शिवस्तुतिः (रावणरचिता)
शिवस्तुतिः रावणः १९२९ |
श्रीलङ्केश्वरविरचिता
शिवस्तुतिः।
गले कलितकालिम प्रकटितेन्दु भालस्थले
विनाटितजटोरकरं रुचिरपाणिपाथोरहे।
उदञ्चितकपालकं जघनसीम्नि संदर्शित-
द्विपाजिनमनुक्षणं किमपि धाम बन्दामहे ॥१॥
वृषोपरिपरिस्फुरद्धवलधाम धामश्रिया
कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
क्वचिरपुनरुमाकुचोपचितकुङ्कुमी रचितं
गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥२॥
उदित्वरविलोचनत्रयविसृत्वरज्योतिषा
कलाकरकलाकरव्यतिकरण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लस-
तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३ ॥
विहाय कमलालयाविलसितानि विद्युन्नटी-
विडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ
कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४॥
भवद्भवनदेहलीविकटतुण्डदण्डाहति-
त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसंपदः प्रमथनाथ नाथाम हे ॥ ५॥
त्वदर्चनपरायणप्रमथकन्यकालुण्ठित.
प्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तिनी-
प्रकीर्णसुमनोरमनोरमनमेरुणा मेरुणा ॥ ६ ॥
न जातु हर यातु मे विषयदुर्विलासं मनो
मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरसुरतरङ्गिणीतटकुटीरकोटौ वस-
न्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७॥
विभूषणसुरापयाशुचितरालवालावली-
वलद्बहलसीकरप्रकरसेकसंवर्धिता।
महेश्वरसुरदुमकुरितसज्जटामञ्जरी
नमज्जनफलपदा मम न हन्त भूयादियम् ॥ ८॥
बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः
समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं
निशाकरकलामहं वटुविमृष्यमाणां भजे ॥ ९॥
त्वदीयसुरवाहिनीविमलवारिधारावल-
ज्जटागहनगाहिनी मतिरियं ममाक्रामतु ।
उपोत्तमसरित्तटीविटपिताटवीप्रोल्लस-
त्तपस्विपरिषत्तुलाममलमल्लिकाम प्रभो ॥ १० ॥
इति श्रीलादेश्वरविरचिता शिवस्तुतिः समाप्ता ।