानामभयंकर । हे अनवम न अवमस्तस्य सं- बुद्धिः । हे वामदेव तथोक्तसंबुद्धिः। अनवमश्चासौ वामदेवश्चानवमवामदेव इत्येकं पदं वा । 'वामः सव्ये प्रती दक्षिणे वाम सुन्दरे इत्यभिधानम् । ते तुभ्यमञ्जलिरस्तु। हे सपदिजात. सद्योजात, ते तुभ्यं नमः । इत्यनेन प्रकारेणाश्चितः पञ्चरूपस्त्वं पञ्चवृत् मनो बुद्धिरहंकार चित्तं चेतनम् इति पञ्चप्रकारमित्यर्थः । एवं मनोऽन्तःकरणं प्रपञ्चय विस्तारय । पञ्च- वृत् पश्चप्रकारम् । तमोमोहमहामोहताभिन्न मिति पञ्चधा भिन्नं तमोऽविद्यां ताडय नाशय। अत्र श्रुतिः- "ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति, तत्पुरुषाय विद्महे इति, "अघोरेभ्योऽथ धोरेन्यः' इति, वामदेवाय नमः' इति, सद्योजातं प्रपद्यामि' इति । रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपुंषि तेऽहममात्मनोऽहंमिदे ।।४।। रसाधनेति । हे अज हे महारुद्र । 'अजा विष्णुहरच्छागाः इत्यभिधानम् । रसा पृथिवी घनरसं जलम् , अनलोऽग्निः, अनिलो वायुः, वियदाकाशम्, विवस्वान सूर्यः, विधुश्चन्द्रः . प्रयष्टा सोमयाजी, तेषु निविष्टं मूर्त्यष्टकमहं भजामि । प्रशान्तं मनोहरमुत अन्यत् भीषणं भयंकरं भुवनमोहनं भुवनशब्देन तनिष्ठो जनो लभ्यते । जनव्यामोहमहंकारमित्यर्थः । गुणपुंषि ज्ञानभक्तिवैराग्यादिगुणपूर्णादीनि वपूंषि रूपाणि चाहं भजामि । कथंभूतस्य तव । अहमात्मनः अहमित्यव्ययमहंकारवाचकम् । अहंकारस्यात्मा अभिमान्यहमात्मनः । कस्मै प्रयोजनाय अहमिदे देहादावहंममललक्षणाभिमाननिवृत्तये ॥ विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः कथंचिदुपशिक्षिता भगवतैव संविद्रते. वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥ शिवस्तुतिः । विमुक्तिपरमेति । प्रसिद्धा निगमवेदिनो वामदेवादय ऋषयः भगवदैव झानमुक्तिवैरा- ग्यादिगुणवतैक वया उपशिक्षिताः सन्तो विमुक्तिपरमाध्वनां विमुक्तौ परमा असक्ता एते- पामध्वनामागमभूतानां षडध्वनां षड्दर्शनानामास्पदं विषयत्वेनाश्रयीभूतं तव पदं पद्यत इति पदं ज्ञेयं परं ब्रह्मतत्त्वरूपं दा कथंचिन्महतायासेन यथाकथंचिद् केनवित्प्रकारेण न तु सामस्त्येन संविद्रते जानन्ति । 'समो सम्वृच्छिप्रच्छिंस्वरवर्तिश्रुविदिभ्यः' इति विदे- रात्मनेपदम् । 'वैतेर्विभाषा' इति रुट् । यद्वा संविद्रते संविदि ज्ञाने रतिर्यस्य स संविद्रति- स्तस्य संबुद्धः तदा जानन्तीति शेषः । हे उमेश विरलान्तराः विरलमल्पविषयमन्तरं सनो येषां वे विरलान्तरा वयं तु विशेषेण तत् परं ब्रह्म तव स्वरूपं कर्थ मन्महे जानी- महे । यदा विज्ञा वामदेवायो भवदुपदिष्टाः सन्तस्तदुपास्यं परं ब्रह्म त्वस्वरूपं वा का- र्त्स्न्येन ज्ञातुमशक्तास्तदाल्पज्ञा वयं कथं विशेषेण सामस्त्येन ज्ञानीमहे इति भावः । कठोरितकुठारवा ललितशूल्या बाहया रणङ्डमरया स्फुरद्धरणया सखट्वाङ्गया चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत- श्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥ कठोरेति । हे महेश, कठोरितकुठारया कठोरितः कुठारो यस्यां सा तया । ललितं शूलं यस्यां सा तया । रणङ्डमरो यस्यां सा तया में स्फुरद्धरणया । एवंविधया बाहया जातावेकवचनम् । बाहाभिर्बाहुभिश्चलाभिश्चञ्चलाभिरचलाभिः स्थिराभिरगणिताभिर- संख्याभिः । अतिनर्तनवृत्तिभिरिति विशेष्यपदाध्याहारो बोद्धव्यः । उन्नृत्यत उच्चैर्नर्तन कु- र्वतस्ते तव चतुर्दशजगन्ति चतुर्दशभुवनानि तन्निश्ठा जना वा युवत् (1) जय जयेति न- न्दन्तो विस्यमयुः प्रापुः ।। पु (प) रत्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः अमर्षबलहर्षित क्षुभितवृत्तनेत्रोज्ज्वल- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ पुरेति । हे महारुद्र, पु(प)राणासन्यामेद्यत्वेनोत्कृष्टानां त्रयाणां पुराणां रन्धनं भस्मी- करणम् । विविधदैत्यविध्वंसनम् । इत्याद्याः परा अपि पराक्रमाणां परम्परा अपि ते वि. स्मयो न. आश्चर्यो न । हे अमर्षवलहर्षित, अमर्षचलाभ्यां कोपसामार्थ्याभ्यां हर्षितो हर्षं प्राप्तः । लोकांना भुवनानां त्रयं तव क्षुभितवृत्तनेत्रोज्ज्वलज्वलज्वलनहेलया क्षुभितं. क्षोभ- युक्त वृतं वर्तुलं यन्नेत्रं तत्सामार्थ्यादुज्ज्वल: प्रकाशमानो ज्वलन् दहन ज्वलनोऽभिस्तस्य हेलया ज्वालाविलासेन हेला विलासे-' इत्यभिधानम् । शलभितं हि शलभवत् संजातं हि । यथा शलभोऽसौ प्रविष्टो भस्मीभवति, त(टू)द्भस्मिीभूतमित्यर्थः काव्यमाला। सहस्रनयनो गुहः सहसहस्ररश्मिर्विधु- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमा ययुः प्रार्थिनां भवान्सुरतरुर्द्दशं शिव(दिश) शिवां शिवावल्लभः ॥ ८ ॥ सहस्रेति । हे रुद्र, सहस्रनयन इन्द्रः, गुहः स्कन्दः, सहस्रं रश्मयो यस्यासौ सह- स्ररश्मिः सूर्यः, तेन सहवर्तमान एवं(भूतो] विधुश्चन्द्रः, बृहस्पतिः । उतशब्दोऽप्यर्थः । अप्पतिरपा पतिवरुणः, शक्राद्या इति शेषः(?) । ससुरसिद्धविद्याधराः सर्वे तत्तद्योगजना भवत्पदं भवदुपास्यं ब्रह्म परमयनमाश्रयों येषां ते भवत्पदपरायणाः सन्त इमां तद्योग्यां श्रियं संपदं ययुः प्रापुः । यतो भवान्प्रार्थिनां सुरतरुः कल्पवृक्षः । सुचिन्तितमनोरथ- प्रदः । हे शिवावल्लभ उमाकान्त, त्वं मह्यं शिवा मङ्गलां दृशं दृष्टिं दिश देहि ।। तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं घृतं वयमिव श्रियोवल्लभम् । विभिद्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९ ॥ तवेति । लघुवुद्धयः क्षिप्रबुद्धयः । सूक्ष्मार्थदर्शिन इति यावत् । 'लघु क्षिप्रमर हुतम् इत्यमरः । एवंविधाः पण्डिताः तब प्रियतमावस्तुतोऽतिप्रियतमं निरुपाधिविषयम् एका- न्तभक्तत्वात् । तदुक्तम्- 'एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थ- कम्' इति । सदैव स्वपरपक्षयोः पूर्वपक्षसिद्धान्तयोः लक्ष्यवत् आचरितमान्तरमन्तरे व- र्तमानं कथमिव पयस्युपहितं. स्वयं स्वेच्छया रतं धृतमिव श्रियो वल्लभं लक्ष्मीकान्तं वि- मिद्य वेद्य । तन्मीमांसा यथा क्षीरे टत्स्थितं घृतं क्षीरादिविवेक्षेण (केन) जानन्ति तथा त्वदन्तर्गतं ब्रह्म ज्ञात्वा पठन्ति । शिष्येभ्य उपदिशन्तीति भावः । शठहृदः परव- ञ्चनचित्ताः ये के ब्रह्मवादिनस्ते शुचा शोकेन शुण्ठिताः स्तम्भिताः सन्तो लुठन्ति । नित्यं निरये पतन्तीत्यर्थः । उक्तं च श्रीमद्भागवते -'एवं तत्समुपासीना न मुह्यन्ति शुचार्पिताः' इति । तथा जीवात्मभेदज्ञानमेव मोक्षसाधनं नाद्वैतज्ञानमिति भावः ।। निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवतः पदं शिव शिवेत्यदो जल्पता- मकिंचन न किंचनावृजिनमस्ति भस्मीभवेत् ॥ १० ॥ निवासेति । हे महेश चिता श्मशानभूमिः तव निवासनिलयो निवासस्याश्रयः शिर- स्ततिः शिरम्परम्परा तव मालिका, ते करे कपालमपि विद्यते, त्वमनन्तर्धियां बहिर्दृ। शिवस्तुतिः । ष्ठीनां पामराणामशिवोऽमङ्गलोऽसि । यधप्येवम् तथापि हे अकिंचन अविद्यमानकिंचिन, किमप्यासमन्ताद्वर्तमान पापं नास्ति । कि तु सर्व भस्मीभवेदित्यर्थः ।। त्वमेव किल कामधक्सकलकाममापूरय- न्सदा त्रिनयनो भयान्वहसि चात्रिनेत्रोद्भवम् । विषं विषधरान्दधपिबसि तेन चानन्दवा- न्विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥११॥ त्वमेवेति । हे विरुद्धचरित, त्वमेव कामं कन्दर्ंप दहतीति कामधक् किल सकलानां योग्यानां काममभिलाषमापूरयन्वर्तसे । अन शब्दमात्रसामान्येन विरोधभावः । अर्थ- मेदाद्विरोधपरिहारः । सदा त्रिनयनास्त्रिनेत्रः, अत्रिनेत्रोद्भवं चन्द्र वहसि च । विषधरान् दधत् सन् विषं पिबसि तेन विषपानेनानन्दवांश्च भवसि हे जगदधीश, ते भिक्षुता ज्याय्याः । अत्र विरोधाभासोऽलंकारः ।। नमः शिवशिवाशिवाशिव शिवार्थ कृन्ताशिवं नमो हर हराहरहरहरान्तरीं में दृशम् । नमो भव भवामवप्रभव भूतये ते भवन् . नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥ नमः शिवेति । हे शिव शिव, शिवानां योग्यजीवानां शिवं करोतीति (शिवं तीति) शिवः अस संबुद्धिः शिव । तत्करोति तदाचष्टे' इति णिजन्ताच्छिवयतेः सु. ब्धातोः 'अप्रत्ययात्' इति अप्रत्ययः (१)। हे अशिवाशिव, अशिवानामयोग्यजीवानाम- शुभोऽशुभकस्तत्संबुद्धिः । नमस्तुभ्यामिति शेषः । हे शिवार्ध, शिवा अर्धे यस्यासौ त थोक्तः तत्संबुद्धिः त्वं मम अशिवममङ्गलं कृन्त नाशय । हे हर हर। आदराद्विरुक्तिः । तुभ्यं नमः । अहरहः निरन्तरं वीप्सायामव्ययीभावः (१) । अन्तरोऽन्तरे सर्व यस्य रे- स्यत (१) इत्यन्तरो विष्णुसत्संबन्धिनीं दृशं ज्ञान मह्यमाहर देहि । हे अभव, तुभ्यं नमः हे अभवप्रभव । अभवस्य प्रभव उत्पादको यस्य सोऽभवप्रभवस्तत्संबुद्धिः तुभ्यं नमः हे भवन् , मद्भूतये भवेति । हे मृड, तुभ्यं नमो नमः । अन्नादरनैरन्तर्याभ्यां नमो नमः कर्तव्यमिति पुनः पुनरुक्तिः ।। सतां श्रवणपद्धतिं सरतु संनतोक्तत्यसौ शिवस्य करुणाङ्कुराप्रतिकृतात्सदा सोदिता । १. अस्य नियाम् इत्यविकारे विधानाभिन्त्यमिदम् , लस्मात्पचादेराकृतिगणनादर प्रत्ययो बोध्यः काव्यमाला। इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुः सुधीः ॥ १३ ॥ सतामिति । सासौ शिवस्तुतिः सतो साधूनां श्रवणपद्धतिं कर्णमार्गं सरतु गच्छतु । किंभूता । संनतोक्ता संनता (तेन) नम्रेणोक्ता । पुनः । प्रतिकृतात् शिवस्य करुणाङ्कुरा- त्सदोदिता। उक्ता । नारायणो नाम लिकुचिसूरिसूनुरिमां शिवां शिवस्तुतिं व्यधित कृ. तवान् । किंभूतः। प्रथितं ख्यातं मानसं यस्य सः ॥ इति श्रीलिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता सव्याख्या शिवस्तुतिः समाप्ता।